________________
शक्तिनिर्णयः ।
२८९
दर्पणः
अत्र वदन्ति - अर्थबोधजनकत्वस्य वस्तुतः पदनिष्ठस्य वाच्यवाचकव्यवहारनियामकशक्तित्वसम्भव एवोक्तकार्य्यकारणभावे गौरवलाघवादिचर्चा, न तु तस्य तद्रूपत्वसम्भवः । तथाहि — शाब्दबोधं प्रति वृत्तिज्ञानस्य हेतुतेति निर्विवादम् । सा च भवदुक्तार्थंधीजनकत्वस्य वृत्तित्वे न सम्भवति तद्रूपायास्तस्याः शाब्दधीजनकतायामनवच्छेदकत्वात्। आत्माश्रयेण स्वस्यैव स्वावच्छेदकत्वासम्भवात् ।
किञ्च प्रयोज्य प्रयोजकव्यवहारं दृष्ट्वा प्रयोज्यप्रवृत्त्यनुमिते प्रयोज्यघटानयनादिज्ञाने उपस्थितत्वाच्छाब्दस्यैव हेतुतायामवधार्यमाणायामसम्बद्धस्य कारणत्वानुपपत्त्या कल्प्यमानसम्बन्धस्य जनकत्वात्मकत्वासम्भवः । स्वयमनुपपद्यमानत्वेन गृहीतस्य ग्रहीतुमशक्यत्वात् । तस्मान्न बोधकत्वं शक्तिः । एवं न्यायमताभ्युपेताऽस्मात् पदादेतदर्थविशेष्यकबोधो भवत्वित्याकारकेश्वरेच्छाविषयत्वस्याऽपि सङ्केतीयगङ्गापदजन्यत्व प्रकारतानिरूपितबोधत्वावच्छिन्नोद्देश्यकता निरूपितविशेष्यत्ववृत्त्यवच्छेदक - ताधेयता सम्बन्धावच्छिन्नावच्छेदकत्वपर्य्यवसितस्य न शक्तित्वं, लक्षणोच्छेदापत्तेः ।
गङ्गापदात् तीरबोधोदयेन गङ्गापदात्तीरबोधो भवत्वितीच्छाया अपि भगवतः सम्भवात् । तादृशेच्छी यनिरुक्तावच्छेदकताया लक्ष्ये तीरेऽपि सम्भवात् । तादृशाऽवच्छेदकतात्वेन शाब्दे शक्तिज्ञानस्य कारणताकल्पने गौरवाच्च । तीरादिनिष्ठावच्छेदकतायाः पूर्वोक्तविशेष्यत्ववृत्त्यवच्छेदकता निरूपितत्वेऽपि न विशेष्यवृत्त्यवच्छेदकतात्वेन तन्निरूप्यत्वं किन्तु शुद्धाऽवच्छेदकतामात्रेणेति न तादृशशक्तिस्तीरे इति तु शिष्यप्रतारणामात्रम् । इच्छाविषयत्वं ज्ञानविषयत्वं वा शक्तिरिति विनिगमनाविरहाच्च । तस्मात् पदपदार्थयोर्वाच्यवाचकभावव्यवहारनियामकः सम्बन्धः पदार्थान्तरमेव ।
तस्य च लक्ष्यव्यावृत्तस्यव धर्मिग्राहकमानसिद्धत्वाल्लक्ष्यबोधार्थं शक्यसम्बन्धरूपलक्षणावृत्तेरपि स्वीकार आवश्यकः । तज्ज्ञानस्य शाब्दबोधे हेतुत्वान्तरकल्पप्रयुक्त गौरवं तु फलमुखत्वान्न दोषावहम् । अन्यथाऽनुपपत्तेश्च । अत एव शक्यलक्ष्यव्यवहारः स्वरसतः सङ्गच्छते ।
अथवा शक्तिलक्षणाज्ञानयोः शाब्दरूपं प्रत्येकरूपेणैव हेतुता । तथाहि - तच्छाब्दं प्रति शक्तित्वाऽवच्छिन्नसांसर्गिक विषयता निरूपितपदनिष्ठप्रकारतानिरूपिततदर्थविपरीक्षा
शक्तिस्तद् भिन्नैव स्वीकार्या । किञ्चास्य चैत्रस्य तमः पदचन्द्रपदयोः कचमुखविषयकबोधजनकत्वग्रहः पूर्व नास्ति तं सखायं प्रति देवदत्तेन विपरीतरतिसमकालिकनायिकावृत्तान्तकथनकाले तमसा चन्द्रस्तिरोहित इत्युक्तम्, तच्छ्रुत्वा चैत्रस्य विशिष्टबुद्धिमत्त गौण्या वृत्या कचभरेण सुखमाच्छादितमिति ग्रहो भवति । यदि लक्षणावृत्तिर्नाभ्युपेयते, तदा तमश्चन्द्रशब्देऽप्येककच भरवदनविषयक बोधजनकत्वग्रहस्तस्य चैत्रस्य नास्तीति तस्य कचभरवदनविषयकशाब्दबोधानुपपत्तिरिति न लक्षणाया अर्थबोधजनकत्वस्य त्ववृत्तित्वस्वीकारेण खण्डनं भवति । तस्मात्पूर्वोक्तरीत्या तस्माच्छब्दादयमर्थो बोद्धव्य इति सङ्केत एव शक्तिः । लक्ष्यदावतिप्रसङ्ग परिहारः प्रागुक्तरीत्या कार्यः । लक्षणाऽपि वृत्यन्तरम् । सा च लक्षणा द्विविधा । गौणी शुद्धा च । तत्र गौण्याः स्वरूपं
३७ द० प०