________________
२९०
दर्पणपरीक्षासहित भूषणसारे
दर्पणः शेष्यताकज्ञानत्वेन हेतुता। शक्तिसम्बन्धेन, शक्यसम्बन्धेन वा पदप्रकारकज्ञाने शक्तेः संसर्गत्वात् । शक्तित्वनिष्ठावच्छेदकतायां पर्याप्तेरनिवेशेन शक्यसम्बन्धसंसर्गकज्ञानस्यापि तेन क्रोडीकरणात् । परन्तु पदनिष्ठप्रकारतानिरूपिततादृशसांसर्गिकविषयतायामर्थविशेष्यतानिरूपितत्वाऽनभ्युपगमान्न शक्तिसम्बन्धेन पदाऽभावप्रकारकबुद्धिप्रतिबध्यत्वं लक्षणाज्ञानस्य। ___"इन्द्रियाणाम्" इत्यादिहरिपद्यस्य त्वयमर्थः-इन्द्रियाणां चाक्षुषादिविषयेषु घटादिषु पुरुषप्रयत्नाऽनपेक्षा यथा योग्यता तदीयचाक्षुषादिकारणतावच्छेदकरूपास्ति; तथाऽर्थः साकमपि पदानां सम्बन्धो योग्यता तच्छाब्दबोधजनकताऽवच्छेदकधर्मो, न तु जनकत्वमेवोक्तयुक्तेरिति न तद्विरोधोऽपीति सर्वमनवद्यमिति ।। तग्राहकं च व्याकरणस्मृत्यादि । तदुक्तम्
शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याव्यवहारतश्च ।
वाक्यस्य शेषाद्विवृतेर्वदन्ति सानिध्यतः सिद्धपदस्य वृद्धाः ॥ इति । तत्र व्याकरणादिकं लाघवसहकृतमेव शक्तिग्राहकमिति नैयायिकमतम् । यतो लाघवसहकृतेन, "लः कर्मणि" (पा० सू० ३।४।६९) इति सूत्रेण कृतावेव शक्तिः परिच्छिद्यते, न तु कर्तरीति यथैतत्तथोक्तम् । एवं "गुणे शुक्लादय” इति कोशेनापि लाघवसहकृतेन गुणे एव शक्तिनिर्धार्यते न तु गुणिनि गौरवात्। गुणिबोधस्तु शुक्लादिपदेभ्यो निरूढलक्षणयैवेति च तदुक्तेः निरूढत्वं च प्राङ्निरुक्तम् ।।
उपमानस्य तु सादृश्यज्ञानात्मकस्याऽतिदेशवाक्यार्थस्मृतिद्वारा गवयादिर्गवया. दिपदवाच्य इति शक्तिपरिच्छेदकत्वम् । इदमेतद्वाचकमित्याकाराऽऽप्तवाक्यादपि तद्ग्रहः । आप्तत्वं च तदर्थविषयकयथार्थज्ञानवत्त्वम् । व्यवहाराद् यथा प्रयोजकवृद्धेन घटमानयेत्युक्ते प्रयोज्यवृद्धेनाऽऽनीते घटे पार्श्वस्थो, घटकर्मकानयनादिकार्य घटकर्मकानयनादिज्ञानसाध्यमित्यनुमिमीते। व्यवहारे व्यवहर्त्तव्यज्ञानस्य हेतुत्वात्। अनन्तरं तद्धतुजिज्ञासायामुपस्थितं तद्वाक्यमेव तद्धेतुत्वेनाऽवधारयति । तस्य चाऽर्थासम्बद्धस्य तद्धेतुत्वानुपपत्त्यार्थेन साकं पश्चादू वाक्यस्य सम्बन्धमवधारयति । सैव शक्तिरिति व्यवहियते।
परीक्षा प्रागुक्तम् । शुद्धा द्विविधा उपादानरूपा, लक्षणारूपा च । ऐक्यार्थापरित्यागेनेतरार्थोऽप्यस्तीति जनिका उपादानलक्षणा, इयमेवाजहत्स्वार्थेत्युच्यते। तदपरित्यागश्च येन केनापि रूपेण लक्ष्यार्थान्वयिनान्वयित्वम् । यथा क्षत्रिणो यान्तिः कुन्ताः प्रविशन्ति, काकेभ्यो दधि रक्ष्यतामित्यादौ, आद्ये क्षत्रियशब्दस्यैकसार्थवाहित्वावच्छिन्ने, द्वितीये कुन्तशब्दस्य कुन्तधरे, तृतीये-काकशब्दस्य दध्युपघातके लक्षणा। ___ शक्यार्थपरित्यागेनैतदर्थविषयबोधजनिका लक्षणा इयमेव जहत्स्वार्थत्युच्यते । तत्परित्यागश्च शक्यार्थस्य येन केनापि रूपेण लक्ष्यार्थान्वयिनानन्वयित्वम् । यथा 'गङ्गायां घोषः' इत्यादौ गङ्गापदादेस्तीरलक्षणायाम्।
यत्तु-शक्यार्थविषयिताशून्यलक्षार्थविषयबोधजनिका जहत्स्वार्थेति। तन्न । गां वाहीकमानयेत्यत्र गामित्यस्य गोशब्दे लक्षणायामतिव्याप्तः।