SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ शक्तिनिर्णय दर्पणः यद्यपि प्रथम तेन वाक्यस्य वाक्यार्थेऽवधारितः सः, तथापि घट नय गामानयेत्यावापोद्वापाभ्यां पश्चाज्जातप्रत्येकपदशक्तिग्रहेण प्राग्जातवाक्यशक्तिग्रहे चन्द्रा. देयोतिःशास्त्राध्ययनजन्यशतयोजनादिपरिमाणग्रहेण पाश्चात्येन प्राथमिकाल्पपरिमा. णग्रह इवाऽप्रामाण्यं गृह्यते इति नैयायिकाः। प्रत्येकपदशक्तिग्रहेणैवाकाङ्क्षादिसहकृ. तेन वाक्याऽर्थबोधोपपत्तिरिति तदाशयः । ___अन्ये तु-वाक्याऽर्थशक्तिग्रहस्य प्रत्येकपदशक्त्युपजीव्यत्वात्तेनैतद्वाधासम्भषेन प्राग्जातशक्तिग्रहस्यैव बलवत्वमित्याहुः । वाक्यशेषात्तु “यवैर्जुहोति" इत्यत्र-यवपदस्य दीर्घशूकविशिष्टे आर्याणां प्रयो. गात् 'कङ्गौ म्लेच्छानां प्रयोगात्' क शक्तिरिति सन्देहे, “यत्राऽन्या ओषधयो म्लायन्ते अथैते मोदमाना इवोत्तिष्ठन्ति" इति वाक्यशेषेण दीर्घशूकविशिष्टे तन्निर्णयः। विवरणस्य यथा शक्तिप्राहकत्वं तथा धात्वर्थनिरूपणे उक्तम् । “इह सहकारतरौ मधुरं पिको रौति" इत्यादौ प्रसिद्धसहकारादिपदसन्निधानात् पिकादिपदानां कोकिलादौ शक्तिःपरिछिनत्तिरिति । सैषा शक्तिर्नानार्थेषु संयोगादिना नियम्यते । तदुक्तं काव्यप्रकाशे संयोगो विप्रयोगश्च साहचवें विरोधिता। अर्थः प्रकरणं लिङ्ग शब्दस्याऽन्यस्य सन्निधिः ॥ सामर्थ्य मौचिती देशः कालो व्यक्तिः स्वरादयः। शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ इति ॥ शब्दाऽर्थस्याऽनवच्छेदे सन्देहे तन्निरासद्वारा विशेषनिर्णयस्य जनकाः संयोगादय इति तदर्थः। शक्योपस्थितानामनेकेषामेकतरमात्रार्थतात्पर्य्यनिर्णयद्वारा तत्तदर्थबो. धजनकत्वं तेषामिति भावः। तत्र सवत्सा धेनुरवत्सा धेनुरिति क्रमेण संयोगविप्रयोगयोरुदाहरणे । साहचर्यम्सादृश्यम् , सदृशयोरव प्रायशः सहप्रयोगात् । एवञ्च रामलक्ष्मणावित्यादावुभयो - नार्थयोर्युगपदेव साहचर्य्यग्रहाधीनतात्पर्यग्रहेण विशेषाऽवगतिरिति नान्योन्याश्रयः। 'रामार्जुनगतिस्तयोः' इत्यादौ विरोधेन सा 'अञ्जलिना जुहोति' 'अञ्जलिनादित्यमुपतिष्ठते, इत्यादौ धात्वर्थवशातत्तदाकाराऽजलिपरत्वम् । 'सैन्धवमानय' इत्यादी परीक्षा पुनरिमं द्वित्रिरूढा स्वारसिका चेति । प्रयोजनाभावेऽपि शक्यार्थान्वयबाधग्रहानन्तरमन्यार्थस्य लक्षणया बोधस्तत्र निरूढलक्षणा । यथा त्वचा ज्ञानमिति वाक्यघटकस्य त्वक्शब्दस्य त्वगिन्द्रिये । एवं कुशलप्रवीणादिशब्दानाम् । प्रयोजनवती तु कुन्ताः प्रविशन्ति गङ्गायां घोष इत्यादौ च । आद्य-भीतिपलायमानवाक्ये कुन्तपदस्य कुन्तसंयुक्तपुरुषे लक्षणायां कुन्तगततैक्ष्ण्यप्रतीतिः प्रयोजनम् । गङ्गायां घोष इत्यादौ तु शत्यपावनत्वस्य तीरे प्रतीतिः प्रयोजनम् । लक्ष्यतावच्छेदके तु न लक्षणा, नचैवं तस्य शब्दबोधे भान न स्यादिति वा. च्यम् ? तद्धर्मावच्छिन्ने शक्यसम्बन्धस्य ग्रहस्य तद्धर्मावच्छिन्ने पदार्थान्तरमन्यप्रयोजकत्वकल्पनेन तद्भाननिर्वाहात् । लक्ष्यतावच्छेदके लक्षणा नास्तीति प्रवादो
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy