SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारे दर्पणः तु, भोजनादिरूपप्रकरणेन सा । 'अक्ताः शर्करा उपदधाति' इत्यादौ 'तेजो वै घृतम्। इत्यादिस्तुतिरूपाल्लिङ्गादक्तपदस्य घृतसाधनाञ्जने तात्पर्यावगतिः। 'रामो जामदग्न्य' इत्यादौ जामदग्न्यपदसन्निधानेन रामपदस्य परशुरामपरता। एवम् 'अभिरूपाय कन्या देया' इत्यत्राभिरूपतरायेति सामर्थ्यादवगम्यते । 'यश्च निम्बं परशुना' इत्यत्रौचित्यात् परशुपदस्य छेदनाऽर्थत्वम् । 'भात्यत्र परमेश्वर' इत्यत्र राजधानीरुपदेशात् परमेश्वरपदस्य राजपरत्वम् । चित्रभानु ति' इत्यत्र चित्रभानुपदं रात्रौ वन्हेर्दिवा सूर्यस्य बोधकम् । 'मित्र भाति' 'मित्रो भाति' इत्यादौ व्यक्तः-लिङ्गादाद्ये सुहृदोऽन्त्ये सूर्यस्य बोधक मित्रपदम् । 'स्थूलपृषतीमनड्वाहीम्' इत्यत्र स्वरात् तत्पुरुषबहुव्रीह्यर्थनिर्णयः । आदिपदात् षत्वणत्वादि। यथा 'सुसिक्तम्' इत्यत्र सुशब्दस्य कर्मप्रवचनीयस्य पूजाऽ. र्थकत्वं, सुषिक्तमित्यत्रोपसर्गस्यान्याऽर्थकत्वम् । एवं 'प्रणायक' इत्यत्र णत्वात् प्रणयनकर्तबोधः । 'प्रनायक' इत्यत्र तदभावात् प्रगतनायकबोध इत्याचूह्यम् । ___यत्तु पदपदार्थयोर्योऽर्थः स शब्दो यः शब्दः सोऽऽर्थ इतीतरेतराऽध्यासमूलकतादात्म्यं भेदव्यापृक्तमस्ति । "तस्य वाचकः प्रणवः" 'ओमित्येकाक्षरं ब्रह्म' इति भेदाभेदयोर्दर्शनात् । आये भेदस्योद्भूतत्वविवक्षया षष्ठी, अभेदस्योद्भूतत्वविवक्षयाः त्वन्त्ये प्रातिपदिकाऽर्थे प्रथमा । स एव सम्बन्धः पदतदर्थयोर्वाच्यवाचकभावव्यवहारनियामकः । शक्तिस्तु सङ्केतः पदार्थाऽन्तरं वेति भट्टानुयायिमतम् । तत्तु न साधीयः। अध्यासमूलकस्याऽसतस्तस्य सम्बन्धत्वासम्भवात् । भेदाभेदयोः परस्पराभावरूपतया विरुद्धत्वेनैकत्रासम्भवाच्च । कस्यचित् तथाऽध्यासस. म्भवेऽपि सर्वेषां तथाध्यासे मानाभावात् । घटपदनाशेऽपि घटस्योपलभ्यमानतया तयोस्तादात्म्यस्यासम्भवदुक्तिकत्वाच्च ।। ... न च पाकरक्ते प्राक् श्यामेऽपि पाकोत्तरमयमिदानीं न श्याम इति प्रतीते दाभेदौ न विरुद्धाविति वाच्यम् । अव्याप्यवृत्तीनां तेषामेकाऽवच्छेदेन विरोधानपायात् । अत एव तत्र देशकालावच्छेदकभेदेनैव 'अयमिदानीं न श्यामो' 'वृक्षो मूलेन कपिसंयोगी' इति न तु तदनवगाहिनी-घटोऽयं न श्यामो वृक्षो न कपिसंयोगीति प्रतीतिः । किन्त्वभेदवादे घटपदनाशे घटनाशापत्तिः, एवं शब्दवर्थस्यापि श्रोत्रेन्द्रियग्राह्यतायाः शब्दस्य चक्षुरादीन्द्रियग्राह्यतायाश्चापत्तिरिति बहुव्याकोपः । शब्दस्य यथा न नित्यत्वं तथा वक्ष्यते । परीक्षा निर्मल एव इति तु न, शक्यसम्बन्धो हि लक्षणा, स च सम्बन्धः साक्षादेव गृह्यते नतु परम्परासम्बन्धः। अत एव प्रकाशकृता प्रयोजनं न लक्ष्यं सम्बन्धाभावादित्युक्तम् । अत्र प्रयोजनशब्दः प्रयोजनया प्रतीतिस्तद्विषयलाक्षणिकः । लक्ष्यतावच्छेदक हि परस्परासम्बन्धस्यैव सम्भव इति । नच परम्परासम्बन्धो हि लक्षणेति स्वीकारे द्विरेफपदस्य वाच्यं यद्रेफद्वयं तद्घटिते भ्रमरपदे तद्वाच्यत्वरूपपरम्परासम्बन्धमादाय मधुव्रते लक्षणा न स्यादिति वाच्यम् ? इष्टापत्तेः, द्विरेफपदं रथन्तरपदवढ्या मधुव्रतोत्थापकमित्यस्वीकारात् । वृत्तिज्ञानजन्योपस्थितिःका
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy