SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ शक्तिनिर्णयः। . 'दर्पणः नचाऽत्यन्तभेदे घटः पटोऽत्यन्ताऽभेदे घटो घट इति सामानाधिकरण्यादर्शना दाभेदवादोपपत्तिरिति शङ्कयम् । 'शब्दो घट' इत्याद्यननुभवात् 'घटोन शब्दो', 'घटो न घट' इत्याद्यनुभवाच्च भेदस्यैव सिद्धेः । 'ओमित्येकाक्षरम्' इत्यादौ त्वक्षरपदस्य तत्प्रतिपाद्ये निरूढलक्षणया सामानाधिकरण्योपपत्तेस्तद्वाक्यस्योपासनाकाण्डस्थतया भेदेऽप्यभेदोपासनपरतयोपपत्तेश्चेत्यन्यत्र विस्तरः। __सा च शक्तिस्त्रिधा-योगो, रूढियोगरूढिश्चेति । प्रकृतिप्रत्ययनिरूपिता तत्तदर्थे या शक्तिः स योगस्तन्मात्रेणार्थबोधकं पदं यौगिकमिति व्यवहियते । यथा पाचकादिपदम् । तद्घटकधातुप्रत्यययोः पाकादौ कर्नादिकारके च व्युत्पन्नत्वात् । अक्यवार्थाप्रतीतौ केवलसमुदायस्य तत्तदर्थे या शक्तिः सा रूढिस्तयार्थबोधकं पदं रूढम् । यथा मणिनूपुरादि । अश्वगन्धादिपदात्तु कदाचिदोषधिनिष्ठसमुदायनिरूपितशक्त्यौषधिबोधः । कदाचित्तु अश्वस्य गन्धोऽस्यामिति व्युत्पत्त्या वाजिशालादिबोधोऽवयवशक्त्येति यौगिकरूढिः पृथङ्नोक्ता। उक्तयोरेवान्तर्भावात् । "रूढिर्योगापहा. रिणी' इति तु प्रकरणाद्यभावे लाक्षणिकं तद् । वाजिशाला बोधे इत्यपरे । ___ यत्रावयवार्थसहकृता समुदायशक्तिरर्थबोधिका सा योगरूढिस्तयार्थबोधकं पदं योगरूढम् । यथा पङ्कजादिपदम् । तत्र पङ्काधिकरणकोत्पत्त्याश्रयपद्मत्वविशिष्टबोधाद अनुपपत्तिप्रतिसन्धान विनापि पद्मबोधान्न तत्र लक्षणावसर इत्यादिप्रपञ्चितं पूर्वमेव । ___'गङ्गायां घोष' इत्यादौ गङ्गापदस्य तीरे शक्यसामीप्यरूपलक्षणाग्रहे तदाऽऽहित. संस्कारजन्यतीरादिस्मृत्या तीराधिकरणकघोषशाब्दबुद्धिः । लक्ष्यव्यवहारान्यथानुपपत्त्या लक्षणाया अप्यवश्यमभ्युपेयत्वात्। अन्वयाऽनुपपत्तिप्रतिसन्धानं च तत्कल्पने बीजम् । यथोक्ते क्वचिन्निराकाङ्क्षत्वमपि तदबीजम् । यथा “वदनं तस्या वदनं मुखममुखं भाति चान्यासाम्" इत्यत्र तादात्म्यसम्बन्धावच्छिन्नवदनत्वावच्छिन्नप्रकारतानिरूपितवदनत्वावच्छिन्नविशेष्यताको बोधो न सम्भवति । तादात्म्यसम्बन्धावच्छिन्नतादृशप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबुद्धौ विधेयताऽवच्छेदकभेदस्य तन्त्रत्वादिति वदनत्वावच्छिन्नार्थकवदनपदनिरूपिताकाङ्क्षा न वदनपदेऽतस्तत्र वदनपदं लक्षणयाऽऽल्हादकपरम् । तदुपस्थितालादकत्वाऽवच्छिन्नास्याभेदान्वयो वदने अनुशासनबोधितनैराकाङ्यमपि कचित्तथा । यथा- . कृतसीतापरित्यागः स रत्नाकरमेखलाम् । .. बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् ॥ . परीक्षा रणम् , वृत्तित्वञ्च-पदार्थोपस्थित्यनुकूलज्ञानविषयपदपदार्थसम्बन्धत्वमेव। अत्र पदार्थों पस्थित्यनुकूलत्वं परिचायकम् , नतु विशेषणमिति बोध्यम् । यथा शक्तिलक्षणान्यतरस्य वृत्तिरूपसम्बन्धत्वं तथा व्यञ्जनापि पदार्थोपस्थित्यनुकूलत्यपि वृत्तिः, परन्त्वयं विशेषः-शक्तिलक्षणावदियं न ज्ञानाय पदार्थोपस्थितिहेतुः। किन्तु स्वसती व्यंग्योपस्थितिप्रयोजिका । अत्र मुख्यार्थबाधग्रहस्यानापेक्षा, अनया च मुख्यार्थसम्बन्ध एवार्थ उपस्थाप्यत इति तु न । अत एव मुख्यार्थबाधग्रहनिरपेक्षबोधजनको मुख्यार्थसम्बन्धासम्बन्धसाधारणप्रसिद्धाप्रसिद्धार्थविषयकवक्त्रादिवैशिष्टयज्ञानप्रतिभागुबुद्धसंस्कार
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy