________________
२९४
दर्पणपरीक्षासहिते भूषणसारे -
दर्पण:
इत्यत्र भुजिधातोरवनवा च कादात्मनेपदनिराकाङ्क्षतया वाच्यार्थ बुद्धौ प्रतिबद्धायां तद्धातुना स्वार्थपालनसम्बन्धिशासनं लक्ष्यते । आत्मनेपदसमभिव्याहृतभुजत्वावच्छेदेनाऽऽख्यातबोध्यकर्त्रन्वितपालनबोधस्वरूपाऽयोग्यत्वरूपनैराकाङ्क्षयस्य "भुजोऽनवने" (पा०सू० १।३।: ६) इति सूत्रेण बोधनात् । तत्र केवलपदेन तात्कालिकरामाभिन्नपृथिवीपालकर्त्तकभोगकर्मनिष्ठाऽन्योन्याऽभावप्रतियोगिताऽनवच्छेदकैकत्वयोगिनी व्यक्तिरभिधीयते । एवकारेण पृथिव्यन्ययोगव्यवच्छेदः ।
एवञ्च तत्कालिकरामाभिन्नपृथिवीपालनकर्त्तकभोगकर्मनिष्ठान्योन्याभावप्रतियो
गितानवच्छेदकैकत्वविशिष्टाभिन्नपृथिवीकर्मकभोगकर्त्ता पृथिव्यन्यस्त्रीकर्म कभोगाकर्त्ता - रामाभिन्नः पृथिवीपाल इति न्यायनये वाक्यार्थबोध: । 'द्विरेफो मधुरं रौति' 'पिकः कूजति कानने' इत्यादौ तु मुख्यार्थबाध एव लक्षणाबीजम् । किन्तु सा लक्षितलक्षत्युच्यते । लक्ष्यसमासार्थ रेफद्वयविशिष्टघटितत्वात्तस्याः ।
तथाहि — येन पुरुषेण द्विरेफादिपदस्य प्राणिविशिष्टे शक्तिर्न गृहीता, किन्तु द्वौ रेफौ यत्रेति व्युत्पत्त्या रेफद्वयसम्बन्धिभ्रमरपदे शक्यसम्बन्धरूपलक्षणा गृहीताः तस्य प्राणिविशेष विशेष्यकमधुरारावकर्त्तृत्वशाब्दबोधस्य तात्पर्य्यविषयस्यानुपपत्त्या द्विरेफपदात् स्वलक्ष्यरेफद्वयघटितपदवाच्यत्वलक्षणयोपस्थिते प्राणिविशेषे मधुराऽऽरावकर्त्तत्वान्वय इति द्विरेफपदेन भ्रमरपदमुपस्थाप्यते । तेन च प्राणिविशेषोपस्थितिरिति तु न सम्यक् । प्रत्ययानामिति व्युत्पत्तेस्तत्र प्रत्ययार्थान्वयाऽसम्भवात् । भ्रमरपदे लक्षणायामपि न तेन तदुपस्थितिरुच्चरितस्यैवाऽर्थप्रत्यायकत्वादित्यण्याहुः । एवं “पिकः कूजति कानने" इत्यादावपि बोध्यम् ।
एवम् -
गङ्गा हरति वै पुंसां दृष्टा पीताऽवगाहिता ।
इत्यत्र पीता गङ्गा पापं हरतीति वाक्ये गङ्गापदात् स्वशक्य प्रवाहाऽवयवाऽवयविभावसम्बन्धरूपलक्षणाग्रहाऽऽहितसंस्कार सहकृतादुपस्थितोदूष्टतजले पानकर्मत्वाऽन्वयः । तात्पर्य्याऽनुपपत्तिरेव वा सर्वत्र लक्षणाबीजम् । तदुन्नायकत्वेनैवोक्तनैराकायादीनामुपयोगः । अत एव यष्टीः प्रवेशयेत्यादौ यष्ट्यादिपदानां तद्धारणकर्त्तरि क्षणा | यष्टिषु प्रवेशकर्मत्वाऽन्वयानुपपत्त्यभावेऽपि भोजनादिप्रकरणोन्नीततात्पर्य्यविषय भोजनप्रयोजनकप्रवेशकर्मत्वानुपपत्तेस्तत्र जागरूकत्वात् । एवं 'कुन्ताः प्रविशन्ति' 'छत्रिणो यान्ति' इत्यादावप्यूह्यम् ।
ननु च्छत्रिशब्दस्य पदद्वयघटितत्वेन वाक्यतया न्यायनये कथं तस्य लक्षणा, शक्याप्रसिद्धेः । किञ्चाऽत्र नैकसार्थगन्तृत्वं लक्ष्यतावच्छेदकम् । यान्तीत्यस्यानन्वया
परीक्षा
विशेषो व्यञ्जनेत्यस्याः स्वरूपमन्यैरुक्तः द्योतनायैव । अनया बोधको निपातो द्योतक इत्युच्यते । एतत्प्रयोजिका जन्मान्तरगृहीता शक्तिः निपातानां स्त्रीप्रत्ययानामन्येषां च द्योतकताः स्फोटस्य व्यङ्ग्यता च भाष्यकारादिसम्मतेति । वैयाकरणमतेऽप्येषास्ति ।
एषा च शब्दशक्तिमूला लक्षणामूला व्यञ्जनामूलेति त्रिधा । अस्या अयमपरो विशेषः । शक्तिलक्षणा च शब्दार्थयोरेव सम्बन्धः । ताभ्यां बोधकयोः शक्तेर्लाक्षणिक