SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ शक्तिनिर्णयः। २९५ दर्पणः पत्तेः । गन्तृत्वेनोपस्थितस्य गमनाकाङ्काविरहादिति चेत् ? सत्यम् । सम्बन्धिशक्तमतुप एव तत्रैकसार्थसम्बन्धिलक्ष्यकत्वाभ्युपगमेनोक्तदोषद्वयस्याप्रसक्तेः । न चं छत्रपदवैयर्थ्यम् । तस्य तात्पर्य्यग्राहकत्वेन सार्थक्यात्। 'लाक्षणिकं पदं नाऽनुभावकम्' इति सम्प्रदायः । स्वशक्याऽनुभवं प्रत्येव पदानां कारणत्वम् । इतरपदार्थेन सह स्वशक्याऽनुभावकत्वेन क्लृप्ताद् घोषादिपदादेव तीराऽनुभवोपपत्तेर्न शक्याशक्योपस्थितिर्लक्षणेत्यभ्युपगच्छतां मते स्वजन्योपस्थितिसम्बन्धेनैव पदस्याऽनुभावकतया तस्याश्च तीरादावभावात्तस्याऽननुभावकत्वमिति तन्मूलम् । न च तत्सम्भवति । शक्योपस्थितात्तीरादेरप्रकृत्यर्थतया तत्र प्रत्ययार्थान्वयासम्भवात्। ___ वस्तुतस्तु लाक्षणिक पदमुद्देश्यविधेयभावेनान्वयाजनकमित्येव तदर्थः । उद्देश्यविधेयभावेनान्वये शक्तिमत्त्वस्यैव तन्त्रत्वात् । अत एव "न विधौ परः शब्दाऽर्थः" इति सङ्गच्छते । किञ्च तन्तुसंयोगहेतुत्वतात्पर्यकं, 'तन्तुः पटं जनयति' इति सर्वलाक्षणिकवाक्येऽन्वयाऽनुभवाऽपलापाऽऽपत्तेर्लाक्षणिकपदस्यानुभावकत्वमेव न्याय्यम् । गङ्गापदात्तीरमनुभवामीति प्रतीतेश्च तादृशप्रवादे नाभिनिवेष्टव्यम् । ___ ननु 'स्वायत्ते शब्दप्रयोगे किमित्यवाचकं पदं प्रयोक्ष्यामह' इति न्यायात्तीराद्यवाचकगङ्गादिपदाऽभिधानमनुचितम् प्रयोजनजिज्ञासायां पावनत्वादिप्रतिपत्तये तदिति यदि, तर्हि वृत्तिं विना तस्य शब्दे भानासम्भवात्तदर्थ व्यञ्जनावृत्तिरपि तृतीयाऽङ्गीकरणीया । अत एव अबलानां श्रियं हृत्वा वारिवाहैः सहानिशम् । तिष्ठन्ति चपला यत्र स कालः समुपागतः॥ इत्यत्राऽशक्तानां श्रियमपहृत्य पुंश्चल्यो जलवाहकैः साकमरमन्त इत्यतात्पयविषयरूढ्यर्थाऽनालिङ्गितार्थाऽन्तरस्यापि प्रतीतिः सा चार्थद्वारिकाऽपि। "भ्रम धार्मिक विश्रब्धं स शुनकोऽद्यमारितस्तेन । गोदातीरनिकुञ्जप्रतिष्ठितनिसर्गदृप्तसिंहेन"॥ इत्यादौ प्रतिभाजुषां सहृदयानां वक्तृबोद्धव्यवैशिष्टयस्फूर्ती सिंहप्रतीत्यनन्तरं गोदातीरे श्वभीरुभ्रमणायोग्यत्वप्रत्ययादिति चेद् ? न । __ रूढ्यर्थानालिङ्गिताऽर्थस्य केवलयोगेन प्रतीत्यसम्भवेऽपि लक्षणया तस्याः सूपपादत्वात्। पावनत्वादिप्रतीतिर्विशिष्टलक्षणयाऽपि शुद्धलक्षणयैव अनुपपत्तिपरिहारे विशिष्टे तदभ्युपगमे बीजाऽभाव इति तु न । 'यष्टीः प्रवेशय' इत्यत्रेवात्रापि तदनापत्तेः । वाच्यार्थवैयञ्जनिकबुद्धरनुमानेनापि गतार्थत्वाच्च । वस्तुतस्तु गालिप्रदानादेरिवेतोऽपि तथा तात्पर्य्यमेवोन्नीयते, न त्वन्वयबोधोऽ. नुमितिर्वा । बाधे व्यभिचारपक्षधर्मतयोः सन्देहे वा तयोरसम्भवात्तत्रैव तैय॑ञ्जनो परीक्षा इति व्यवहारः । व्यञ्जना तु शब्दार्थविशेषतया बोधकशब्दो व्यञ्जक इत्युच्यते । एवं त्रिविधस्याप्यर्थस्यान्यार्थबुद्धिजनकत्वं व्यञ्जनयेति । अर्थोऽपि व्यञ्जक इत्युच्यते । शक्त्या शब्देन लक्षणया वार्थविषयकशाब्दबोधे जाते व्यञ्जनमर्थान्तरस्फूर्ती तद्विषयकोऽपि बोधः। शाब्दबोध एव शब्दादमुमर्थ प्रत्येमीति । लोकानां स्वारसिकव्य
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy