SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ २९६ दर्पणपरीक्षासहिते भूषणसारे नन्वेवं भाषादितो बोधदर्शनाद् बोधकतोरूपा शक्तिस्तत्रापि स्यात् । तथाच साधुताऽपि स्यात् । शक्तत्वस्यैव साधुताया व्याकरणाधिकरणे प्रतिपादनादित्याशङ्कां द्विधा समाधत्ते असाधुरनुमानेन वाचकः कैश्चिदिष्यते। वाचकत्वाविशेषे वा नियमः पुण्यपापयोः ॥३८॥ असाधुः गाव्यादिरनुमानेन साधुशब्दमनुमाय, वाचको बोधककैश्चिदिष्यते । तथाच लिपिवत्तेषां साधुस्मरण एवोपयोगो, न तु साक्षोत्तद्वाचकत्वमतो, न साधुत्वमिति भावः। उक्तं हि वाक्यपदीयेते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः । दर्पणः ल्लासाऽभ्युपगमादित्यन्यत्र विस्तरः। यदि पुनराऽनुभाविको लोकानां स्वरसवाही शब्दादमुमर्थ प्रत्येमीति प्रत्ययस्तदा व्यञ्जनावृत्तिरप्रत्यूहैवेति ॥ ३७॥ __स्वोक्तनिष्कृष्टमतमेवावलम्ब्य मूलमवतारयति--*नन्विति । एवम्बोधकत्वस्यैव शक्तित्वे । *तत्रापि*--अपभ्रंशात्मकभाषायामपि। *स्यादिति। तस्या अपि बोधकत्वादीश्वरेच्छादीनां शक्तित्ववादिनां तु नाऽयमतिप्रसङ्ग इति भावः। इष्टापत्तावाह-*तथाचेति । "नाऽपभ्रंशितवै” इत्यादिनिषेधविधिविषयत्वानापत्येष्टापत्तेः कर्तुमशक्यत्वादिति भावः । द्विधेति । अपभ्रंशानामुक्तशक्तिमत्त्वाऽभावव्यवस्थापनेन साधुत्वस्याऽन्यथा निर्वचनेन चेत्यर्थः। मूले, *अनुमानेन वाचक इति । अनुमानमत्र स्मृतिः। अनु. पश्चान्मानमितिरिति व्युत्पत्तेर्न तु व्याप्तिज्ञानम् । तच्छ्न्यानामपि शाब्दबोधदर्शनात्। गव्याधऽपभ्रंशानां गवादिशब्दविकृतित्वेनोबोधकविधया झटिति प्रकृतिस्मारकत्वादित्याशयेन व्याचष्टे-*अनुमानेन साधुशब्दमिति । *अनुमायेति । स्मृत्वेत्यर्थः । वक्ष्यति च-'तेषां साधुस्मरण एवोपयोग' इति । अपभ्रंशानां साक्षाबोधकता तु न, शब्दजनकसाधुत्वस्याभावादसाधुत्वज्ञानस्य प्रतिबन्धकत्वाद्वेति भावः । तत्र हरिसम्मतिमाह-*उक्तं हीति* । *ते*-अपभ्रंशाः। साधुष्विति विषयसप्तमी साधुविषयकस्मरणेनेत्यर्थः । *प्रत्ययेति । गवाद्यर्थबोधकारणानीत्यर्थः । पक्षान्तर परीक्षा वहारात् । सच क्वचिद्वितीयः। क्वचिदादावेव, तद्विषयकोपस्थितावेक एव शाब्दबोधः, अनुभूयते सुखमित्यादौ यथैतेषामुदाहरणानि काव्यप्रकाशादौ स्फुटानि ॥३७॥ नन्वेवमिति । अर्थबोधजनकत्वस्यैव शक्तित्वे तत्रापि भाषाशब्देऽपि अनु. मानेन, अनुपश्चान्मानमिति व्युत्पत्या अनुमानपदमत्र स्मृतिपरम् । *अनुमाय*स्मारयित्वा। *बोधक इति*--एवं चार्थबोधकत्वमेव चेच्छक्यत्वम् , तदा तेष्वति. प्रसङ्ग इति भावः । *असाधुरनुमानेनेत्यस्य*-यद्यपीत्यादिः, नतु साक्षाद्वाचकस्वम् । *साधुष्विति । *ते*-असाधवः । साधुष्विति सप्तम्यर्थो विषयत्वम् ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy