SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ शक्तिनिर्णयः । .. तादात्म्यमुपगम्यैव शब्दार्थस्य प्रकाशकाः। न शिष्टैरनुगम्यन्ते पाया इव साधवः। ते यतः स्मृतिमात्रेण तस्मात् साक्षादवाचकाः॥ अम्बाऽम्बेति यदा बालः शिक्ष्यमाणः प्रभाषते । अव्यक्तं तद्विदां तेन व्यक्ते भवति निर्णयः॥ एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते । तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते ॥ इति । नन्वपदंशानां साक्षावाचकत्वे किं मानम् । शक्तिकल्पकव्य. वहाऽरादेस्तुल्यत्वादिति चेत् ? सत्यम् । तत्तद्देशभेदभिन्नेषु __दर्पणः माह-*तादात्म्यमिति । साधुगवादिशब्दतादात्म्यप्रकारकज्ञानविषयतामापाद्य वेत्यर्थः । एक्कारो वाऽर्थे । गोपदे उच्चारणीये करणापाटवेन गावित्युच्चारितम् , वस्तुतो गोपदमेवेदमिति तादात्म्येन ।भासमाना गव्यादिशब्दा गवादिरूपार्थस्य प्रकाशका इत्यर्थः । न च वक्ष्यमाणकल्पाऽभेदः । तत्राऽपभ्रंशगतानुपूर्त्या एव शक्यताऽवच्छेदकत्वादत्र तु साधुगतायास्तस्यास्तत्त्वमिति भेदादिति भावः।। यत्तु शब्दार्थयोस्तादात्म्य शक्तिरिति स्वोक्ताऽर्थे तादात्म्यमित्यादिहरिकारिकार्द्धस्योपष्टम्भकतयोपन्यसन तन्मुधैव । तादात्म्यस्य शक्तित्वेऽपि शब्दनिष्ठतादात्म्यज्ञानस्यार्थाबोधकत्वेन तस्य शक्तित्वाऽसम्भवात् । उपक्रमोपसंहारपालोचनया साधुशब्दतादात्म्यभ्रान्त्याऽपभ्रंशानामर्थबोधजनकत्वमिति पक्षान्तरपरतयव तव्याख्यानस्यौचित्यादिति। ___ अवाचकत्वे युक्तिमाह-*न शिष्टैरिति । यतस्तेऽपभ्रंशाः साधवः पर्याया इव शिष्टः स्मत्यादिना न प्रतिपाद्यन्तेऽतो न वाचका इत्यर्थः। ते साधुष्वित्याद्यक्तमर्थ विशदयति--*अम्बाम्बेत्यादि । अव्यक्तमिति भाषणक्रियाविशेषणम् । तद्विदाम्अव्यक्तशब्दश्रोतृणाम् , अव्यक्ते साधुशब्दे । अस्य, स्मृते सतीति शेषः । निश्चयः* तदर्थशाब्दबोधो भवतीत्यर्थः॥ एवमिति । इत्यमेवेत्यर्थः । *साधौर-गवादिशब्दे । *अपभ्रंशः* गाव्यादिः । *तेन*-असाधुशब्देन । *साधुव्यवहित:*-साधुस्मृतिद्वारकः। *कश्चित्-प्रसिद्धोऽम्बादिरूपः । अभिधीयते-बोध्यते इत्यर्थः । . - परीक्षा तस्यानुमानपदार्थस्मरणेऽन्वयः । साधुविषयकस्मरणेनेति समुदितार्थः, अर्थान्तरमाह-*तादात्म्येति । साधुतादात्म्यप्रकारकज्ञानविशेष्यतां प्राप्यवेत्यर्थः, वायें-इवशब्दस्तेषामवाचकत्वे युक्तिमाह-*नशिष्टैरिति । *यत इति । तेइति शेषः, तेऽसाधवः साधवः पर्याया इव शिष्टैन प्रतिमास्मृत्यादिना न प्रतिपाद्यन्ते। अतोऽवाचका इत्यर्थः । पूर्वोक्तमर्थ विशदयति-*अम्बाम्बेति* । *अव्यक्तमिति* क्रियाविशेषणम्, तेनाव्यक्तेन, अव्यक्त साधुशब्दे, स्मृते सतीति शेषः । *एवमिति* इत्थमेवेत्यर्थः । *साधुव्यवहितः* 1 साधुस्मृतिद्वारकः। प्रतिपादितार्थमेव द्रढयितुमाशङ्कते-नन्विति । *शक्तिकल्पकेति । यथा शब्दे ३८ द० प०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy