SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २९८ दर्पणपरीक्षासहित भूषणसारेतेषु तेषु शक्तिकल्पने गौरवात् । न च पर्यायतुल्यता शङ्कया। तेषां सर्वदेशेष्वेकत्वाद् विनिगमनाविरहेण सर्वत्र शक्तिकल्पना । न हि अपभ्रंशे तथा । अन्यथा भाषाणां पर्यायतया गणनापत्तेः। एवञ्च शक्तत्वमेवास्तु ; साधुत्वमिति नैयायिकमीमांसकादीनां मतम् , तन्मतेनैव द्रष्टव्यम् । इदानीं स्वमतमाह-वाचकत्वाविशेषे चेति* ॥ अयम्भावःअपभ्रंशानामशक्तत्वे ततो बोध एव न स्यात् । न च साधुस्मरणात् ततो बोधः। तानविदुषां पामराणामपि बोधात् । तेषां साधोर दर्पणः उक्तमेवार्थ दृढयितुमाशते-*नन्विति । तेषाम् = साधुपर्यायाणाम् । *एकत्वादिति ॥ एकजातीयत्वादित्यर्थः ॥ तथा एकजातीयत्वं येन तत्रापि विनिगमकाभावाच्छक्तिकल्पना स्यादिति भावः। *अन्यथेति । एकजातीयत्वस्य शक्तिकल्पनायामतन्त्रत्वे शक्तिमत्त्वाऽविशेषात्साधूनामिवाऽपभ्रंशानामपि कोशादौ प्रतिपादन प्रसज्ज्येतेत्यर्थः । *तन्मतेनैवेति । 'ते साधुष्वनुमानेन इत्यायुक्तहरिमतेनैवेत्यर्थः । अपभ्रंशाद-बोधस्योक्तरीत्योपपादित. त्वात्। तत्र शक्तिकल्पनं स्वाग्रहमूलकमित्याशङ्कां निराचिकीर्षुस्तत्रोक्तप्रकाराऽसम्भवं दर्शयति-अयम्भाव इति । *तानिति । साधुशब्दानित्यर्थः । अज्ञानहेतु. माह-*पामराणामिति । *बोधादिति । व्यवहारेण तेषां बोधाऽनुमानादित्यर्थः । __तथाचानधीतशास्त्राणां तेषां साधुत्वप्रकारकशब्दज्ञानाऽसम्भवेन न तत्र साधुशब्दस्मृतिकल्पनया शाब्दबुद्धिरुपपादयितुं शक्येति भावः । किञ्च साधुशब्दस्मृतिकल्पना कथञ्चिसम्भवेदपि यदि प्रत्यक्षश्रुतसाधुशब्दबोधोदयः स्यात् , स एव नास्तीत्याह परीक्षा शक्तिकल्पको व्यवहारस्तथा गाव्यादिशब्देप्यस्तीति तेषामपि वाचकत्वमस्त्विति भावः । *अन्यथेति* = अपभ्रंशेष्विति शेषः । तेषां पायाणामेकत्वात्-एकजातीयत्वात् । तथैकजातीयत्वम् । अन्यथैकजातीयत्वस्य पायतायामनिया. मकत्वेऽपर्यायाणां यथा शक्तिमत्वे तथा अपभ्रंशानामपि शक्तिमत्वे पर्यायतुल्यतया तेषामपि कोशादौ प्रयोगानापत्तिरिति भावः । *तन्मतेनैवेति । ते साधुध्वनुमानेन इत्यादिना यद्धरिमतमुक्तं तेनैवेत्यर्थः । ननु पूर्वोक्तरीत्या अपभ्रंशेभ्योऽर्थप्रतीतिनिर्वाह तेषु शक्तिकल्पनं स्वाग्रहमूलकमिति कस्यचिच्छा स्यादिति तदनुत्पत्तये आह--*अयम्भाव इति । ततस्तेभ्यस्तान्,= साधुशब्दान् , बोधादिति, गाव्यादिशब्दश्रवणोत्तरकालिकयामकत्तुकगवानयनादिदर्शनेन तेष्वबोधानुमानादित्यर्थः । यदि साधुत्वाश्रयशब्दज्ञानं तेषां स्यात्तदाऽसाधुभ्यः साधुस्मरणमनधीतशास्त्राणां तेषामपि स्यात्तदेव नास्तीति भावः। अश्रुतवैपरीत्यमस्तीत्याह-*तेषामिति । पामराणामित्यर्थः । अपभ्रंशेभ्य एव तेषां बोधो भवतोति न साधुस्मरणकल्पकमस्तीति भावः । अपभ्रंशेषु शब्देष्वर्थनिरूपितशक्ति_मात्ते
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy