________________
.... शक्तिनिर्णयः।
२९९ बोधाच्च । न च शक्तिभ्रमात् तेभ्यो बोधः। बोधकत्वस्याऽबाधेन तद्ग्रहस्याभ्रमत्वात् । ईश्वरेच्छा शक्तिरिति मतेऽपि सन्मात्रविषयिण्यास्तस्या बाधाभावात् । शक्तेः पदपदार्थविशेषघटिताया भ्रमासम्भवाच्चेति ।
दर्पणः *तेषां साधोरिति । *शक्तिभ्रमादिति । अर्थनिरूपितायाः साधुशब्दनिष्ठायाः शक्तरपभ्रंशे भ्रमादित्यर्थः।
किं बोधकत्वरूपशक्तिभ्रमात् तत्र बोध उपपाद्यते ? उतेवरेच्छारूपशक्तिभ्रमात् ? तत्र नायः कल्प इत्याह-*बोधकत्वस्येति । द्वितीयेत्वाह-ईश्वरेच्छेति । *सन्मात्रेति । मात्रपदं कृत्स्नाऽर्थकम् । अपभ्रंशादू बोधस्य सर्वानुभवसिद्धत्वेन बोधकत्वेनेश्वरेच्छाया अपि तत्राबाधेन तामादायाऽपि न शक्तिज्ञानस्य भ्रमत्वसम्पत्तिः । प्रतीतेर्धमत्वे विषयबाधस्यैव तन्त्रत्वादिति भावः।।
ननु लाक्षणिक इवाऽपभ्रंशेऽपि वाचकत्वव्यवहाराभावेन तव्यावृत्येश्वरेच्छारूपशक्तस्तत्र भ्रमे बाधकाभावोऽत आह-*शक्तरिति* । *भ्रमासम्भवाचेति । तत्पदविशेब्यकतदर्थबोधजनकत्वप्रकारकेच्छायास्तत्पदविशेष्यकत्वेन गृहीतायाः पदान्तरविशेब्यकत्वासम्भवेन तद्भमाऽसम्भवादित्यर्थः । यथाश्रुताऽभिप्रायेणेदम् । परिष्कृतविशेष्यत्वरूपायास्तत्सम्बन्धावच्छिन्नावच्छेदकत्वरूपायाः पदार्थान्तररूपाया वा शक्तेस्तत्र भ्रमे बाधकाऽभावादिति बोध्यम् । तथाच भ्रमेणापि बोधस्य दुरुपादत्वेन भाषायां शक्तिरावश्यिकेति भावः।
परीक्षा भ्योऽपभ्रंशेभ्यो बोध इति नैयायिकानुयायिनः शङ्कां निरस्यति-*न च शक्तीति । *अभ्रमत्वादिति । तद्भाववति तत्प्रकारकं ज्ञानं हि भ्रमस्तदभावश्चापभ्रंशेषु नास्ती. ति भावः । *सन्मात्रेति । अत्र मात्रपद कात्र्नार्थकम् । अपभ्रंशेभ्योऽर्थबोधस्य सर्वानुभवसिद्धतया तेष्वप्यर्थबोधकत्वेनेच्छाविषयतायाः सम्भव इति भावः । ननु यथा लाक्षणिकेषु वाचकत्वव्यवहाराभावेन तव्यावृत्तः सम्बन्ध ईश्वरेच्छायाः कल्पने तथाऽपभ्रंशेष्वपि तस्य व्यवहारः सार्वजनीनो नास्तीति तदा वृत्तित्वसम्बन्धेन शक्त्यभावस्तेष्वस्त्येवेति भ्रमत्वसम्भव इत्यत आह-*अशक्तैरिति । तदर्थविषयकबोधजनकत्वप्रकारकेच्छायास्तत सदविशेष्यकत्वेन ग्रहे वान्यस्मिन्पदे भ्रमो वाच्यः । अन्यथा विशेषणज्ञानाभावेन तत्प्रकारको भ्रमो न स्याद्विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणत्वादतस्तस्या इच्छायास्तदर्थे तत्तत्पदविषयको ग्रहः पूर्व वाच्यः । एवं च तेनैव विशेषदर्शनेन प्रतिबन्धादानासम्भवः । अयम्भावः-यथा नैयायिकमते-प्रवाहो गङ्गापदशक्य इति ज्ञानं प्रमा, तीरं गङ्गापदशक्यमिति ज्ञानन्तु भ्रम इति भवतीति ईश्वरेच्छाया गङ्गापदेन प्रवाहबोधो जायतामित्याकारिकाया प्रवाहे गङ्गापदजन्यत्वनिष्ठप्रका. रतानिरूपितबोधनिष्ठप्रकारतानिरूपितविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्व. रूपः सम्बन्धोऽस्तीति प्रवाहः शक्य इति ज्ञानस्य तादृशेच्छा गङ्गापदजन्यत्वनिष्ठप्रकारतानिरूपितबोधत्वावच्छिन्ने ताशेच्छाया निरूपितत्वविशिष्टविशेष्यत्वावच्छेदक