________________
३००
दर्पणपरीक्षासहिते भूषणसारे
उक्तश्च वाक्यप्रदीये
पारम्पर्यादपभ्रंशा विगुणेष्वभिधातृषु । प्रसिद्धिमागता येषु तेषां साधुरवाचकः ॥ दैवी वागू व्यवकीर्णेयमशक्तैरभिधातृभिः ।
अनित्यदर्शिनां त्वस्मिन् वादे बुद्धिविपर्ययः ॥ इति ॥ अवाचकः =अबोधकः । बुद्धिविपर्ययः एते एव वाचका नान्ये
दर्पणः अस्मिन्नपि पक्षे हरिसम्मतिमादर्शयति-*उक्तञ्चेति । *पारम्पर्य्यादिति । स्वार्थे व्यञ् । विगुणेष्विति हेतुगर्भ विशेषणम् । वैगुण्यं च करणापाटवरूपम् । अभिधातृवैगुण्यस्याऽपभ्रंशनियामकत्वात् । तथाच विगुणेष्वभिधातृषु सत्सु परम्परया येष्वर्थेषु प्रसिद्धिमागता इत्यर्थः । *दैवीति । संस्कृतरूपेत्यर्थः । *अशक्तैः*-करणाऽपाटववद्भिः । *व्यवकीर्णा* । उच्छिन्नाऽनुपूर्वीका कृतेत्यर्थः । *अनित्यदर्शिनाम् । शब्दानित्यत्ववादिनाम् । अस्मिन् वादे । शक्तिविचारे इत्यर्थः ।।
ननु 'तेषां साधुरवाचक' इत्यनुपपन्नम् । यस्मिन्नर्थेऽपभ्रंशाः प्रयुज्यन्ते, तद्वाचकत्वस्य साधुषु सर्वसम्मतत्वादतो व्याचष्टे-*अबोधक इति । व्यवहितः साधुन तत्र बोधकः; किन्तु साक्षादपभ्रंशा एव तत्तदानुपूर्वीमत्त्वेन वाचका इति भावः । __नन्वियं अभ्रंशरूपा वाग् अभिधातृवैगुण्येनोच्छिन्नाऽनुपूर्विकाऽपि दैवी संस्कृतरूपैव । नैयायिकानां त्वस्या अबोधकत्वे भ्रम एव । पारम्पर्य्यादित्युपपादनात् साधुतादात्म्यभ्रान्तिमूलकशक्तिभ्रमेण बोधकत्वसम्भवादित्यर्थकं दैवी वाग्व्यवकीर्णेयमित्यपि पूर्वोक्तान्तिमकल्पस्यैवोपोद्बलकम् । नचैवं तेषां साधुरवाचकः' इत्यनुपपन्नम् । तत्कल्पे आरोपितसाधुत्वकाद्यपभ्रंशानां बोधकत्वेन साधुस्मरणादू बोधाऽनभ्युपगमात् । तेषामित्यादेः साधुतादात्म्यारोपविषयास्त एव प्रसिद्धार्थानां बोधकाः, न तु तत्तदानुपूर्वीमत्त्वेन बोधका इत्यर्थात्तस्मानोक्तयुक्त्यापभ्रंशानां तत्त्वेन वाचकतासिद्धिरत आह
परीक्षा त्वावच्छिन्नावच्छेदकतानिरूपिताधेयत्वसम्बन्धावच्छिन्नावच्छेदकत्वसम्बन्धावच्छिन्न. प्रकारतानिरूपकत्वम्-प्रमात्वम् ? तीरं गङ्गापदशक्यमिति ज्ञानस्य प्रमात्वम् । ताहशज्ञानाय तीरनिष्ठावच्छेदकतायां तादृशबोधविशेष्यत्ववृत्यवच्छेदकतात्वावच्छिन्नावच्छेदकतानिरूप्यत्वास्वीकारात् । किन्तु शुद्धावच्छेदकतात्वेनैवेति कल्पनादिति । पदनिष्ठन्तत्तदर्थबोधजनकत्वं शक्तत्वमिति वादिनामस्माकं मते तु तीरं गङ्गापदशक्यमिति ज्ञानस्य पूर्वोक्तरीत्या प्रमात्ववद् भाषाशब्दविशेष्यकमपि ज्ञानम्प्रमैवेति । _ स्वोक्तार्थे हरिसम्मतिमाह-*उक्तञ्चेति । पारम्पर्यमित्यत्र स्वार्थेष्यञ् । *विगुणेविति । हेतुगर्भविशेषणम् , वैगुण्यङ्करणापाटवरूपम् , अभिधातृवैगुण्यस्यापभ्रंशनियामकत्वात् । *प्रसिद्धिमिति । अस्याथेष्वित्यादिः । येन कारणेनापभ्रंशाः शब्दाः विगुणेष्वभिधातृषु सत्सु पारम्पर्येष्वर्थेषु प्रसिद्धिमागतास्तेन तेषामर्थानां साधुरवाचक, =अबोधकः । *दैवीवाक् । संस्कृतरूपा । *अशक्तैः*-करणापाटवयुक्तैः, *व्यवकीर्णा*-उच्छिन्नानुपूर्विका कृता अनित्या दर्शिता, तत्= नैयायिकानाम् = शब्दा