________________
शक्तिनिर्णयः ।
३०१
इति विपर्य्यय इत्यर्थः । किञ्च विनिगमनाविरहाद् भाषायामपि शक्तिः । न च तासां नानात्वं दोषः । संस्कृतवन्महाराष्ट्रभाषायाः सर्व्वत्रैकत्वेन प्रत्येकं विनिगमनाविरहतादवस्थ्यात् ।
किञ्चानुपूर्वी पदेऽवच्छेदिका । सा च पर्यायेष्विव भाषायामप्यन्यायैवेति कस्तयोर्विशेष इति विभाव्यं सूरिभिः । तथाच संस्कृतवद् भाषायाः सर्व्वत्रैकत्वेन प्रत्येकं शब्दा शक्ता एव । न च पर्य्यायतया भाषाणां गणनापत्तिः । साधूनामेव कोशादौ विभागाभिधानात् ।
नन्वेवं साधुता तेषां स्यादित्यत आह-नियम इति ॥ पुण्यजननबोधनाय साधूनां, “साधुभिर्भाषितव्यम्” इति विधिः । पापज
दर्पणः
*किञ्चेति* | *तासाम् — भाषाणाम् । दोष इति । तथा च गौरवान्न तत्र शक्तिरित्यर्थः । सकलदेश शिष्टपरिगृहीतत्वमेव विनिगमकमत आह—*अवच्छेदकेति । बोधजनकतावच्छेदिकेत्यर्थः । *तयोरिति । साध्वपभ्रंशयोरित्यर्थः ।
सकलशिष्टपरिगृहीतत्वं तु न विनिगमकम् । “शवतिर्गतिकर्मा कम्बोजेषु प्रयुज्यते, विकार एवैनमाभाषन्ते" इति भाष्यात्तत्तद्देशनियतसंस्कृतेषु शक्तिसिद्ध्यनापत्तेः । वाचकस्य व्यञ्जकतायामालङ्कारिकाणां प्राकृतभाषोदाहरणस्यासङ्गतत्वापत्तेश्च । अत एव तत्तदेशीयशिष्टानां तत्तद्भाषासु निस्सन्दिग्धशक्तत्वप्रत्ययः सङ्गच्छते । न चाऽसौ भ्रमः बाधकाभावादिति भावः । उपसंहरति—*तथाचेति* | *एवम् — अपभ्रंशानामपि शक्तत्वे । * तेषाम् * — अपभ्रंशानाम् । *साधुता स्यादिति । शक्तत्वस्यैव साधुत्वादिति भावः । *साधुभिर्भाषितव्यमिति । साधूनेव प्रयुञ्जीतेत्यादिरूपरचे
परीक्षा
नित्यत्ववादिनाम् । अस्मिन् वादे = शक्तिविचारे, एते = साधवः, नान्ये- अपभ्रंज्ञाः, येषां मतेऽपभ्रंशानां वाचकता तेषाम्मते साधूनामपि वाचकताऽस्तीत्यत उक्तम्*अबोधक इति । तथा च साक्षात्तेषां साधु र्न बाधकः किन्त्वसाधुस्मरणाद्वाध्यसाधु तादात्म्यारोपाद्वा असाधुर्बोधक इति बोध्यम् । नचैवमसाधुभ्यः साधुतादात्यारोपाच्चेद्बोधस्तदा वाचकता साधुष्वेव - पर्यवसन्नेत्यसाधुत्वं वाचकता न सिध्यतीत्यत आह-*किञ्च विनिगमनेति । तेषाम् = असाधूनां प्रत्येकं महाराष्ट्रभाषाघटकस्यैकस्य शब्दस्य वा साधोर्वा वाचकतेत्येवं विनिगमनाविरहप्रदर्शनम् प्रत्येकमित्युक्तम् ।
ननु वाचकतावच्छेदिकाऽऽनुपूर्वी साधुशब्दसम्बन्धिन्येका भाषाणां तु नानेति विनिगमक सत्वान्न भाषाशब्दानां वाचकत्वमत आह-* किञ्चानुपूर्वीति । *अवच्छेदिका* | बोधजनकतावच्छेदिका । नच साधूनां साधुत्वविशिष्टपरिगृहीतत्वेन तेषामेव वाचकत्वे विनिगमकमस्तीति वाच्यम् । " शवतिर्गतिकर्मा कम्बोजेषु विकार एवैनमार्या • भाषन्त" इति भाष्यात्संस्कृतानामप्येकस्मिन् धर्मे सकलशिष्टसम्मतत्वाभावात् । असाधूनामपि बोधजनकतया प्राकृतभाषोदाहरणानि काव्यप्रकाशादौ स्फुटम् -