________________
३०२
दर्पणपरीक्षासहिते भूषणसारे -
ननबोधनाय " नासाधुभिः" इति निषेधः । तथा च पुण्यजननयोग्यत्व साधुत्वम् । तत्र पापजननयोग्यत्वमसाधुत्वम् । तत्र जनकताऽवच्छेदिका च जातिः । तजुज्ञापकञ्च कोशादि व्याकरणादि च ।
एवमेव च राजसूयादेर्ब्राह्मणे फलाऽजनकत्ववद् गवादिशब्दानां नावाद साधुत्वमिति सङ्गच्छते । आधुनिकदेवदत्तादिनाम्नामपि,
दर्पणः
त्यर्थः । *नाऽसाधुभिरिति । " नापभ्रंशितवै न म्लेच्छितवै" इत्यादिनिषेधविधिरित्यर्थः । योग्यत्वं जनकतावच्छेदकधर्मवत्त्वम् । तत्र - साधुशब्दे । *जातिरिति ।
तत्र प्रमाणं तु “एकः शब्दः सम्यग् ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुग् भवति" इति "एकः पूर्वपरयोः" (पा०सू० ६।१।६४ ) इत्यत्र भाष्यपठितश्रुतिः । सम्यग् ज्ञातः साधुत्वेन ज्ञातः । यदिह परिनिष्ठितं तत् साध्वित्यर्थापत्तिलभ्यवाक्येन । अतः शास्त्रान्वितः शास्त्र व्युत्पादनमार्गेणाऽभिसंहितः । सुप्रयुक्तः शिक्षाद्युक्तमार्गेण प्रयुक्त इति तदर्थः । "ते ऽलय इति कुर्वन्तः पराबभूवुः” इति श्रुतिश्च । यदि च कत्वादिना साङ्कर्य्यान्न तस्य जातित्वमिति विभाव्यते तदाऽस्तूपाधिरिति भावः ।
“*तज्ज्ञापकमिति । तदभिव्यञ्जकमित्यर्थः । यथैतत्तथोक्तम् । व्याकरणादिपदाच्छिष्टप्रयुक्तत्वपरिग्रहः । * एवमेवेति । तत्तदर्थपुरस्कारेण तत्तच्छब्दानां साधुत्वपर्य्यवसानलाभेनैवेत्यर्थः । *फलाजनकत्ववदिति । क्षत्रियाऽधिकारिकृतस्यैव तस्य फलश्रवणादिति भावः । *साधुत्वमिति । गवाद्यर्थपुरस्कारेणैव गवादिशब्दानां प्रयोगे पुण्यजनकत्वरूपं साधुत्वमित्यर्थः । ननु आधुनिकदेवदत्ताद्यर्थ पुरस्कारेण देवदत्तादिशब्दानां शास्त्रे व्युत्पादनात्तेषां देवदत्तादौ साधुता न स्यादत आह
परीक्षा
1
निर्वाचकत्वमेव । साधुत्वमित्याशयेन शङ्कते -*नन्वेमिति । निषेध इति । अत एव भाष्ये - "तेऽसुरा हेलयो हेलय इति कुर्वन्तः पराबभूवुस्तस्माद्ब्राह्मणेन न म्लेच्छित वै नापभाषित वे” इत्युक्तम् । साधुत्वमिति । अत एव यज्ञादौ कर्मणि शिष्टैर्धर्मबुद्धया असाधूनां प्रयोगो नोक्तमते । नचासाधूनामपि चेद्वाचकता तदा शाब्दबोधासम्भवरूबीजाभावे च्युतसंस्कृतित्वस्य दूषकता न स्यादिति वाच्यम् । विप्रसभायां चाण्डालदर्शनेनैव पण्डितानां साधुपदसमुदायमध्येऽसाधुदर्शनेन हृदयोद्वेगो भवतीति तस्य दूषकता स्वीकारात् । साधूनां पुण्यजनकत्वे “एकः पूर्वपरयोः” इति सूत्रस्थम् “एक:शब्दः सम्यक् ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके च कामधुग्भवति" इति भाष्यमपि प्रमाणम् । सम्यक्ज्ञातः - साधुत्वेन शास्त्रव्युत्पादनमार्गेणानुभूतः । सुप्रयुक्तःशिक्षोक्तरीत्याप्रयुक्तः । असाधूनां वाचकत्वे “सामानायामर्थावगतौ शब्दैश्वापशब्दैश्व शास्त्रेण धर्मनियमः" इति भाष्यमपि प्रमाणम् । तत्रेति । पुण्य इत्यर्थः । *तज्ज्ञापकम्* । साधुत्वात्मकजातिज्ञापकतावच्छेदकम् । * व्याकरणादीति । अत्रादिना भाव्याद्याकर परिग्रहः । एतेनार्थं पुरस्कारेण साधुत्वमित्युक्तं भवति ।
* एवमेव । तत्तदर्थपुरस्कारेण ततच्छब्दानां साधुत्वपर्यवसानादेव । *फलाजनकत्ववदिति । क्षत्रियेणाधिकारेणाकृतस्यैव तस्य फलजनकत्वमन्यत्र स्पष्टम् । *सङ्ग