________________
शक्तिनिर्णयः।
३०३
"द्वयक्षरम्” इत्यादिभाष्येण व्युत्पादितत्वात् साधुत्वम् । एवञ्च यः शब्दो यत्रार्थे व्याकरणे व्युत्पादितःस तत्र साधुरिति पर्यवसितम् ।
गौणानां गुणे व्युत्पादनात् तत्पुरस्कारेण प्रवृत्तौ साधुत्वमेव, माधुनिकलाक्षणिकानां त्वसाधुत्वमिष्टमेव । अत एव 'ब्राह्मणाय देहि इत्यर्थे 'ब्राह्मणं देहि इत्यादिकं लक्षणयापि न साधुरित्यादि विस्तरेण प्रपञ्चितं भूषणे ॥ ३८॥
__दर्पणः *आधुनिकेति*। *द्वयक्षरमिति । “घोषवदाद्यन्तरन्तःस्थं द्वयक्षरं चतुरक्षरं वा पुरुषस्य नाम कृतं कुर्य्यान्न तद्धितम्" इति भाष्यस्थस्मृत्येत्यर्थः। तत्तदेशभाषाऽनुसारेण "क्रियमाणानां नाम्नां तु शास्त्राव्युत्पन्नत्वादसाधुत्वमेवेति भावः। *गौणानामिति । शुक्लादिशब्दानामित्यर्थः । *गुणे*-स्वशक्ये शुक्लादिरूपे ॥ __ *व्युत्पादनादिति ॥ "गुणवचनेभ्यो मतुपो लुक् इति स्मृत्या "गुणे शुक्लादयः,पुंसिइत्यादिकोशेन चेत्यस्यादिः । तत्पुरस्कारेण । नीलाऽऽद्यर्थपुरस्कारेणेत्यर्थः॥ प्रवृ तौ*-गुणिनि प्रयोगे । शक्याऽर्थस्य बाधे अन्वयानुपपत्तिप्रतिसन्धानात्तैर्लक्ष्यार्थोपस्थापनेऽपि शक्यार्थमादाय तेषां साधुत्वं नानुपपन्नम् । शक्याऽर्थपुरस्कारेण तेषां शास्त्रव्युत्त्पन्नत्वादित्यर्थः । गौणपदस्य निरूढलाक्षणिकपदोपलक्षणत्वाच्च न गङ्गायां घोष इत्यादौ गङ्गादिपदानामसाधुत्वमितिभावः ॥ *आधुनिकानामिति ॥ ऐच्छिकयत्किञ्चित्सम्बन्धेन शास्त्रकृतां तात्पर्याऽविशेषेण प्रयुक्तानामित्यर्थः ॥ ३८ ॥
परीक्षा च्छत इति। नचैवं गङ्गायां घोष इत्यादि लाक्षणिकानाम्मसाधुतापत्तिरिति वाच्यम् । तेषां शक्यार्थमादायैव साधुत्वस्य स्वीकारात् । एकार्थस्य स्मृत्या तत्र साधुत्वे ज्ञात एवान्यस्मिन्प्रयुज्यते। नन्वाधुनिकानां देवदत्तादीनाम्नां शरीरविशेषा. न्विते शास्त्रेणाव्युत्पादनात्तेषामसाधुत्वापत्तिरत आह-*आधुनिकेति*। *भा. ष्येण*। घोषवदाद्यन्तरस्थं द्वयक्षरं चतुरक्षरं वा नामकं कुर्यान्न तद्धितमिति भाष्येण । एवं च देशभाषानुसारेण क्रियमाणानां नाम्नामसाधुत्वमेव । गौणानां शुक्लादिशब्दानां गुणे स्व एकः शुक्लरूपे । *आधुनिकेति* । स्वेच्छया येन केनापि सम्बन्धेन शास्त्रक्लप्सतया विषयेऽथें प्रयुक्तानामित्यर्थः। *अत एव*-अर्थविशेषपुरस्कारेण साधुत्वादेव । *भूषण इति । इदमुपलक्षणं काव्यप्रकाशादेः । अत एव व्यञ्जनाव्युत्पादनावसरेऽनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगाथैरवा. च्यार्थधीकृदयापृतिरञ्जनम्" इति यदुक्तं तदपि सप्रमाणमेव । संयोगाथैः
संयोगो विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य सन्निधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ निर्णयहेतवो भवन्तीति शेषः । संयोगः प्रसिद्धार्थस्य गुणरूपः सम्बन्धः । यथासशङ्खचक्रो हरिः, सवत्सा धेनुरानीयतामित्यादौ । प्रसिद्धस्य शङ्खस्य संयोगेन हरिशब्दस्य विष्णौ वत्ससंयोगेन धेनुशब्दस्य नवप्रसूतिकासामान्यपरस्यापि गवि शक्ति