________________
१६४
दर्पणपरीक्षासहिते भूषणसारे -
'घटं करोति' इत्याद्यम् । काष्ठं भस्म करोतीति, सुवर्णं कुण्डलं करोतीति च द्वितीयम् । घटं पश्यतीति तृतीयम् । तृणं स्पृशतीत्युदासीनम् । विषं भुङ्क्ते इति द्वेष्यम् । गां दोग्धीति संज्ञान्तरैरना
दर्पण:
सति फलाश्रयत्वम् । निर्वर्त्त्यादावतिव्याप्तिवारणाय सत्यन्तम् । तत्रापि विषयतानाश्रयत्वस्य धर्मप्रकारकप्रतीतिविषयतानाश्रयत्वस्याऽसाधारणधर्मघटितस्य वा तस्य 'घट जानाति' इत्यादौ घटादावसम्भव इति प्रयोज्यान्तं धर्मविशेषणम् । तत्रैव क्रियाप्रयोज्या साधारणधर्म संयोगप्रतीतिविषये ग्रामादिकर्मण्यव्याप्तिनिरासाय - असाधारणेति । क्रियाजन्यफलानाश्रये अतिप्रसक्तिनिरासाय - विशेष्यम् ।
न च 'घटं जानाति' इत्यादौ क्रियाजन्य फलाभावात् सामान्यलक्षणस्याऽव्याप्तिः । तद्वारणाय तत्राऽऽवरणभङ्गाऽभ्युपगमे तु तस्यैव क्रियाप्रयोज्याऽसाधारणधर्मतयाऽयं घट एतेन ज्ञात एतद्व्यवहारविषयत्वादित्यनुमानजन्यप्रमाविषयत्वेन सत्यन्ताभावाद्विशेषलक्षणाऽव्याप्तिरिति वाच्यम् । कर्तृभिन्नत्वे सति कर्तृकर्मो भयसाधारणक्रियाजन्यफलाश्रयत्वे उक्तलक्षणवाक्यतात्पर्य्याद्विषयताज्ञानरूपफलाश्रयत्वाच्च न सामान्यलक्षणाऽव्याप्तिरावरणभङ्गफलमादाय जानात्यादिकर्मणि लक्षणसङ्गमनेऽपीच्छत्यादिकर्मण्यव्याप्तिवारणायोक्तरीतेरेवानुसर्तव्यत्वादिति । निर्देशक्रमेणोदाहरणान्याह - *घटमिति । *आद्यमिति । निर्वर्त्त्यमित्यर्थः । एवमग्रेऽपि ।
*संज्ञान्तरैरनाख्यातमिति । अपादानत्वादितत्तद्रूपविशेषैरविवक्षितमित्यर्थः । “अकथितञ्च” इत्यत्राऽकथितशब्दोऽविवक्षित परो, नत्वप्रधानपरः । तथा सति 'पाणिना कांस्यपात्र्यां दोग्धि' इत्यत्र करणाधिकरणयोः कर्मसंज्ञा प्रसज्ज्येतेति । दुहादीनां परिगणनात् तत्संज्ञयोः करोत्यादियोगे सावकाशत्वादिति भावः । तथाच पूर्वविधिप्रसक्तिपूर्वकं तदविवक्षायां सर्वथा पूर्वविधेरप्रसक्तौ च तत्प्रवृत्तिरिति बोध्यम् । यद्यपि विभागानुकूलव्यापारानुकूलव्यापारस्यापि दुह्यर्थत्वेन " कर्त्तुरीप्सिततमम्" इत्यनेनैव कर्मसंज्ञा सिद्ध्यति । कर्तृनिष्टव्यापाराविशेषणफलाश्रयतया गोः प्रधानकर्मतया न तत्र लाद्यनुपपत्तिः । पयोनिष्ठविभागानुकूलगोनिष्टव्यापारानुकूलव्यापारस्य शब्दतः प्राधान्याद्, अन्यथा सिद्ध प्रयोजनकमेतत्सूत्रमित्याभाति, तथापि विभागानुकूलव्यापार एव यदि धात्वर्थस्तदा अपादानत्वाद्यविवक्षायामन्यसूत्राप्राप्तकर्मत्वार्थमिदमावश्यकम् । एतस्मिन्नर्थे त्वप्रधाने दुहादीनामित्यनुशासनाद्द्ववादावेव लादयः ।
प्रधानकर्मत्वं चोक्तकर्मभिन्नत्वम् । तच्चोक्ताऽर्थे गवादीनामक्षतम् । धात्वर्थफलानाश्रयत्वात् । तथाचैतत्कल्पे अन्तः स्थितद्रवद्रव्यनिष्ठविभागानुकूलव्यापारो दुहेरर्थः । तत्र गोरपादानत्वाऽविवक्षायामनेन कर्मत्वम् । तद्विवक्षायां पञ्चमी । गोः पयस्यन्वये तु षष्ठी । एवञ्च गोकर्मकपयोनिष्ठविभागानुकूल एककर्तृको व्यापार इति
परीक्षा
निर्वर्त्यम् । द्वितीयम् - विकार्यम् । सञ्ज्ञान्तरै रनाख्यातम् * - - " अकथितं च" इति सूत्राधीनकर्मसञ्ज्ञावत् । एवं चापादानादिना विशेषरूपेण यत्र विवक्षितं तदित्युकम् | अविवक्षा च पूर्वविधेः प्रसक्तिपूर्विका सर्वथा पूर्वविधेरप्रसक्तावप्यविवक्षा च ।