________________
सुबर्थनिर्णयः।
१६३ क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते। दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ॥ इति च तत्रैवोक्तम् ।
दर्पणः एवम्-"मृदो न घटो" इत्यत्रापि प्रकृतिविकृतिभावस्थले कर्मत्वान्तरविशेषणतानापन्नधात्वर्थान्वय्यर्थबोधने द्वितीयायाः साधुत्वमितिनियमोपगमे नोक्तस्थले द्वितीयाप्रसङ्गो, नापि 'दुह्यते गोः क्षीरम्' इत्यादौ तदनुपपत्तिः । एवमेकत्वावच्छिन्ने द्वित्वा. वच्छिन्नारोपस्थलेऽप्येको द्वौ ज्ञायते इत्यादौ आरोग्यविशेष्यवाचकसमानवचनत्वमाख्यातस्य । प्रयुञ्जन्ते च कवयः-"एकोऽपि त्रय इव भाति कन्दुकोऽयम्” इति । न च तत्रापि भान्तीत्येव पाठः, कथमन्यथा
"अमानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुरारिशरः स्थितम्" । इत्यत्राऽऽरोप्यनिजायशोयुगसमानवचनममानीत्याख्यातं प्रयुक्तं श्रीहर्षेणेति वाच्यम् । तत्रापि पूर्वार्द्धसमर्थितायशोयुगस्य वास्तवत्वेन तस्मिन् फालद्वयबद्धचिकुराणामेव राज्ञ आरोप्यत्वेन कवेरुत्प्रेक्षितत्वात् । अत एव न तत्राविमृष्टविधेयांशतादोषावकाश इत्याहुः।
अत्र केचित्-"पुनरावृत्तः सुवर्णपिण्डः पुनरपरयाऽऽकृत्या युक्तः खदिराङ्गारसवर्णे कुण्डले भवतः" इति महाभाष्यप्रयोगादाख्यातस्य विकृतिसमानवचनत्वमेव ।
गृह्णाति वाचकः संख्यां प्रकृतेविकृतेनहि। ___इति तु विप्रत्ययमात्रविषयकम् । एवञ्च 'काष्ठानि भस्म राशिः क्रियन्त' इत्यादिप्रयोगाणामसाधुत्वमेवेति ॥ . .. अपरे तु-खदिराङ्गारसवणे' इति विशेषणेन तत्र कुण्डलयोः प्रकृतित्वं गम्यते । सिद्धाया विकृतेः पाकानपेक्षणात्। पुनरपरयाऽऽकृत्या युक्त इति विशेषणेन तु सुवर्णपिण्डस्य विकृतित्वम् , आकृत्यन्तरयोगस्य प्रकृतित्वाप्रयोजकत्वात्। युज्यते चैतत् । "मृत्तिकेत्येव सत्यम्" इतिवत् संहृतिमुखेन पुनरावृत्त इति विशेषणेनापि सुर्वणपि. ण्डस्य विकृतित्वं गम्यते। . तथाहि-पूर्वोपक्रान्ताऽऽकृतिपरम्परायास्तत्पर्य्यवसायित्वेन सिषाधयिषितसुवर्णनित्यत्वस्य सिद्धः । तस्मात् पूर्व निर्दिष्टाऽऽकृतिविशिष्टसुवर्णस्य कुण्डलादिप्रकृतेरप्यनिर्दिष्टाऽप्रकृतिविशिष्टस्य तस्य विकृतित्वमेव भाष्यकृत्तात्पर्यविषय इत्यस्यापि वक्तुं शक्यतया न तन्निर्देश आख्यातस्य विकृतिसमानवचनत्वे उपष्टम्भक इति । ____ अत्रेदमाभाति-वैयाकरणमते प्रकृते प्रकृतिविकृत्योर्द्वयोरपि कर्तृत्वेनाख्यातेन कर्तद्वयमेव अभिधानीयम् । एवं तद्तसंख्याऽपि तत्रैकेनाख्यातेन विरुद्धसंख्यावतोस्तयोःसंख्याया अभिधातुमशक्यतया भगवता, कुण्डले भवत इति विकृतिसंख्यैवोक्ता, न तु प्रकृतिगता नाख्यातप्रतिपाद्येति मुनित्रयस्याऽऽज्ञाऽस्ति । एवञ्च प्रयोगवशेन पर्यायेणाऽन्यतरसमानवचनत्वमाख्यातस्य निराबाधमिति ॥ . *क्रियाकृतेति ॥ क्रियाप्रयोज्याऽसाधारणधर्मप्रकारकप्रतीतिविषयताऽनाश्रयत्वे
. परीक्षा लक्षणमाह--*क्रियाकृतेत्यादिना*। *दर्शनात्*-प्रत्यक्षात्, प्रत्यक्षप्रमितिकरणादिति यावत् । *अनुमाना--अनुमितिकरणात् , तत्रैव-वाक्यपदीय एव । आद्यम्