SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १६२ दर्पणपरीक्षासहिते भूषणसारेकिश्चिद् गुणान्तरोत्पत्या सुवर्णादिविकारवत् ॥ दर्पणः वस्तुतस्तु विकृतिकर्माऽसमभिव्याहृते, 'तण्डुलं पचति इतिवत् संयोगं पचतीति प्रयोगवारणाय नाशद्वारा नाशकत्वमेव द्वितीयाऽर्थो वाच्य इति प्रकृते प्रयोज्यप्रयोजकभावाऽभानेऽपि न क्षतिः । तथाच तण्डुलनाशक ओदनोत्पादको यो व्यापारस्तदनुकूलकृतिमानिति बोधः । ईशस्थले च कर्माख्यातेन प्रकृतं कर्मत्वमेवाभिधीयते । अत एव काष्टानि भस्मराशिः क्रियन्ते इत्यादौ काष्टपदसमानवचनत्वमाख्यतस्य, न तु भस्मादिविकारवाचकपदसमानवचनत्वम् । भावनाऽन्वयिनि संख्यान्वयनियमात् । । ननु प्रधानाऽप्रधानकर्मवाचककर्मपदसमभिव्याहृत-नी-वहादि-दुहादिप्रकृतिककर्माख्यातस्यैवाप्रधाने दुहादीनां 'प्रधाने नीहृकृट्वहाम् इत्यनुशासनात् कर्मत्वद्वयाऽनभिधायकत्वाऽनियमेन प्रकृते कर्मत्वद्वयस्यैव तुल्यतया विकृतिगतकर्मत्वस्यापि लकारेणाभिधाने बाधकाभावः। आख्यातस्य विकृतिसमानवचनत्वप्रसङ्गस्तु ___ "गृह्णाति वाचकः संख्यां प्रकृतेविकृतेन हि"। इत्यनुशासनसिद्धविकृतिसंख्यान्वयबुद्धिं प्रति प्रकृतिसंख्यान्वयपरत्वेनाऽगृह्यमाणाख्यातजन्योपस्थितेहेतुत्वकल्पनया निरसनीयः । कथमन्यथा "भस्मीभवन्ति काष्ठानि" इत्यादिप्रयोगा इति चेद् ? न । 'घटपटौ दृश्येते' इत्यत्र द्वित्वस्यैवोभयसाधारणविशेष्यतावच्छेदकाऽपरिचयेन विकारविकारिणोईयोरेवाख्याताऽर्थविशेष्यत्वे वा वाक्यभेदापत्तेः । न चेष्टाऽपत्तिः । तथा सति 'काष्टं नाश्यते भस्म क्रियत' इति वाक्यजबोधस्येव 'काष्ठं भस्म क्रियत' इति वाक्यजबोधस्यापि भस्म काष्टविकृतिरन्यविकृतिवेतिसंशयनिर्वर्तकत्वानुपपत्तेः । समूहालम्बनजनकत्वाविशेषेण काष्टभस्मनोः प्रकृतिविकृतिभावस्योक्तवाक्यादलाभात्। सत्यामेवैकवाक्यतायां कर्तृप्रत्यये प्रयोज्यप्रयोजकभावस्य विशिष्टाऽन्वयविवक्षानियमेन लाभ इव कर्मप्रत्ययस्थलेऽपि तथा विवक्षाया नियमवशादेव कर्माऽऽत्मनेपदेन भस्मनि काष्टोच्छेदप्रयोज्योत्पत्तिकत्वरूपकाष्ठविकृतित्वस्य लाभात् । ___ न च विकृतिवाचकाद् द्वितीयापत्तिः । लकारेण विकृतिकर्मत्वस्यानभिधानेऽपि कर्मत्वान्तरविशेषणतापन्नक्रियायां तस्य विकृत्यर्थसंसर्गत्वाऽभ्युपगमेनैव द्वितीयापत्यसम्भवात् । प्रातिपदिकार्थविशेष्यतया कर्मत्वादिविवक्षायामेव द्वितीयाद्यवसरात्॥ न चैवं घटः करोतीत्यापत्तिः। कर्मत्वान्तरविशेषणतानापन्नक्रियायां क्रियान्तरकर्तृत्वविशेष्यतापन्नाऽर्थकस्यैव कर्मतासंसर्गेण भानाभ्युपगमात् । अत एव 'काष्ठं भस्मराशिः करोति' इति न प्रयोगः । भस्मराशेः क्रियान्तरकतत्वविशेष्यतानापन्नत्वात्। उपपद्यते च पश्य मृगो धावति' इत्यादिः। . प्रकृते च 'नीलो घटो भवति इत्यादावसाधारणधर्मरूपभवने नीलादेराधेयत्वरूपकर्तृतासम्बन्धेनाऽन्वयवदव्युत्पत्तिवैचित्र्येण प्रकृतिकर्मत्वविशेषणतापन्नायां कृधात्वर्थकृतौ भस्मादिरूपविकृतिकर्मणः कर्मतासम्बन्धेनान्वयोपगमेन एकवाक्यत्वोपपत्त्योक्तसंशयनिवर्तकत्वोपपत्तेः । तथाचोत्पादकत्वेन भस्मसम्बन्धिकृतिप्रयोज्यनाशप्रतियोगीनि काष्ठानीति 'काष्ठं भस्मराशिः क्रियत' इति वाक्यजो बोधः । सम्बन्धस्य प्रातिपदिकार्थविशेष्यतया अविवक्षणादेव न तत्र षष्ट्यपि ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy