SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ सुबर्थनिर्णयः । प्रकृत्युच्छेदसम्भूतं किञ्चित् काष्ठादिभस्मवत् । . दर्पणः १६१ ब्दान्निवृत्तभेदाया एव क्रियया अवगमादिति रूपप्सूत्रीयकैयटाच्च । किञ्च पचेर्व्यापारद्वयार्थकत्वे नव्यमते क्रियायां द्वित्वाबाधेन द्विवचनापत्तिर्दुर्वारा । वस्तुतस्तु विक्लेदनं विक्लित्तिर्निर्वर्त्तनमुत्पत्तिरेवोक्तपदयोर्भावल्युडन्तत्वात् । तथाच-फलद्वयाऽनुकूल एक एव व्यापारो धात्वर्थतया भाष्यकृत्सम्मतः । व्यापारद्वयार्थकत्वोक्तिस्तु केषाञ्चित् तत्पदयोर्णिजन्तप्रकृतिकल्युडन्तत्वभ्रम निबन्धनैवेत्यव - धेयम् । यद्यपि विकार्य्यं द्वेधा - प्रकृतिर्विकृतिश्चेत्येव वक्तुमुचितम्, तथापि विकृतिद्वैविध्येऽवगते प्रकृतावपि विकार्यत्वं ज्ञातप्रायं भवतीत्याशयेन तदनुक्त्वैव विकृतिकर्म विभजते-प्रकृत्युच्छेदेति । एतेन क्रिया निर्वाह्याभावः प्रतियोगिताऽवच्छेदकधर्मवत्वं प्रकृतिकर्मत्वमिति ध्वनितम् । 'काशानू कटं करोति, कुसुमानि स्रजं करोति, सुवर्णं कुण्डलं करोति, मृदं घटं करोति, काष्ठं भस्म करोति, तण्डुलानोदनं पचति' इत्यादौ क्रियानिर्वाह्यो यः पूर्वभावविशिष्टकाष्टकाशादिप्रतियोगि काभावो विशिष्टाऽसत्त्वरूपस्तत्प्रतियोगितावच्छेदकवैशिष्ट्यवत्वं काशकाष्ठादेरिति तत्तत्प्रकृतौ लक्षणसङ्गतिः । सर्वत्र विशिष्टाभावप्रतियोगिनि तादृशप्रतियोगितावच्छेदकव शिष्टयसत्वादतिप्रसङ्ग वा रणाय क्रियानिर्वाह्येति प्रकृतधात्वर्थव्यापारनिर्वाह्यार्थकम् । क्वचित् काष्ठतण्डुलादिधर्मिनाशादेव विशिष्टाऽभावो भस्मौदनादिसम्पादकः । क्वचिद्धर्मिणः सत्त्वेऽपि कटस्त्रगादिसन्दर्भविशेषविरहरूपपूर्वभावविशिष्टाऽसत्त्वं कटसन्दर्भादिनिष्पादकं क्रियातो निर्वहति ॥ *सम्भूतमिति* ॥ प्रकृतिनाशप्रयोज्योत्पत्तिमदित्यर्थः । इदं च भस्मवदित्यन्वयि । काष्ठादीति पृथक् पदम्, अन्यथा काष्ठसुवर्णादेस्तुरीयतापत्तेः ॥ *भस्मवदिति ॥ तत्तौल्येन वर्त्तमानमन्यदपि विकारजातमित्यर्थः । सादृश्यं च प्रकृतिनाशप्रयोज्योत्पत्तिमत्त्वेनैव । एवमग्रेऽपि । तथाच प्रकृतिविकृतिभावापन्नकाष्ठभस्मादिविकार्य्यमित्यर्थः पर्य्यवस्यति । एवञ्च - 'काष्ठं भस्म करोति' इत्यत्र करोतेः प्रतियोगित्वविशिष्टनाश उत्पत्तिश्च फलद्वयम्, तदनुकूलव्यापारश्चाऽर्थः । नाशे प्रतियोगितया काष्ठस्योत्पत्ता भस्मन आधेयतया काष्ठप्रतियोगिकनाशानुकूलो भस्मोत्पादको वर्त्तमानो व्यापार इति बोधः । एवं तण्डुलानोदनं पचतीत्यादावपि । नैयायिकास्तु- 'तण्डुलानोदनं पचति' इति विकार्य्यस्थले प्रकृतिकर्मात्तरद्वितीयाया नाशकत्वमर्थः । विकृतिकर्मोत्तर द्वितीयायाश्चोत्पादकत्वम् । तण्डुलाद्यन्वितं नाशकत्वं च पाकेऽन्वेति । ओदनाऽन्वितोत्पादकत्वस्य नाशकत्वविशिष्टे पाकेऽन्वयः । नाशे चोत्पत्तेः प्रयोजकत्वमुद्देश्यविधेयभावमहिम्ना भासते । तेन पाकस्य तण्डुलारम्भकः संयोगनाशकत्वेऽपि 'संयोगमोदनं पचति इति न प्रयोगः । तण्डुलारम्भकसंयोगनाशस्यौदनोत्पत्तौ तण्डुलनाशेनाऽन्यथासिद्धतया अप्रयोजकत्वात् । परीक्षा कः, किञ्चिद्गुणान्तरोत्पत्या पूर्वकालस्थितावयवसंस्थानविजातीयावयवसंस्थानविशिष्टासत्वं विलक्षणोत्पत्तिमत्वान्यतरत्वं सामान्यलक्षणं द्रष्टव्यम् । 'काष्टं भस्म करोति' 'सुवर्ण कुण्डलं करोति' इत्यादौ प्रकृति विकृत्योरुभयोरपि सत्वालक्षणानुगतिः । प्राप्यस्य २१ ५० प०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy