SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १६० दर्पणपरीक्षासहिते भूषणसारेतन्नित्यं विकायं तु द्वेधा कर्म व्यवस्थितम् ॥ . . दर्पणः तन्निर्वर्त्यम्" इत्येव वाक्यपदीयपाठः । अन्यथा सामान्यधर्मेण अलक्षितस्य विकार्य्यस्य विशेष्यरूपेण प्रदर्शनेऽर्थान्तरतापत्तेः। तदर्थस्तु-कैश्चित् प्रसिद्धराचार्यः प्रकृतिविवक्षायां निष्पाद्यं विकार्यमित्युच्यते । अन्यथा तदविवक्षायां तन्निष्पाद्यं निर्वर्त्यमिति तदर्थः । तत्र घटं करोतीत्यादौ सत्या अपि मृदादिप्रकृतेः परिणामित्वे. नाविवक्षा । 'भस्म करोति' इत्यादौ त्वसत्या एव तस्यास्तत्त्वेन सा। .. यद्यपि निर्वय॑ते निष्पाद्यते इति व्युत्पत्या निर्वय॑त्वम् । तण्डुलानोदनं पचतीत्यादावोदनादौ विकार्य्यकर्मण्यप्यस्तिः तथापि प्रकृतिवाचकपदासमभिव्याहृतपदोपस्थाप्यत्वे सति निष्पाद्यत्वरूपपारिभाषिकनिर्वय॑त्वस्य विवक्षणान्न दोषः ॥ तदुक्तम् –सती वा विद्यमाना वा प्रकृतिः परिणामिनी।। ___ यस्य नाश्रीयते तस्य निर्वर्त्यत्वं प्रचक्षते ॥ इति । यस्य विकृतिकर्मणो नाश्रीयते-न प्रयुज्यते, न विवक्ष्यत इति यावत् । अन्यत्उक्तार्थम् । विकायं त्विति । तल्लक्षणं तु प्रतीयमानप्रकृतिविकृतिभावकत्वे सति क्रियानिर्वाह्यविशिष्टासत्त्वोत्पत्यन्यतरफलवत्त्वम् । घटं करोतीत्यादिनिर्वत्ये क्रियानिर्वाह्योत्पत्तिमत्यपि प्रकृतिविकृतिभावाभानान्नातिप्रसङ्गः। प्रकृतिकर्मणस्तादृशविशिष्टासत्त्वाद् विकृतिकर्मणश्च तादृशोत्पत्त्याश्रयत्वाल्लक्षणसङ्गतिः। ईदृशस्थले फलद्वयप्रयोजकव्यापाराऽर्थकत्वं धातोरावश्यकम् । उक्तञ्च भाष्ये-'व्द्यर्थः पचिः' इति । अन्यथैकफलैकव्यापारार्थकत्वस्याकर्मकेष्वपि सत्त्वाद् विशेषोपादनानर्थक्यप्रसङ्गात् ॥ परे तु-"द्वयर्थः पचिः” इति भाष्याद् , बिक्लेदन निर्वर्त्तनं च पचेरर्थः । 'तण्डुला नोदन पवति'इत्यस्य तण्डुलान् विक्लेदयन्नोदनं निवर्तयतीति विवरणात् । तथाच प्रकृते तण्डुलाश्रयविक्लित्त्यनुकूलव्यापाराश्रयाश्रयक ओदनाश्रयकोत्पत्यनुकूलो व्यापार इति बोधः । एवं 'काष्ठं भस्म करोति' इत्यादावप्यूह्यमित्याहुः॥ तदसत् । भावनाप्रकारकबोधे हेतुत्वेन क्लप्तायाः कृद्धात्वन्यतरजन्योपस्थितेर्विशेप्यतासम्बन्धेनाख्यातार्थेऽभावेन तादृशबोधासम्भवात् । एकयैव क्रियया फलद्वयोत्पत्तिसम्भवेन तद्वाक्यजन्यबोधस्य व्यापारद्वयविषयकत्वकल्पनानौचित्यादाख्यातश परीक्षा मत्वं लब्धम् । नचैवं सति विकार्ये कर्मणि निर्वर्त्यकर्मणो लक्षणमव्याप्तम्, तस्यापि यत्नसाध्यत्वादिति वाच्यम् ? प्रकृतिवाचकपदसमभिव्याहृतपदोपस्थाप्यत्वस्यापि निवेशात् । तदुक्तम् सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी। यस्य नाश्रीयते तस्य निर्वर्त्यत्वं प्रचक्षते ॥ · इति सती विद्यमाना अविद्यमानाऽसती, यस्य विकृतिकर्मणः, प्रकृतिः-प्रकृतिवाचकः शब्दः, नाश्रीयते--न प्रयुज्यते । एवं चैकस्य विवक्षाभेदेनोभयरूपत्वेन व्यवहार इत्युक्तम्भवति । विकार्यन्त्विति । प्रकृत्युच्छेदसम्भूतम् । यत्नप्रयोज्यो यः प्रकृतेरुच्छेदो-नाशः, तज्जन्यनाशश्चात्रात्यन्ताप्रतीयमानपूर्वकालिकस्वस्वरूपफल
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy