SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ सुबर्थनिर्णयः । न्तरत्वादिति स्पष्टं भूषणे । एतच्च सप्तविधम् निर्वर्यञ्च विकार्य्यश्च प्राप्यश्चेति त्रिधा मतम् । तच्चेप्सिततमं कर्म चतुर्द्धान्यत्तु कल्पितम् ॥ औदासीन्येन यत् प्राप्यं यच्च कर्त्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम् ॥ इति वाक्यपदीयात् । यदसजायते सद्वा जन्मना यत्प्रकाशते । दर्पण: धीनाधेयत्वोपस्थितेरिव तदधीनपरसमेवतत्वोपस्थितेः प्रकारतासम्बन्धेन । एवं परसमवेतत्वप्रकारक बुद्धिं प्रति धातुजन्योपस्थितेर्व्यापारत्वावच्छिन्न विशेष्यतासम्बन्धेन हेतुत्वकल्पने चातिगौरवादित्यर्थः । मन्मते तु फलप्रकार कशाब्दबोधक्लृप्तहेतुताकव्यापारोपस्थितिविषयव्यापारांशे द्वितीयाप्रकृत्यर्थावृत्तित्ववैशिष्ट्य निवेशेनैव नातिप्रसङ्ग इति भावः । ननु 'चैत्रो मैत्रश्च परस्परं गच्छतः' इत्यादौ धात्वर्थव्यापारस्य द्वितीयां प्रकृत्यर्थवृत्तित्वात्तत्तत्फला नन्वयप्रसङ्गोऽत आह-स्पष्टमिति । तथाच द्वितीयाप्रकृत्यर्थावृतीत्यनेन द्वितीयाप्रकृत्यर्थवृत्तिभेदप्रतियोगिताऽवच्छेदकत्वस्याविवक्षणात्, 'परस्परं गच्छत' इत्यादौ क्रियायाः परस्परावृत्तित्वबाधेऽपि परस्परनिष्टभेदप्रतियोगितावच्छेदकत्वस्याबाधान्न फलान्वयानुपपत्तिरित्यादि तत्रोक्तमिति । हरिकृतं कर्मविभागमाह*तच्चेति* । क्रियाजन्यफलाऽश्रयरूपं कर्मत्यर्थः ॥ *यदसज्जायत इति । असत्कार्य्यवादमवलम्ब्य । सहेत्यादि तु सांख्यमतेन । प्रकाशत इत्यनन्तरं “प्रकृतेस्तु विवक्षायां विकार्य्यं कैश्चिदन्यथा । परीक्षा द्वितीयार्थपरसमवेतत्वैकदेशभेदे प्रकृत्यर्थस्य तथा परसमवेतत्वस्य धात्वर्थप्रधानीभूत-व्यापारे विशेषणत्वस्य लाभायेत्यर्थः । *अनेकश इति । प्रकृत्यर्थनिष्ठप्रका रता निरूपितविशेष्यतासम्बन्धेन बोधं प्रति द्वितीयाजन्यभेदोपस्थितिः द्वितीयार्थपरसमवेतत्वनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति धातुजन्यव्यापारोपस्थितिश्च कारणमिति कार्य्यकारणभाव इत्यर्थः । न च भवन्मते व्यापारांशे प्रकृत्यर्थस्याश्रयस्य च फले प्रकारतया तदनुरोधेन कार्य्यकारणभावस्य द्वैविध्यमस्त्येवेति वाच्यम् ? भवन्मतेऽप्यपर द्वितीयार्थाधेयत्वांशे प्रकृत्यर्थस्य तस्य च फलांशे प्रकारतामादाय कार्य्यकारणभावान्तरस्य च कल्पनीयतया तेन साम्यादिति । हर्यादिसम्मतं कर्मणो विभागमाह - एतच्चेति । ईप्सिततमं कर्म निर्वर्त्यादिभेदेन त्रिधा । *अन्यत्*- ईप्सितमादन्यत् कर्म । औदासीन्यादिभेदेन चतुद्धेत्यर्थः । निर्वर्त्यस्य स्वरूपमाह - * यदसदिति । इदं नैयायिकमतेन । जन्मनेति । साङ्ख्यमतेन निर्वर्त्यते निष्पाद्यते इति व्युत्पत्तिरुभयथा निर्बाधा । एवं च यत्न विशेष प्रयोज्योत्पत्ति 1
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy