SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारेगोपःइति द्वितीयापत्तेः । तण्डुलं पचति चैत्र इतिवत् , तण्डुलं पच्यते स्वयमेवेत्यापत्तेश्च । विक्लित्त्यनुकूलतण्डुलान्यसमेवताग्निसंयोगरूपधात्वर्थाश्रयत्वात् । शाब्दबोधातिप्रसङ्गोऽप्युक्तरीत्यैव निरस्तः। परसमवेतत्वस्य शक्यत्वेऽपि परत्वस्य परसमवेतत्वस्य च इष्टाऽन्वयलाभायाऽनेकशः कार्यकारणभावाऽभ्युपगमे गौरवा दर्पणः ना*। *द्वितीयापत्तेरिति । द्वितीयोत्पत्तायुक्तकर्मत्वस्य तन्त्रत्वे, गमयति गोकुलं कृष्णमित्यत्र णिजथनिरूपितनिरुक्तकर्मत्वस्येव पचिप्रकृतिकणिजर्थकर्मत्वस्य कृष्णे सत्त्वेन पाचयत्यादिप्रयोगेऽपि प्रयोज्यकर्त्तवाचकाद् द्वितीयापत्तेः । अतः संज्ञाया एव द्वितोयोत्पत्ता प्रयोजकताऽङ्गीकरणीया । एवञ्च तत एवातिप्रसङ्गभङ्गे, कृतं तत्र द्वितीयशक्त्येति भावः । . ननु तादृशकर्मत्वमेव द्वितीयानियामकम् । निरुक्तस्थले कृष्णे तत्सत्त्वेऽप्युपात्तगत्यर्थकाद्यतिरिक्तणिजन्तधातुयोगे "गतिबुद्धि" इति सूत्रेण तदविवक्षाबोधनान्नोक्तापत्तिः। विवक्षाया एव विभक्त्युत्पत्तौ नियामकताया वक्ष्यमाणत्वादत आह-*तण्डुलं पच्यत इति । तण्डुले भवदुक्तद्वितीया नियामककर्मत्वस्य सत्त्वात्तदापत्तिः, मन्मते तु कर्तसज्ञया बाधान तदापत्तिरिति भावः। तण्डुलान्यसमवेतेत्यनेन परसमवेतक्रियाजन्यत्वं विल्कित्तावस्तीति बोधितम् । धात्वर्थाश्रयादित्यनेन कर्तृसंज्ञासत्त्वमावेद्यते। *उक्तरीत्यैवेति । तथा व्युत्पन्नानामित्याधुक्तरीत्यैवेत्यर्थः। धात्वर्थव्यापाराऽनधिकरणाश्रयोपस्थितिरूपहेत्वभावादिति भावः । ननु नाऽस्मन्मतेऽप्युक्तप्रयोगापत्तिस्तत्र व्यापारत्वेन फलस्यैव भानाऽङ्गीकारेण तण्डुलस्य धात्वर्थतावच्छेदकफल. शालित्वाऽभावात् । निष्कृष्टभवन्मतेऽपि व्यापारगतपौर्वापारोपेण फलस्य व्यापाररतायाः स्वीकाराच्चेत्यतो दूषणान्तरमाह *परसमेवतत्वस्येति । इष्टाऽन्वयेति । इष्टस्य प्रकृत्यर्थस्य प्रतियोगितासम्बन्धेन परसमवेतत्वस्यैकदेशे परत्वे परसमवेतत्वस्य चाश्रयतया क्रियायामन्वयस्य लाभाय-भानायेत्यर्थः । *अनेकश इति । प्रकृत्यर्थप्रकारकशाब्दबुद्धिं प्रति द्वितीयाs परीक्षा क्तदोष इत्यत आह-तण्डुलमिति । *तण्डुल:* पच्यत इति । अत्र तण्डुलमिति द्वितीयान्तपदघटितयादृच्छिकसमुदायरूपमेतत् । स्वमते तु न तादृशः प्रयोगः । आख्यातेन कर्मणा उक्ततया द्वितीयाया असाधुत्वात । *धात्वर्थाश्रयत्वादिति । एतेन कत्तसज्ञाऽप्यस्तीति कर्मवद्रावविषयता सूचिता। *उक्तरीत्येति । विपरीतव्युत्प. त्तिमतां भवत्येव । यदि न ज्ञायते तदा विशेष्यतासम्बन्धेन द्वितीयाप्रकृत्यर्थप्रकारकशाब्दबुद्धि प्रति विशेष्यतासम्बन्धेन धात्वर्थव्यापारानधिकरणाश्रयोपस्थितेः, सहकारिकारणत्वं स्वीकार्यमिति न शाब्दबोधापत्तिरितिरीत्येत्यर्थः । ननु 'तण्डुलं पच्यते, स्वयमेव इत्यस्यानापत्तिः, तत्र कर्मण एव कर्तत्वेन फलव्यधिकरणव्यापारस्य त्यागस्तत्समानाधिकरणव्यापारस्य धातुवाच्यलविवक्षा चास्ति फलव्यापारयोस्तु पृथग धातुवाच्यताऽऽश्रीयते । एवं च धात्वर्थतावच्छेदकफलाश्रयत्वविरहान्न कर्मतापत्तिरिति कथं द्वितीयामापादयतीत्यत आह-परसमवेतत्वस्येति । *इष्टान्वयेति ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy