SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ सुबर्थनिर्णयः । ख्यातम् । क्रूरमभिक्रुद्धयतीत्यन्य पूर्व्वकम् ॥ १६५ दर्पणः बोधः । विभागावधित्वमेव गोः कर्मत्वम् । आद्यकल्पे तु पयोनिष्ठ विभागानुकूलगोनिष्टव्यापाराsनुकूल एककर्त्तको वर्त्तमानो व्यापार इति । तत्र विभागाश्रयत्वात् पयसः कर्मता । तदनुकूलव्यापाराश्रयत्वात्तु गोः, न तु विभागाश्रयत्वेन । पयोनिष्ठविभागीयसम्बन्धस्यैव फलतावच्छेदत्वादेवमन्यत्राप्यूह्यम् । *अन्यपूर्वकमिति । अन्यसंज्ञाबाधनपूर्वं शास्त्रबोधितमित्यर्थः । ' क्रूरमभिक्रुध्यति' इत्यत्र “क्रुधदुहेर्ष्या" इतिप्रसक्तसम्प्रदानसंज्ञायाः “कुधद्रुहोरुपसृष्टयोः कर्म" (पा० सू० १|४| ३८ ) इति बोधनात् । एवं 'वैकुण्ठमधिशेते' इत्यादावपि बोध्यम् । 'अजां ग्रामं गमयति, 'शिष्यं शास्त्रं बोधयति' 'ब्राह्मणमन्नं भोजयति' 'यजमानं मन्त्रं पाठयति, ' 'घटं जनयति' 'नाशयति' इत्यादौ “गतिबुद्धि” इति सूत्रेण गम्यादिधात्वर्थकर्तुः कर्मसंज्ञाविधानात् गम्यादिप्रकृतिकणिजन्तधातुसमभिव्याहृतद्वितीयाया अप्याश्रयोऽर्थः । यद्यपि णिजन्तधात्वर्थप्रेरणाजन्यव्यापाररूपफलाश्रयत्वादजादीनामपि कर्मत्वं “कर्तुरीप्सिततमम्" इत्यनेनैव सिद्धं, तथापि णिजन्तेन आप्यमानस्य चेद्भवति गत्याद्यर्थ व्यापाराश्रयस्यैवेति नियमार्थं सूत्रम् । तेन 'पाचयत्योदन देवदत्तेन' इत्यादौ न । तदुक्तम् गुणक्रियायां स्वातन्त्र्यात् प्रेषणे कर्मतां गतः । नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते । इति । वाचकतासम्बन्धेन स्वनिष्ठया तृतीययेत्यर्थात् । यद्यपि कर्त्तृसंज्ञायाः परत्वात् " हेतुमति च" इत्यनुशासनात् स्वकारकविशिष्ट क्रियाया णिजर्थसम्बन्धाऽवगतेरन्तरङ्गत्वाच्च कर्मसंज्ञायास्तया बाध एवोचितस्तथाप्यन्यानधी नत्वलक्षणार्थ प्राधान्यशाब्दप्राधान्ययोः प्रयोजकव्यापारे सत्त्वेन प्रधानकार्य्यस्य च सर्वतो बलवत्त्वस्य “आकडार' ( पा० सू० १।४।१ ) सूत्रे कैयटेनोक्तत्वात् " हेतुमति च" इतिसूत्रस्थभाष्यप्रामाण्याच्च तदनुरोधिकर्मत्वस्यान्तरङ्गादपि कर्तृत्वाद्बलवत्त्वाऽनियमत्वमेव साम्प्रतम् । परे तु — " हेतुमति च" इत्यनुशासनादन्यनिष्ठकर्तृत्वनिर्वाहकव्यापाररूपा स्वतन्त्रप्रेरणा णिजर्थः । कर्तृत्वं च क्वचित् प्रयत्नः क्वचिदाश्रयत्वादि । येन यादृशधातूत्तराख्यातेन यादृशं कर्तृत्वमभिधीयते ; तादृशधातूत्तरणिच्प्रत्ययेन तादृशकर्तृत्वनिर्वाहको व्यापारोऽभिधीयते । निर्वाहकत्वं च स्वरूपसम्बन्धविशेषो, नाडतो नाशयतीत्यादावन्वयाऽनुपपत्तिः । एवञ्च पाकादिकर्तुस्तत्कर्मत्वविरहेऽपि ण्यन्तधातुप्रतिपाद्यताऽवच्छेदककर्तृत्वस्य फलत्वेन तदाश्रयत्वात् पाकादिकर्तुः कर्मत्वं तादृशकर्तृत्वविशेषणतया सहायादिरूपस्वतन्त्रकर्तृवृत्तित्वविवक्षायां पाचयत्योदनं सहायमित्यपि प्रयोगः साधुरेव । अत एव “अजिग्रहत्तं जनको धनुस्तद्” इति भट्टिप्रयोगः स्वरसतः सङ्गच्छते । ग्रहेर्ज्ञानलाक्षणि परीक्षा * अन्यपूर्वकमिति । शास्त्रान्तरप्राप्तसंज्ञान्तरबाधकशास्त्रप्रयोज्यकर्मसंज्ञकमित्यर्थः । “क्रुधद्रुहेर्ष्याणाम्” इति यथा । एवं वैकुण्ठमधितिष्ठतीत्याद्यन्यस्मिन्नेवान्तर्भ
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy