SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारे - कर्त्तृतृतीयाया आश्रयोऽर्थः । तथाहि - "स्वतन्त्रः कर्त्ता" (पा० I १६६ दर्पणः 1 कतया तदुपपादनं त्वगतिकगतिः । यदा तु णिच्प्रकृत्यर्थव्यापारे स्वतन्त्रकर्तृवृत्तित्वस्य विशेषणतया विवक्षा तदा सहायेनेत्येव । “गतिबुद्धि” इति सूत्रात् गत्याद्यर्थकधातुयोगे तादृशकर्तृत्वविशेषणतया स्वतन्त्रकर्तृवृत्तित्वविवक्षा नियता, नाऽन्यत्रेत्यबोधनद्वारा तत्र कर्तृप्रत्ययाऽसाधुत्वज्ञापकम् । तेन 'पाचयत्योदनं सहायेन' इतिवद्'अजया ग्रामं गमयति' इति न | एवञ्च 'अजां ग्रामं गमयति' इत्यत्र ग्रामनिष्ठसंयोगानुकूलव्यापारस्य यदजानिष्टं कर्तृत्वं निर्वाहकत्वसम्बन्धेन तद्विशिष्टो यो व्यापारस्तदनुकूलकृतिमानिति बोधः । 'पाचयत्योदन सहायेन' इत्यत्र सहायकर्तृको यो विक्लिस्यनुकूलो व्यापारो, निर्वाहकत्वसम्बन्धेन तत्कर्तृत्वसम्बन्धेन तत्कर्तृत्वविशिष्टव्यापारानुकूलकृतिमानिति बोधः । 'चैत्रेण ग्रामं गम्यतेऽजा' इत्यत्र कर्माख्याते तु तादृशव्यापार निर्वाह्यकर्तृकव्यापारनिर्वाह्य कर्तृत्वनिरूपकं यद् ग्रामवृत्तिसंयोगानुकूलं गमनं तत्कर्त्यजेति बोधः । 'सहायेन पाच्यते तण्डुल चैत्रेण' इत्यत्र तु चैत्रकर्तृकप्रेरणा निर्वाह्यकर्तृत्वनिरूपको यः सहायरूपस्वतन्त्रकर्तृवृत्तिव्यापारस्तज्जन्यविक्लित्त्याश्रयस्तण्डुल इति बोधः । अर्थविवेकः स्वयमूह्यः । ये त्वनुकूलव्यापार एव णिजर्थस्तदन्वयिनी गमनादिक्रियैव धात्वर्थतावच्छेदकं फलं, तच्छालितयाऽजादीनां प्राप्तमेव कर्मत्वं “गतिबुद्धि” ( पा० सू० १।४।१२ ) इति सूत्रेण नियम्यत इति वदन्ति । तेषां मते 'पाचयत्योदनं सहायेन इत्यादौ द्वितीया तृतीययोर्नियामकोऽलाभः । अधिकमन्यत्राऽनुसन्धेयमित्याहुः । 'वैकुण्ठमधितिष्ठति' इत्यादावपि द्वितीयाया आधार एवार्थः । अध्याद्युपसृष्टशीङादियोगे “अधिशीङ्” (पा० सू० १।४।४५) इत्यादिसूत्रैराधारस्य कर्मसञ्ज्ञाविधा - नात् । यदपि कृञर्थ व्यापारान्तर्भावेणाऽध्याद्युपसृष्टशीङादीनां लक्षणामुपगम्य "कर्नु - रीप्सिततमम्" इत्यनेनैव कर्मसञ्ज्ञा सुसाधा, तथापि मुख्याऽर्थकतद्योगेऽपि कर्म - प्रत्ययसाधुत्वबोधनार्थमपि “अधिशीस्थासाम्" इत्यादिसूत्राणामप्यावश्यकतेति । कर्मप्रवचनीययोगविहितविभक्तेस्तु यथायथं लक्ष्यलक्षणभावादिः सम्बन्धो द्योत्य fad उपपदविभक्तीनां तु षष्ठयपवादकत्वात् सम्बन्ध एवार्थः । " कालाऽध्वनोरत्यन्तसंयोगे" ( पा० सू० २।३।५ ) इति विहितद्वितीयाया व्यापकत्वमर्थः । 'मासमata' इत्यादौ मासव्यापकाऽध्ययनमिति बोधात् । द्वितीयादीनामाश्रयोऽर्थ इत्यत्र विभक्तिपदस्य कारकविभक्तिपरत्वेन तदविरोधादित्यन्यत्र विस्तरः । क्रमप्राप्तं तृतीयार्थं निरूपयति-कर्तृतृतीयाया इति । करणतृतीयाया व्यापारार्थकत्वस्यापि वक्ष्यमाणत्वादुक्तम् - *कत्रिति । *आश्रय इति । आश्रयमात्रमि - त्यर्थः । आश्रयार्थकत्वे मानमुपन्यस्यति - तथाहीत्यादिना । ननु स्वातन्त्र्यमितव्यापारानधीन व्यापारवत्वम् । तच्च 'काष्टं पचति' इत्यादौ काष्ठादावप्रसक्तं, तद्वया
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy