SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ - सुबर्थनिर्णयः। सू० १।४।५४) । स्वातन्त्र्यञ्च-धात्वर्थव्यापाराश्रयत्वम् । . .. धातुनोक्तक्रिये नित्यं कारके कर्त्ततेष्यते ॥ .. ... इति वाक्यपदीयात् । अत एव यदा यदीयो व्यापारो धातुनाउं. भिधीयते तदा स कतति, स्थाली पचति, अग्निः पचति, एधांसि दर्पणः । पारस्य चेतनव्यापाराधीनत्वादत आह-*स्वातन्त्र्यञ्चेति । व्यापाराश्रयत्वस्य करणे धात्वर्थाश्रयत्वस्य कर्मण्यतिप्रसक्तत्वात् तद्वयावृत्तये क्रमेणोभयम् । __अन्ये तु-कर्तृप्रत्ययसमभिव्याहारे व्यापारतावच्छेदकसम्बन्धेन धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतानाश्रयतद्धात्वर्थाश्रयत्वं स्वातन्त्र्यम् । तदेव च कर्तृत्वम् । कालिकसम्बन्धेन व्यापाराश्रयेऽतिप्रसङ्गवारणाय व्यापारतावच्छेदकसन्बन्धेनेति । 'ग्रामं गच्छति इत्यादावुत्तरसंयोगात्मके फले तादृशधात्वर्थत्वाभावान्न तदाश्रयेऽतिप्रसङ्गः । 'पक्वस्तण्डुलो देवदत्तेन इत्यादौ फलस्य विशेष्यत्वेन देवदत्तेऽव्याप्तिपरिहाराय कर्तृप्रत्ययसमभिव्याहार इति । सामग्रीसाध्यायां क्रियायां सर्वेषां स्वस्वव्यापारे स्वातन्त्र्येऽप्युक्तस्वातन्त्र्यस्य युगपत्सर्वेष्वभावान्न सूत्राऽनर्थक्यमिति, तत्तुः कर्मप्रत्ययसमभिव्याहृतकर्तृव्यावृत्तधात्वर्थव्यापाराश्रयत्वस्यैव सम्यक्त्वे गुरुविशेषणस्याऽनतिप्रयोजनकत्वाच्चोपक्ष्यम् । कर्मकर्तरि तु नव्यमते फले व्यापारत्वाऽऽरोपानाsव्याप्तिः । व्यापारत्वेन क्रतेरपि सङ्ग्रहान्न तदनाश्रयेऽचेतने स्वरसतः कर्तव्यवहार: तदरिक्तव्यापारस्य धातुना विवक्षायां तु क्वचित् कर्तृत्वव्यवहारोऽपि । वक्ष्यति चयदा यदीयो व्यापार इत्यादि । एवमेव 'मत्तो भूतं न तु मया कृतम् इत्याद्युपपाद्यमिति भावः । तत्र हरिवाक्यं प्रमाणयति-*धातुनेति । उक्तक्रिय इति विशेषणादस्मदुक्तमेव स्वातन्त्र्यं हरिसम्मतमिति सूचयति-*अत एवेति । उक्तस्वातन्त्र्यस्य कर्तत्वादेवेत्यर्थः। परीक्षा वति । *आश्रय इति । आश्रयत्वमात्रं वाच्यतावच्छेदकम् । *धात्वर्थव्यापारेति । धात्वर्थप्रधानव्यापारेत्यर्थः। प्राधान्यं च-कारकान्तराप्रयोज्यत्वम् । एतच्च विवक्षाधीनम् । यत्र काष्टं पचतीति प्रयोगस्तत्र काष्ठस्य कर्तत्वविवक्षायां यद्यपि तदीयव्यापारस्यान्यप्रयोज्यत्वम् , तथापि तस्यामवस्थायां यत्कारकान्तरं तदनधीनत्व. मस्त्येवेति बोध्यम्। _ तदाह-*धातुनेति*। *अत एव*-स्वतन्त्रस्योक्तरूपत्वादेव । यत्र तु करणे तृतीया तत्र तृतीयार्थो व्यापारः, तदीयव्यापारस्य करणत्वविवक्षायां धातुवाच्यत्वविरहात् । नचैवं चैत्रेण पाचयति मैत्रः' इत्यत्र चैत्रस्य मैत्रीयव्यापारप्रयोज्यत्वेन कारकान्तराप्रयोज्यत्वविरहात्कर्त्तत्वं न स्यादिति वाच्यम् ? तधात्वर्थप्रधानीभूतव्या. पाराप्रयोज्यत्वस्य विवक्षितत्वात् । एवं च तत्र चैत्रस्य णिजप्रकृतिधातुनिरूपितकर्तृत्वं तस्य तद्धातुवाच्यव्यापाराप्रयोज्यव्यापाराश्रयत्वमक्षतमेव । न च फूत्कारादिव्यापारकाले-"चैत्रस्तण्डुलं पचति" इतीष्यते, तत्र चैत्रस्य कर्तत्वं न स्यात् । फूत्काररूपव्यापारस्य चैत्रीययत्नसाध्यत्वादिति वाच्यम् । फूत्कारस्य प्राधान्यविवक्षायां कारकान्तराप्रयोज्यत्वस्यभू कारकनिष्टप्रधानीतव्यापाराप्रयोज्यत्वरूपस्य सत्वात्।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy