________________
१६८ दर्पणपरीक्षासहिते भूषणसारेपचन्ति, तण्डुलः पच्यते स्वयमेवेत्यादि सङ्गच्छते। __ नन्वेवं “कर्मकर्तृव्यपदेशाच्च” (ब्र०सू०१।२।४) इति सूत्रे, “मनोमयः प्राणशरीरः" इति वाक्यस्थमनोमयस्य जीवत्वे वाक्यशेषे तस्य “एतमितः प्रेत्याभिसम्भवितास्मि” इति प्राप्तिकर्मत्वकर्तृत्वव्यपदेशो विरुद्ध इति भगवता व्यासेन निर्णीतं कथं सङ्गच्छताम् । उच्यते-जीवस्यैव शेयत्वे प्राप्तिकर्मत्वमपि वाच्यम् । कर्तृत्वञ्च तस्य आख्यातेनोक्तम् । नकस्यैकदा संज्ञाद्वयं युक्तम् । कर्तृ- । संज्ञया कर्मसंज्ञाया बाधात् । तथाचैतमिति द्वितीया न स्यात्।
दर्पणः ___ *सङ्गच्छत इति । कृत्याश्रयत्वादेस्तत्त्वे तु तदसङ्गतिरिति भावः । उक्तविवक्षायाः प्रयोगनियामकत्वं दृढयितुं पृच्छति-*नन्वेवमिति । एवं विवक्षाया एव प्रयोग नियामकत्वे मनोमयस्य मनोमयशब्दप्रतिपाद्यस्येत्यर्थः । जीवत्वे सङ्कल्पकर्तृरूपत्वे ब्रह्मभिन्नत्वे इति यावत् । एतमित इत्यादेरितः शरीरात् प्रेत्य निःसृत्य एतच्छरीरं परित्यजेति यावत् । एतं स्वप्रकाशत्वादिगुणविशिष्टं पूर्वोक्तमात्मानम् , अभिसम्भवितास्मि प्राप्तास्मीत्यर्थः । *कथं सङ्गच्छतामिति । भवन्मते वैवक्षिकयोः कर्त्तत्वकर्मत्वयोरेकस्मिन्नपि सम्भवादिति भावः। ___ सज्ञानिबन्धनविरोधं समर्थयन् कर्त्तत्वकर्मत्वयोर्वास्तवाविरोधं दर्शयति-*उच्यते इत्यादिना*। *जीवनस्यैव ज्ञेयत्व इति । ‘स क्रतुं कुर्वीत इत्यनेन जीवस्यैवो. पास्यत्वबोधने इत्यर्थः । *प्राप्तिकर्मत्वमिति । अन्योपासनाया अपरप्राप्त्यफलकत्वादिति भावः। *आख्यातेनेति। अभिसम्भाविताऽस्मीत्येतद्घटकेनेत्यर्थः। *बाधा
'परीक्षा विवक्षायाः प्रयोगनियामकत्वमित्येतद्गढयितुं शङ्कते-*नन्वेवमिति । *एवम् - विवक्षाया एव प्रयोगनियामकत्वे। *इतिसूत्रम् इत्यस्य निर्णातमित्यत्रान्वयः। मनोमयत्वादिभिर्धर्मः शरीरात्मा उपास्यत्वेन विवक्षितः उत परब्रह्मेति सन्देहे पूर्वपक्षे दूषणदानप्रस्तावे इत्थमुक्तम्-मनोमयः प्राणशरीरोसत्यकामः सत्यसङल्पो यः इत्यादिकं ब्रह्मैवोपास्यत्वेन विवक्षितमित्यत्र हेतुः। “एतमितः प्रेत्याभिसम्भवितास्मि" इति व्यपदेशात् । एवं प्रकृतं मनोमयत्वादिगुणकमुपास्यमात्मानमितः अस्माल्लौकिकशरीरात् , प्रेत्य निःसृत्य । एतच्छरीरं परित्यज्येति यावत् । *अभिसम्भवितास्मि - प्राप्स्यामीत्यर्थः। जीवत्वे ऽब्रह्मपरत्वे तस्यैकस्य जीवस्य यदि जीव एवोपास्यस्तटेकस्य कर्त्तत्वं कर्मत्वं चैतमित इत्यनेनोक्तं तद्विरुद्धमापद्येत इत्युक्तमित्यर्थः । *कथं सङ्गच्छतामिति । भवन्मते वैवक्षिकयोः कर्तृत्वकर्मत्वयोरकस्मिन्नपि सम्भवादिति भावः । कर्तृत्वकर्मत्वयोर्न सर्वथा विरोधः, किन्तु संज्ञानिबन्धन इत्यभिप्रायकं व्याससूत्रमित्याशयेन समाधत्ते-*उच्यत इति । *जीवस्यैव*-अब्रह्मण एव । *ज्ञेयत्वेउपास्यत्वेन ज्ञानविषयत्वे । *वाव्यमिति । यस्योपासनं भवति, स एव प्राप्यते नान्य इति भावः । *आख्यातेन-अभिसम्भवितास्मीत्येघटकेनाख्यातेन । *बाधादिति ) कर्मकर्तृसंज्ञयोराकडारीयत्वेन बाध्यबाधकभावस्य सत्वात् । ननु 'पच्यते