________________
सुबर्थनिर्णयः ।
१६९
कर्मकर्तृतायाञ्च यगाद्यापत्तिरिति शब्दविरोधद्वारा भवति स भेदहेतुः ।
एवञ्च व्यापारांशस्य धातुलभ्यत्वादाश्रयमात्रं तृतीयार्थः । कारकचक्रप्रयोक्तृत्वं, कृत्याश्रयत्वं वा, दण्डः करोतीत्यत्रा व्याप्तम् ।
दर्पणः
दिति । सञ्ज्ञयोराकडारीयतया समावेशाऽसम्भवेन परया कर्तृसज्ञया बाधादित्यर्थः । *यगाद्याऽऽपत्तिरिति । अभ्युच्चयवादः । प्राप्ये कर्मणि कर्मवद्भावाऽप्रसक्तेः । शब्दविरोधद्वारा - एकदा सज्ञाद्वय प्रयुक्तकार्य्याऽनुत्पत्तिद्वारा, सः - सञ्ज्ञद्वयविरोधस्तत्र कर्त्तृकर्मत्वव्यवहारभेदहेतुरित्यर्थः । न तु कर्त्तृत्वकर्म्मत्वयोः पारमार्थिक भेदमादायेति भावः ।
ननु विशिष्टाश्रयस्य तावत् तृतीयाऽर्थत्वमायातमत आह—*एवञ्चेति । धातूपात्तव्यापाराश्रयस्य कर्त्तृत्वे चेत्यर्थः । *आश्रयमात्रमिति । अनन्यलभ्यत्वादिति भावः । मतान्तरं दूषयति — कृत्याश्रयत्वमित्यादिना* | * अव्याप्तमिति । अचेतने तस्मिंस्तद्वाधादिति भावः ।
अत्र वदन्ति — दण्डादिनिष्ठव्यापारस्य धात्वर्थत्वविवक्षया भवदुक्तस्वातन्त्र्यवत् वास्तवकारकचक्रप्रयोक्तृत्वस्य दण्डादावभावेऽपि तदारोपात्कर्तृत्वव्यवहारस्तस्मिन् सूपपादः । अत एव हरिणा
प्रागन्यतः शक्तिलाभान्न्यग्भावाऽऽपादनादपि । तदधीनप्रवृत्तत्वात् प्रवृत्तानां निवर्त्तनात् ॥ अदृष्टत्वात्प्रतिनिधेर्व्यतिरेके च दर्शनात् । आरादप्युपकारित्वे स्वातन्त्र्यं कर्त्तरिष्यते ॥
इत्यनेन करणादिव्यापारात् पूर्व करणादिसम्पादकशक्तिमत्वेन करणादीनामात्माधीनत्वसम्पादनेन च तदायक्तव्यापारत्वेनाऽतिप्रवृत्तानां निवर्त्तनेन कर्त्तुः फलप्राप्तौ स्वत एव निवृत्त्या प्रतिनिध्यभावेन कारकान्तराभावेऽप्यस्त्यादौ कर्त्तुर्दर्शनेन च दूरादप्युपकारित्वेऽपि स्वातन्त्र्यमित्यर्थकेन कारकचक्रप्रयोक्तृत्वमेव स्वातन्त्र्यमभिहितम् ।
वस्तुत एषां धर्माणामभावेऽपि शब्देन यस्यते प्रतिपाद्यन्ते स कर्त्तेति तदाशयः । 'पाचयति मैत्रेण चैत्र' इत्यादौ प्रयोज्यस्य प्रयोजकव्यापाराधीनत्वेऽपि णिच्प्रकृत्यर्थसाधनान्तरविषये उक्तस्वातन्त्र्यस्य सत्त्वात् कर्तृत्वोपपत्तिः । धातुवाच्यक्रिया कृतपरीक्षा
तण्डुलः स्वयमेव' इत्यन्नैकस्योभयरूपत्वं दृष्टमेवेत्यत आह-* -*कर्मकर्त्तृतायामिति* । अभ्युपगम्यवादोऽयम् उक्तार्थकत्वे - एवमुक्त्यसम्भवात् । *सः* – कर्मकर्तृव्यपदेशः । *भेदहेतुः *-उपास्योपासकयोर्भेदहेतुः । एतेन संज्ञयोर्विरोध उपास्योपासकयोर्भेदप्रयोजको, नतु तयोर्वास्तवो भेद इति दर्शितम् ।
एवं च धात्वर्थव्यापाराश्रयस्य कर्तत्वे च । मानान्तरं दूषयति-कारकचक्रे ति* । *अव्याप्तमिति । दण्डस्या चेतनत्वेन द्विविधमपि कर्तृत्वं तत्र न सम्भवतीति भावः । २२ द० प०