________________
१७०
दर्पणपरीक्षासहिते भूषणसारे
दर्पणः
स्वातन्त्र्यस्यैव विवक्षणात् कर्तुपरतन्त्रकरणादेर्न स्वव्यापारमादाय कर्तुत्वम्, प्रयोज्यस्य स्वार्थसिध्यमर्थपि प्रवृत्या करणादीनां कर्बधीनत्ववत् प्रयोज्यस्य प्रयोजकाऽनधीनत्वाच्च । न हि फलोद्देशाऽधीना करणादीनां व्यापारवत्ता । प्रयोज्यस्य तु तादृशप्रवृत्तौ “सर्व इमे स्वभूत्यर्थं प्रवर्तन्ते” इति "हेतुमति च” इतिसूत्रस्थभाष्यमनुभवश्व सार्वजनीनः प्रामाणमित्याहुः।। ___ कृत्याश्रयत्वं. दण्डादावव्याप्तमित्युक्त्या नैयायिकोक्तकर्तत्वस्योपेक्षणीयत्वमावेदितम् । तेषां त्वयमाशयः-कर्तृत्वं मुख्यं पूर्वोक्तमेव, आश्रयप्रतियोगित्वादिरूपं तु गौणम् , उभयमपि कर्तृतृतीयया प्रतिपाद्यते । ___ तथाहि-'चैत्रेण पच्यते' इत्यादौ कृतिमदभेदेन तज्जन्यत्वं वा क्रियाविशेषणतया तृतीयया भिधीयते । अचेतनकाष्ठादेरपि कर्तृत्वविवक्षायां तु काष्ठं पचतीतिवत् 'काष्ठेन पच्यते तण्डुल' इत्यत्रापि प्रयोगाद् व्यापाररूपे कर्तृत्वे तज्जन्यत्वरूपे सकर्तृकत्वे वा तस्य लक्षणा । एवं 'चैत्रेण ज्ञायते' इत्यादावाश्रयत्वरूपे कर्तृत्वे आवेयत्वरूपे कर्तृमत्वे वा नश्यते घटेन' इत्यादौ प्रतियोगित्वात्मककर्तृत्वे अनुयोगित्वरूपकर्तृमत्वे वा लक्षणा । 'चैत्रः पचति'इत्यादावुक्तस्थले कर्तृत्वमेव मुख्यं गौणं वा क्रियाविशेष्यतया. ऽऽख्यातेन बोध्यते। अचेतने स्वरसतः कर्तृव्यवहाराभावेन तत्र कर्तृपदमपि भाक्तमेव । ___ नच यत्नवत एव मुख्यकर्तृत्वे तदादायैव "कर्तृकरणयोः" (पा० सू० २३।।६२ ) इत्यादेश्चारितायें गौणकर्तृत्वे तृतीयाद्यनुपपत्तिरिति वाच्यम्। तत्सूत्रस्थकर्तृपदस्य पारिभाषिककर्तृपरत्वात्। तत्सूत्रप्रणयनस्यैव तत्परत्वे मानत्वात् । सूत्रे स्वातन्त्र्यं च समभिव्याहृतकारकान्तराऽनधीनत्वे सति कारकत्वम् । पुरुषव्यापाराऽधीनक्रियाऽनुकूलव्यापारवतामेव काष्ठादीनामन्यानधीनत्वविवक्षया 'काष्ठं पचति इत्यादौ कर्तृ. त्वम् । अनधीनत्वान्तविशेषगं च 'चैत्रः काष्ठः स्थाल्यां पचति इत्यत्र 'चैत्रः काष्टानि स्थाली पवन्ति इति प्रयोगवारणाय चैत्रः पचति, स्थाली पचतीत्यादौ यत्र कारकान्तराप्रसिद्धिस्तत्रानधीनान्तविशेषणं न प्रतीयत एव । तन्निर्वाहश्च स्वतन्त्रशक्तिकल्प. नात् । विशिष्टशक्तविशेषणविषयकविशेष्यबोधाजनकत्वात् । विशिष्टशक्त्या निर्वाहात्। चैत्रेण पाचयतीत्यादौ हेतुकर्तृसमभिव्याहारे प्रयोज्यस्य हेतुकर्बधीनत्वेऽपि ण्यन्तप्रतिपाद्यपाचनादिक्रियायामेव प्रयोजकस्य कारकतया प्रयोज्यस्य पच्याद्यर्थक्रियाकारकाऽनधीनताया अवैकल्येन न तद्वाचकपदोत्सरं तृतीयानुपपत्तिः । स्वतन्त्रकर्तृप्रयोजकव्यागरस्य तण्डुलक्रयणादिवत् पाकादावन्यथासिद्ध त्वादकारणत्वेन तस्य पाकादिप्रयोजकव्यापारवत्वेऽपि तत्क्रियाकारकत्वाभावाच्च । अत एव 'चैत्रेण मैत्रः पाचयति' इत्यत्र, मैत्रः पचतीति न। - नन्वस्तूपदर्शितरीत्या चैत्रादेः स्वतन्त्रकर्तृतानिर्वाहः, तथापि तद्वाचकपदोत्तरं तृतीयाऽनुपपत्तिः कर्तृवनिर्वाहकव्यापारस्य णिजर्थत्वेन स्वतन्त्रनिष्टस्य तस्य णिचाs. भिधानादिति चेद् ? न ।
कर्तृत्वनिर्वाहकत्वसम्बन्धेन पाकाद्यन्वितहेतुकर्तृव्यापारस्य णिजयंतापक्षेऽदोषात्। कर्तृत्वरूपफलाऽवच्छिन्नव्यापारस्स्य णिजयंतामतेऽपि तदुपरक्ताश्रयस्थाऽन्यतो मानानिर्वाणानभिधानस्याऽक्षतत्वात् । अबोधनस्यैव तत्राऽनभिधानपदार्थत्वादभि