________________
......सुबर्थनिर्णयः
१७१ :: अयञ्च त्रिविधः-शुद्धः, प्रयोजको हेतुः, कर्मकर्ता च । 'मया हरिः सेव्यते' 'कार्यते हरिणा' 'गमयति कृष्णं गोकुलम्' । मदभिन्नाश्रयको हरिकर्मक सेवनानुकूलोज्यापारः। हर्यमिन्नायकउत्पादनानुकूलो व्यापारः। गोकुलकर्मकगमनाऽनुकूलकृष्णाश्रयकताद्वशव्यापाराऽनुकूलो व्यापारः इति शाब्दबोधः । करणतृतीयाया
दर्पणः धानस्य "
तिकृतद्धित्तसमासैः” इति परिगणनाच्च । आख्यातस्य धर्म्यवाचकत्वेऽपि कृत्यादिविशिष्टकर्तृबोधकत्वरूपाऽभिधानस्य तत्र सत्वान्न 'चैत्रः पचति' इत्यादौ तृतीयाऽऽपत्तिः । मुख्यविशेष्यतया तद्विवक्षायां 'चैत्रेण पचति इत्यादिप्रयोगापत्तिरित्यपिन । आश्रयातिरिक्त विशेषणतया कृतिबोधनस्यैवाऽनभिधानपदार्थत्वात् । तथाभिधानं च 'लकृत्तद्धितसमासैः एवेति त एवाभिधायकतया वृत्तिकृतोपात्ताः। - यद्यपि स्वतन्त्रव्यापार एव तृतीयादेरनुशासनम् , तथापि कृतिरूपकर्तृत्व एव लाघवाच्छक्तिर्व्यापारादौ तु लक्षणेत्युक्तमनुशासनस्याऽनादितात्पर्य्यमात्राग्राहकत्वाल्लाघवसहकृतस्यैव तस्य शक्तिकल्पकत्वात् । व्यापारे तत्सत्वेऽपि गौरवेण तदसिद्धेः।
एवञ्च कृतिरूपकर्तृत्वबोधस्थले कारकान्तरव्यापारानधीनत्वं न प्रतीयत एवेति न तदन्तर्भावेण शक्तिः । प्रमाणाऽभावात् । व्यापारलाक्षणिककर्तृप्रत्ययेन लक्षणया तदन्तर्भावेण व्यापारबोधनादेव पूर्वोक्तातिप्रसङ्गस्य वारणात् । अन्यथा तदन्तर्भावेण कृती शक्तावपि पूर्वोक्तातिप्रसङ्गस्य दुष्परिहरत्वात् । 'घटो जायते 'ओदनः सिध्यति' इत्या. दौ घटादेः कारकत्वं कर्तृत्वं च सत्कार्यवादमवलम्ब्यैवोपपादनीयम् ।
मुख्य क्रियाकर्तृत्वं च न तदनुकूलकृतिमात्रम् । एकक्रियाविषककृतेर्यत्र नान्तरीयंककियानिर्वाहस्तत्र तत्क्रियाकर्तृत्वाऽव्यपदेशात् । किन्तु तक्रियाविषयकत्वे सति तदनुकूलकृतिस्तत्कर्तृत्वम् । गुरुतरभारात्तोलनादौ तु यत्र क्रियाया अनिष्पत्तिस्तत्र गतिरुक्कैव । अन्योद्देशेन नाराचक्षेपाद् यत्र ब्राह्मणवधस्तत्र मरणाऽनुकूलनाराचक्षेपरूपव्यापारस्य कृतिविषयत्वेऽपि हिंसा । लक्षणस्योद्देश्यताघटिततया तस्य विप्रमरणानुकूलव्यापारत्वेनानभिसंहितत्वात्तेन रूपेण कृतिविषयत्वस्य तादृशव्यापारे असत्त्वेन न ब्राह्मणत्वविशिष्टवधकर्तृत्वं तादृशव्यापारकर्तुरिति न सम्पूर्ण प्रायश्चितं तस्येति ॥
कर्तृविभागमाह-*अयञ्चेति । अनुपदं तृतीयार्थत्वेन निरुक्तः कर्तेत्यर्थः । *शुद्ध इति । हेतुत्वकर्मकर्तृत्वानधिकरणमित्यर्थः । प्रेरणार्थकणिप्रकृतिधातूपात्तव्यापाराश्रय इति यावत् । हेतुरिति । णिजर्थप्रेरणाश्रय इत्यर्थः । *कर्मकर्तेति । धातूपात्तव्यापाराऽऽश्रयत्वे सति णिजर्थव्यापारेणाऽऽप्यमानत्वेन विवक्षित इत्यर्थः । क्रमेणोदाहरणान्याह-*मया हरिः सेव्यत इत्यादिना* । अत्र व्यापारविशेष्यबोधोत्की
. परीक्षा *अयम्*, कर्ता । आधे हरिः शुद्धः कर्ताः द्वितीये प्रयोजककर्ता, तृतीये-कृष्णः कर्मकर्ताः प्रत्यर्थे प्रति कर्ता णिजथे प्रति कर्म । कैयटानुरोधेन त्रिषु स्थलेषु बोधप्रक्रिया• माह-*मदभिन्नेत्यादिना*। *करणतृतीयाया इति। करणे विधीयमानतृतीयाया