________________
१७२ दर्पणपरीक्षासहित भूषणसारेस्त्वाश्रयव्यापारौ वाच्यौ । तथाहि-"साधकतमं करणम्" (पा० सू० १।४४९)। तमबर्थः प्रकर्षः । सचाव्यवधानेन फलजनकव्यापारवत्ता । तादृशव्यापारवत्कारणञ्च करणम् । उक्तञ्च वाक्यपदीये
क्रियायाः परिनिष्पत्तिर्यदु व्यापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम् ॥
दर्पणः र्तनं तु कैयटानुसारेण । तत्वं तु प्रागेवाऽवोचाम। *स्वाश्रयव्यापाराविति ॥
ननु व्यापारस्य धातुत्वेनैव लाभात् तत्र शक्तिकल्पनमपार्थमित्याशङ्ककस्य कर्तृनिष्ठव्यापारस्य धातोर्लाभेऽप्यनुभूयमानकरणनिष्ठव्यापारस्य पदार्थत्वमन्तरेण शाब्दविषयतयाऽनुपपत्त्या शक्तिरावश्यकी । आख्यातानिवृत्तिभेदाया एव क्रियाया अवगमाद् व्यापारद्वयस्य धात्वर्थत्वासम्भवाच्चेत्यभिप्रेत्य. स्वोक्तार्थस्य सप्रमाणतां दर्शयितुं करणसंज्ञाप्रतिपादक सूत्रमुपन्यस्यति-*तथाहीत्यादिना । "साधकतमम्" इति सूत्रस्य कारकाधिकारीयत्वात् सूत्रोपात्त साधकशब्दादेव प्रकर्षलाभेऽपि गौणाधाराधिकरणसंज्ञाफलकस्य "कारकप्रकरणे शब्दसामर्थ्यगम्यः प्रकर्षों नाश्रीयत' इत्यर्थस्य बोधनाय तमबुपादानमिति सूचयन्नाह-*तमबर्थः प्रकर्ष इति । प्रकर्षश्चकारकान्तरापेक्षो न तु करणान्तरापेक्षः । कारकसामान्यवाचिसाधकशब्दादुत्पन्नेन तमपा तदवधिकप्रकर्षस्यैव द्योतनात् 'तेनाश्वेन दीपिकया व्रजति' इति प्रयोगोपपत्तिः । अन्यथा करणान्तराऽपेक्षिकप्रकर्षस्य करणान्तरे अभावेन तदनुपपत्तेः ॥ *तादृशेति । फलोत्पत्त्यव्यवहितपूर्ववर्तीत्यर्थः।
परे तु-फलायोगव्यवच्छिन्नकारणत्वं करणत्वम् । स्वव्याप्येतरयावत्कारणसमषधाने सति यदव्यवहितोत्तरक्षणे फलनिष्पत्तिस्तत्त्वमिति यावत् । स एव तृतीयार्थः । सत्यन्तनिवेशाच्चक्षुषोऽन्धःकारे फलाऽयोगेऽपि न तत्राऽप्रसङ्गः । प्रयोजकेऽतिप्रसङ्गनिरासायाऽव्यवहितेति वदन्ति ॥ - तत्र हरिसम्मतिमप्याह-*उक्तञ्चेति । अत्र क्रियापदं फलपरम् । 'बाणेन हत' इत्यत्र बाणव्यापाराव्यवहितोत्तरक्षणे प्राणवियोगरूपफलाऽवश्यम्भावाल्लक्षणसमन्वयः। विवक्ष्यते इत्यनेन विवक्षव विभक्ता प्रयोजिका, न वास्तवकरणत्वादिसत्तेत्युक्त
परीक्षा इत्यर्थः । स च प्रकर्षश्च अप्रकर्षश्च कारकान्तरापेक्षया बोध्यः, नतु करणान्तरापेक्षया । कारकसामान्यवाचकसाधकशब्दात्तमपो विधानात् , तेन अश्वेन दीपिकया पथा व्रजतीति प्रयोगस्योपपत्तिः, राजा चक्षुरिन्द्रियेण चाराणां प्रवर्तनं कृत्वा शत्रूणां सैनिकानवकलयति यत्र, तत्र राजा चक्षुषा परसैनिकान् पश्यतीति प्रयोगापत्तिवारणायाव्यवधानफलकन्तमब्ग्रहणम् तस्य कारकाधिकारात् कारकजाते सिद्धे पुनः साधकशब्दोपादानादेवसाधकतमस्य लाभो भविष्यतीति वैयर्थ्यमिति यदि ब्रूषे ? तदा कारकाधिकारे 'शब्दसामर्थ्यगम्यः प्रकर्षा नाश्रीयते' इत्यर्थज्ञापकतया चारितार्थ्य बोध्यम् । तेन गौणाधारस्याप्यधिकरणसंज्ञेत्यन्यत्र विस्तरः।
अव्यवधानेन फलोत्पादकवतः करणसंज्ञायां हरिसम्मतिमाह-*उक्तं चेत्यादिना*। *क्रियाया:*-फलस्य, *अनन्तरम्*-अनन्तरकाले, विवक्ष्यते* इत्यनेन विवक्षया .