________________
..... सुबर्थनिर्णयः । . वस्तुतस्तदनिदेश्यं न हि वस्तु व्यवस्थितम् । .......
स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः ॥ इति ।विवक्ष्यत इत्यनेन सकृदनेकेषां तदभावात् द्वितीयासप्तम्यादेरवकाशं
दर्पणः म् । अत एव दात्राऽनादरेण बलस्य तत्त्वविवक्षायां, बलेन लुनातीति प्रयोगः । *वस्तुत इति। यत इदमेव वस्तु करणमिति न नियमोऽत एव निश्चिताऽधिकरणत्वाऽपि स्थाली तनुतरकपालत्वाद्वेवक्षिककरणत्ववतीत्यर्थः। *अवकाशमिति । 'तण्डुलं स्थाल्यां पचति' इत्यादौ करणत्वाऽविवक्षायां न तत् संज्ञाप्रयुक्तद्वितीयादेरवकाशमित्यर्थः । तथाच 'काष्ठैः पचति इत्यादौ प्रकृत्यर्थकाष्ठादेरभेदेनाश्रयरूपतृतीयाऽर्थेऽन्वयः। तस्य च व्युत्पत्तिवैचित्र्येण समानप्रत्ययोपात्तत्वप्रत्यासत्त्या व्यापाररूपतदर्थान्तरे आधेयतासम्बन्धेन फलोपहिततादृशव्यापारस्य चानुकूलतासम्बन्धेन विक्लित्त्यनुकूलव्यापारे । एवञ्च काष्टाऽभिन्नाश्रयको यः फलोपहितव्यापारस्तद्विशिष्टो विक्लित्त्यनुकूल एकाश्र. यको वर्तमानो व्यापार इति बोधः। वैशिष्टयं च-जन्यजनकभावसम्बन्धेन बोध्यम् । अत्र च “यत्सन्निहितेषु सर्वेषु कारकेषु कर्ता प्रवर्त्तयिता भवति" इति सकलकारक. व्यापारस्य कर्बधीनत्वप्रतिपादक, “कारके" इति सूत्रस्थं भाष्यं प्रमाणम् ॥ . : अपरे तु-'क्रियायाः परिनिष्पत्तिर्यव्यापारादनन्तरम्' इति वाक्यस्थाऽनन्तरपदस्वारस्यात् तृतीयार्थव्यापारस्य जन्यतासम्बन्धेन फलेऽन्वयः । तथाच जन्यतासम्बन्धेन काष्ठाश्रयकव्यापारविशिष्टफलानुकूलो व्यापार इति बोधमाहुः । तृतीयार्थकरणत्वस्य व्यापार एवाऽन्वयः, शब्दशक्तिस्वभावान्न फलांशे। अत एव मत्वर्थलक्षणया सोमादिपदस्य नामधेयत्वं सिद्धान्तितम् । अन्यथा व्यापार प्रति करणत्वेनान्विते फलांशे करणत्वेनाऽन्वयोपपत्तो लक्षणाया अप्रसङ्ग एव । अत एव सोमेन यजेता इत्यत्र मत्वर्थलक्षणेति मीमांसका इत्यन्ये। ... वस्तुतस्तु "आश्रयोऽवधिरुद्देश्य" इति मूलस्वारस्यात्. करणतृतीयाया अप्याश्रयमात्रमर्थः । प्रकृत्यान्वितस्य स्वनिष्ठव्यापारजन्यत्वसम्बन्धेन धात्वर्थव्यापारे। न्वय इत्येव ज्यायः।
नैयायिकास्त्वसाधारणं कारणं करणम् । कारणे असाधारण्यं च-व्यावारवत्त्वमेव। न तु फलाऽयोगव्यवच्छिन्नत्वम् । तस्य यावत्कारणघटिततया गौरवेण तद्धर्माऽवच्छिन्ने शक्तयसिद्धः । स एव च प्रकर्षः "साधकतमम्" इति तमपा बोध्यते । व्यापारस्य तज्जन्यत्वविशिष्टतज्जन्यजनकत्वरूपतयाऽव्यवधानांशस्यापि जनकत्वघटकतया ला
परीक्षा एवान करणत्वादिव्यवहारनियामकतेति ध्वन्यते।
एतदेव स्पष्टयति-*वस्तुत इति। वस्तुनीत्यर्थः । *तत्*-करणत्वादिषट्कम् । *अनिर्देश्यम् ,-इदं वस्तुकरणमेवेत्येवंप्रकारेण निर्देष्टुमशक्यम् । *हि*यतः, *वस्तु व्यवस्थितं न*-करणत्वादिरूपेण व्यवस्थितं नास्तीत्यर्थः। निश्चिताधिकरणत्वादपि स्थाल्याः अधिकरणत्वेनाविवक्षायां करणत्वेन तु विवक्ष्यत इति तात्पर्यम् , तदाह-*स्थाल्येति ।
*तदभावादिति* । करणत्वाभावादित्यर्थः । *अवकाशमिति । यदा काष्ठस्यैव क