SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १७४ दर्पणपरीक्षासहिते भूषणसारेसूचयति । नचैवं "कर्ता शास्त्रार्थवत्वात्” (ब्र०सू० २।३।३३) इत्युत्तरमीमांसाधिकरणे "शक्तिविपर्ययात्" इति सूत्रेणान्तःकरणस्य कर्तृत्वे करणशक्तिविपर्ययापत्तिरुक्ता न युज्यतेति वाच्यम्। 'तदैतेषां प्राणानां विज्ञानेन विज्ञानमादाय" इति श्रुत्यन्तरे करणतया क्ल दर्पणः भात् । तत्र पृथक्शक्त्यभावेन व्यापारमात्रं करणतृतीयार्थः । तस्मिन् प्रकृत्यर्थस्याधेयतासम्बन्धेनाऽन्वयः । शेषं पूर्ववदित्याहुः। *एवमिति । एकस्मिन्नपि धर्मिणि कर्त्तकरणशक्तयोरविरोध इति यावत् । *शक्तिविपर्ययादिति । 'एष हि द्रष्टा श्रोताऽनुमन्ता बोद्धा विज्ञानाऽऽत्मा पुरुष' इत्यादीनां तथा कः कर्त्तव्यविशेषप्रतिपादकानां यजेत जुहुयादित्यादीनां च सार्थक्याय जीवस्य, “कर्ता शास्त्रार्थवत्त्वात्" इत्यनेन कर्तृत्वे बोधिते बुद्धिपदव्यवहा. ये विज्ञानमेवाऽस्तु कत्रित्याशङ्कायां विज्ञानशब्दवाच्यबुद्धेः कर्त्तत्वाऽभ्युपगमे लोके समर्थस्याऽपि कर्तुः सर्वाऽर्थकारिकरणान्तरसापेक्षस्यव कार्यकारित्वदर्शनेन विज्ञानपदव्यपदेश्यत्वबुद्धेः करणशक्तिहान्यापत्तिरतस्तदतिरिक्तजीवस्यैव कर्तृत्वमुचितमित्यर्थप्रतिपादकेन, “शक्तिविपर्ययात्" इति सूत्रेणेत्यर्थः। ___ *न युज्यतेति । कर्तृकरणशक्तयोरविरोधस्यैव भवद्भिरभिधानादिति भावः । *तदेतेषामिति । *प्राणानाम्-इन्द्रियाणां, विज्ञान-ग्रहणशक्ति, विज्ञानेन-विज्ञानशब्दवाच्येन मनसा तजन्यबुद्धयात्मकप्रवृत्त्येति यावत् । आदाय-गृहीत्वा हृदयं स्वापे गच्छतीति श्रुत्यर्थः। ___ *करणतयेति । विज्ञानेनेत्यत्र करणतया क्लुप्तस्येत्यर्थः। निष्प्रमाणेत्याः कर्तरि करणशक्तिस्वीकारेऽपि द्वयोः शक्तयोरेकदा विवक्षायामसम्भवेन "विज्ञानं यज्ञं तनुते" परीक्षा रणत्वविवक्षा, तदा 'काष्ठैः स्थाल्यां तण्डुलं पचति' इति भवति । *नचैवम्-विवक्षाया एव नियामक वे। *कतेंति । तत्र हि बुद्ध्यात्मकस्य विज्ञानस्य कर्तृत्वं जीवस्य वेति सन्देहे जीवस्यैवेन्युत्तरपक्षसाधकेयमुक्तिः। *जीवः*-कर्ता, शास्त्रस्य-विधिनिषेधशास्त्रस्य, *अर्थवत्वात्*-उपपन्नत्वात्। । प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा।। पुंसो येनोपदिश्येत शास्त्रं शास्त्रविदो विदुः॥ इति शास्त्रलक्षणम् । नित्येन श्रुत्या, कृतकेन स्मृत्या, जीव एव विहितंक निषिद्धं चाकर्तुमलम् । एवं रीत्या जीवस्य कर्तृत्वं व्यवस्थाप्य विज्ञानस्याकर्त्तत्वे युक्तिरुक्ता। *शक्तिविपर्ययेति । विज्ञानस्य कर्त्तत्वे करण वशक्तिविलोपापत्तिः, करणस्याकर्तृत्वादिति भावः । विज्ञानम्*-बुद्धिः । *न युज्यतेति । यथा करणस्यापि काष्ठस्य काष्ठं पचतीत्यत्र कर्तत्वं भवतीत्यत्र करणत्वकर्तत्वशक्तरविरोधः, तथेहापि भविष्यतीति भावः । तदेवेतेषामिति । तदा स्वापकाले विज्ञानेन मनसा तजन्यबुद्ध्यात्मकवृत्या करणभूतया एतेषामिन्द्रियाणां प्राणपदवाच्यानां विज्ञानमादाय ज्ञानजननशक्तिमादाय तिष्ठति । करणतया क्लप्तस्य विज्ञानस्य इत्याशयात् , शक्तिविपर्ययापत्तिरित्यस्याशयात् ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy