________________
..... सुबर्थनिर्णयः ।
१७५ सस्य कर्तृतां प्रकल्प्य शक्तिविपर्ययापत्तिनिष्प्रमाणा कल्प्येतेत्यभिप्रायात् ।
वस्तुतस्तु अन्वाचंयमात्रमेतदिति, “यथा च तक्षोभयथा"
'दर्पणः
इत्यादौ कर्तृत्वविवक्षायां करणशक्तिविवक्षाप्रयुक्तविज्ञानेनेति तृतीयान्तनिर्देशादपादानाऽसम्भवेन तद्विपर्ययप्रसङ्गाभावादित्याशयादित्यर्थः। ___नन्विदमयुक्तम् , आपादनप्रतिपादकग्रन्थस्यैवापत्तावप्रामाण्यप्रतिपादकत्वाऽसम्भवात् , आपत्तेः प्राक्तनसूत्रादप्रक्रान्तत्वाञ्चेत्यत आह-*वस्तुतस्त्विति । *अन्वाचयमात्रमेतदिति । एतत्-शक्तिहान्यापत्तिरूपं दूषणम् । मात्रपदेन तात्पर्यविषयत्वस्य व्यवच्छेदः । अन्वाचयत्वं च, तात्पर्य्यज्ञानविषयाऽर्थसन्निहितत्वम् । उपेक्षाविषयत्वं वा । तच्च बुद्धेः करणशक्तिविपर्ययेऽस्ति । दृष्टान्तप्रतिपादकसूत्रादू बुद्धः कर्तृत्वनिरासस्यव मुख्यत्वावगतेरिति भावः। . भूषणे तु तदेतेषामित्याद्यभिप्रायादित्यन्तः पाठो नास्त्येव । नन्वं कर्तेत्यादिः न युज्यतेति चेत् ? सत्यम् । 'अन्वावयमात्रमेतद् इति पाठः । *अन्वाचयेति । विज्ञानशब्दार्थस्य जीवत्वे शक्तिविपर्यायापत्तिः सम्भाव्यते, न तु निर्भरस्तत्रेत्यर्थः । उपाधिवशेन परमात्मन्येव तत्सम्भवादिति भावः । तदेव विशदयति-*यथा चेति । सूत्रे च-शब्दस्त्वर्थे, पराऽभिमतबुद्धिकर्तृत्वनिरासाऽर्थः । न हि परमात्मनोऽन्यो जीवो नाम कर्ता भोक्ता वा सम्भवति। नित्यशुद्धबुद्धमुक्तात्मनः कर्तृत्वाऽऽद्यसम्भवादनिमोक्षप्रसङ्गाच्च । • किन्तु “ध्यायतीव लेलायतीव" इति श्रुतरेध्यस्तं तत्तत्र वाच्यम् । अविद्योपस्थापितं तत् परस्यापि सम्भवति । “यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति" इति श्रुतेः विद्याऽवस्थायां तु तदभावो “यत्र तु सर्वमात्मैव स्यात्, किं केन पश्येत्।
परीक्षा यद्वा-इता जीवस्य कर्तृत्वं पदस्य लौकिकक्रियासु कर्तृत्वं व्यपदिशति-विज्ञान यज्ञं तनुते' कर्माणि तनुत इति। .. . ननु विज्ञानशब्दो बुद्धौ समधिगतः कथमेतेन जीवस्य कर्तृत्वं सूच्येतेति चेद् ? उच्यते-जीवस्यैवैष निर्देशो न बुद्धेः । नचेज्जीवस्य स्यात्ततो विपर्ययः स्यात् । विज्ञानेनेत्येव निहिश्येता तथा पत्र बुद्धिविवक्षायां विज्ञानशब्दाकरणविभक्तिनिर्देशो दृश्यते। तदेतेषां प्राणानां 'विज्ञानेन विज्ञानमादाय' इति । इह तु कर्त्तसामानाधिकरण्येन निर्देशाद् बुद्धिव्यतिरिक्तस्यैवात्मनः कर्त्तत्वं सूच्यत इत्यदोष इति श्रुतिष्टान्तत्वेनोपात्ता भाष्ये। । नन्विदमयुक्ततापत्तेरप्रक्रान्ततयाऽस्यापादनप्रतिपादनपरग्रन्थस्याप्रामाण्यापत्तिरत आह-*वस्तुतस्तु अभ्युच्चयेति । *अभ्युच्चयमात्रम्-अन्वाचयमात्रम् । *एतत्-शक्तिहान्यापत्तिरूपदूषणम् । मात्रपदेन तात्पर्यविषयत्वव्यवच्छेदः । अन्वाचयत्वं च-तात्पर्यज्ञानविशेष्यार्थसन्निहितत्वम् । बुद्धेः करणत्वे शक्तिविपर्ययापत्तिप्रतिपादनग्रन्थस्य बुद्धेः कर्तत्वनिरास एव तात्पर्यमित्येव कल्प्यते इति । *यथा च तक्षोभयथेति । तथाचोभयरूपत्वसम्भवान्न तद्विरोधोनावनं दूषणतामावहति । तत्र