________________
१७६ दर्पणपरीक्षासहिते भूषणसारे(ब्र०सू०२।६।४०) इत्यधिकरणे भाष्य एव स्पष्टमित्यादि प्रपश्चितं भूषणे ॥ .. सप्तम्या अप्याश्रयोऽर्थः। “सप्तम्यधिकरणे च" (पासू०२।३।३६) इत्यधिकरणे सप्तमी । तच "आधारोऽधिकरणम्" (पासू०१।४।३४) इति सूत्रादाधारः । तत्त्वश्चाश्रयत्वम्। तत्राश्रयांशः शक्यः। तत्त्वमवच्छेदकम् । नचाश्रयत्वमात्रेण कर्तृकर्मकरणानामाधारसंज्ञा स्यात् । स्यादेव यदि ताभिरस्या न बाधः स्यात् । “कारके" (पा० सू०१।२३) इत्यधिकृत्य विहितसप्तम्या:क्रियाश्रय इत्येव यद्यपि
दर्पणः
इति श्रुतेः । यथा तक्षा वास्यादिकरणहस्तः कर्ता दुःखी भवति, स एव गृहस्थो विमु. क्तवास्यादिनिर्व्यापारः सुखी भवतीति तदर्थः । तथाच शक्तिविपर्ययादित्यस्य पराभ्युपगतबुद्धिकर्तृत्वनिरासे तात्पर्य्यम्, न तु बुद्धः कर्तृत्वेन करणशक्तिपरित्याग इति न तदूविरोध इति भावः ॥ . - सप्तम्यर्थनिरूपयति-*सप्तम्या अपीति* । ननु तावता सूत्रादोधारस्य वाच्यत्वं लभ्यते, नाश्रयस्येत्यत आह-*तत्वञ्चेति । आधारत्वं चेत्यर्थः । *आश्रयत्वमिति* आश्रयत्वविशिष्टत्वमित्यर्थः । विशिष्टे सूत्रेण शक्तिबोधनेऽप्याश्रयांऽश एव सा, न तु विशेषणीभूताश्रयत्वेऽपि । तत्प्रकारकशाब्दबोधे आश्रयशक्तिज्ञानस्य हेतुताकल्पनयैव तदानोपपत्तेरित्याशयेनाह-*तत्राश्रयांशः शक्य इति । यद्वा ननु तावता परम्परया क्रियाश्रयस्य सप्तम्यर्थत्वं लब्धं, नाऽऽश्रयमात्रस्येत्यत आह-*आश्रयांश इति* पूर्वोक्तरीत्या क्रियाया धातोरेव लाभादनन्यलभ्याश्रय एव शक्य इत्यर्थः । तत्त्वम्आश्रयत्वम् । *आश्रयत्वमात्रेणेति। शक्यताऽवच्छेदकस्य कादिसाधारण्यात् करणतृतीयायाश्च व्यापारोऽपीत्यपिना आश्रयार्थकत्वप्रतिपादनादिति भावः॥
..... परीक्षा दृष्टान्तस्य तक्ष्णः प्रदर्शनेन स्वाभाविकमेवात्मनः कर्तत्वमग्नेरूष्मत्वमिव । यथा लोके तक्षा वास्यादिकरणयुक्तः कर्ता भवति दुःखी भवति ततो गृहं प्राप्नोति,विमुक्तवास्यादिकरणः स्वस्थो निवृत्तव्यापारः सुखी भवत्येवमविद्याप्रत्युपस्थितद्वैतसम्पृक्त आ. त्मा स्वप्नजागरितावस्थयोः कर्ता दुःखी भवति तत्क्लमापनुत्तये तमात्मानं परब्रह्म प्रविश्य वियुक्तसङ्गः सुखी भवतीति । तक्षा दृष्टान्तश्वांशेन द्रष्टव्यः। तथाहि-सत्सु तक्ष्णादिव्यापारेषु वास्यदिनोपपत्यैव कर्ता भवति। एवमयमात्मा सर्वव्यापारेषु मन आदीन्यपेक्षैव कर्ता भवतीति विज्ञेयम् । *भाष्ये*-शाङ्करभाष्ये। तथा च बुद्धःकरणशक्तिविपर्यासे न तात्पर्यम् , किन्तु पराभ्युपगतबुद्धिकर्त्तत्वनिरास एवेति हृदयम् । ____ *तच्च*-अधिकरणं च । तच्च*-आधारत्वं च । *आश्रयांश इति । क्रिया. या धात्वर्थत्वादाश्रयांश एव शक्यः । *तत्त्वम्*-आश्रयत्वम् । क्रियाधारमावस्याधिकरणसंज्ञा चेद् कर्तृकर्मणोरप्यधिकरणसंज्ञप्राप्नोतीत्याशङ्कां निराचष्टे-*नचेत्यादिना* । *आधारसंक्षेति । आधारस्य संज्ञाऽऽधारसंज्ञा, आधारस्य विधीयमाना ऽधिकरणसंज्ञेत्यर्थः । *ताभिः कर्मकर्तृकरणसंज्ञाभिः । *अस्याः-अधिकरण