________________
सुबर्थनिर्णयः।
१७७
तात्पर्यम् , तथाप्यत्र कर्तृकर्मद्वारा तदाश्रयत्वमस्त्येव स्थाल्यादेर्भूतलकटादेश्चेति 'स्थाल्यां पचति' 'भूतले वसति, 'कटे शेते' इत्याधुप. पद्यते । उक्तञ्च वाक्यपदीये
कर्तृकर्मव्यवहितामसाक्षाद्धारयत् क्रियाम् ।
उपकुर्खतक्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् ॥ इति । एतञ्च त्रिविधम् । औपेश्लेषिक, वैषयिकमभिव्यापकञ्च । 'कटे शेते' 'गुरौ वसति' 'मोक्षे इच्छास्ति' 'तिलेषु तैलम् ' इति एतच "संहितायाम्" (पासू०६।१।७२) इति सूत्रे भाष्ये स्पष्टम् ।
दर्पणः *कर्तृकर्मद्वारेति । एतादृशार्थलाभश्च तत्सूत्रसामर्थ्यादेव । तथाहि-कारकाधिकारीयेणैतेन क्रियाऽन्वय्याधारस्याऽधिकरणसंज्ञा विधीयते। क्रिया च धात्वर्थः । साक्षात्तदाधारयोः पराभ्यां कर्तृकर्मसंज्ञाभ्यामाक्रान्तत्वादिदं सूत्रमनवकाशं सत्परम्प. रया धात्वर्थाश्रयस्याधिकरणसंज्ञाविधानेन चरितार्थम् । परम्पराघटके च कर्तृकर्मणी एवेति परया कर्मसंज्ञया बाधादेव, मोक्षे इच्छास्तीतिवन्मोमे इच्छतिभवतीति न प्रयोगः॥ ___ *औपश्लेषिकमिति । सामीप्यसम्बन्धनिबन्धनमित्यर्थः । सामीप्यस्यापि संयुक्तसंयोगरूपतया संयोगपदेन तस्याऽपि सङ्गहात्, आधेयव्याप्यतावच्छेदकयत्किञ्चिदवयवकमिति यावद् । वैषयिकमिति । विषयतासम्बन्धनिरूपकमित्यर्थः । *अभिव्यापकमिति* । आधेयव्याप्यतावच्छेदकयावदवयवकमित्यर्थः । तत्राद्यस्य 'कटे शेते' 'गुरौ वसति' इत्युदाहरणे, द्वितीयस्य-मोक्षे इच्छास्तीति, अन्त्यस्याऽन्त्यम् । 'कटे शेते' इत्यत्र परम्परया कटाभिन्नाश्रयकः शयनाऽनुकूलो व्यापार इति बोधः । एवमन्यत्राऽप्यूह्यम् ॥ *भाष्ये स्पष्टमिति । तत्र हि संहिताधिकारखण्डनाय "संयोगः शक्योऽवक्तुम् ।
परीक्षा संज्ञायाः । *कर्त्तकर्मद्वारेति । अयमर्थश्च सूत्रारम्भसामर्थ्याल्लभ्यते। कारकाधिकारात् क्रियाजनकस्याधारस्यषा संज्ञा, तत्र साक्षात् क्रियाया आधारस्ताभ्यां संज्ञाभ्यामाक्रान्त इति परम्परयाधारे सूत्रारम्भादेषा पर्यवस्यति। ___ अत्रार्थे हरिसम्मतिमाह-*उक्तञ्चेति । कतकर्मव्यवहितामित्यनेन परम्पराघटके कर्तकर्मणी इति सूचितम् ।।
*औपश्लेषिकमिति । उपश्लेषः संयोगस्तत्कृतमित्यर्थः । “तत आगत' इत्यर्थे प्रत्ययः, अत्र उपेत्यविवक्षितं श्लेषमात्रे तात्पर्यम् । यत्र कटे वस्त्राथन्तरिते शेते तत्र कटे कर्तुः संयुक्तसंयोगस्य सत्त्वेऽपि तस्य संयोगाभिन्नत्वमेव । एवं 'गुरौ वसति इत्यत्र 'मासे दीयते'मसिकमित्यादौ च बोध्यम् । *वैषायिकम्*-विषयतासम्बन्धप्रयोज्यम् । *अभिव्यापकमिति । आधेयत्वनिष्ठावच्छेदकतासम्बन्धावच्छिन्नव्याप्यतानिरूपितसमवायसम्बन्धावच्छिन्नव्यापकम् । अत्र यावदवयवमादाय व्याप्यव्यापकभाव उपपादनीयः । 'कटे शेते' गुरौ वसतीत्याद्यस्य । मोक्षे-इच्छास्तीति द्वितीयस्य । तिलेविति तृतीयस्योदाहरणम् । *भाष्ये स्पष्टमिति । तत्र हि-संहिताधिकारखण्डना
२३ द० प०