________________
दर्पण परीक्षासहिते भूषणसारे -
अवधिः पञ्चम्यर्थः । “अपादाने पञ्चमी” (पा०सू०२।३।२६) | तश्च ध्रुवमपायेऽपादानम्" ( पा०सू०२|४ | ०४ ) इति सूत्राद्, अपायो-विश्लेषस्तज्जनकक्रिया, तत्रावधिभूतमपादानमित्यर्थकादवधिभूतमिति भावः । उक्तञ्च वाक्यपदीये -
१७८
दर्पण:
afaari नाम त्रिप्रकारं व्यापकमौपश्लेषिकं वैषयिकमिति । इक्शब्दस्य अच्छब्देन कोsन्योऽभिसम्बन्धो भवितुमर्हत्यन्यदत उपश्लेषात् "इको यणचि” उपश्लिष्टस्येति तत्राऽन्तरेण संहिताग्रहणं संहितायामेव भविष्यति । इत्युक्तम्' अत्रोपश्लि पदाध्याहारेण सप्तमीत्यर्थे इदमेव भाष्यं मानम् । संहितायामित्युपलक्षणम् । “तत्र च दीयते कार्य्यं भववत्" इत्यादिसूत्रस्थभाष्यस्यापि । तत्राऽधिकरणत्रैविध्यप्रतिपादनादिति ॥
नैयायिकास्तु-संयोगेनाधारः समवायेनाधार इत्याद्यनुगतप्रतीतिबलादाधारत्वमखण्डोपाधिः । संयोगादिरूपं तु न तत् । कुण्डसंयोगिनो बदरादेरपि कुण्डाधारतापत्तेः ।
ननु बदर प्रतियोगित्व विशिष्टसंयोगानुयोगितायाः कुण्डाधारताव्यवहारनियामकत्वाऽभ्युपगमान्नोक्तदोषो, न वा कुण्डे कुण्डसंयोगाऽनुयोगितासत्त्वेऽपि कुण्डे कुण्डमिति प्रतीत्यापत्तिः । कुण्डप्रतियोगिकत्वविशिष्टसंयोगानुयोगितायास्तत्र विरहादिति चेदेवमपि मल्ले मल्लाऽन्तरसंयोगसत्त्वे उक्तानुयोगिताध्रौव्यान्मल्ले मल्ल इति व्यवहारापत्तेरशक्यवारणत्वेनोक्तप्रकारस्यैवाऽनुसर्त्तव्यत्वात् । तथाच तादृशमाधारत्वमाधेयत्वं वा सप्तम्यर्थः । कस्याधारत्व इत्याकाङ्क्षायां क्रियानिरूपितस्य तस्य बाधादुपस्थितत्वात् कर्तृकर्मणोराधार एव सेति तयोरेव तदन्वयः ।
'भूतले घट' इत्यादौ न यत्र क्रियाश्रवणं तत्राऽपि कारकत्वनिर्वाहाय तदध्याहारस्यावश्यकता । ईदृशस्थले परम्परासम्बन्धस्याऽपि क्रियाऽन्वयित्वरूपकारकत्वघटकता, शास्त्रप्रामाण्यात् । अत एवाऽक्षशौण्ड इत्यादौ सामर्थ्योपपत्तिः । एवञ्च भूतले घटोऽस्तीत्यत्र भूतलवृतिर्घटो वर्त्तमानसत्ताऽऽश्रय इति बोधः । नञ्समभिव्याहारे तु तादृशसप्तम्यर्थाभाव घटांशे भासत इत्याहुः ॥
पञ्चम्यर्थं निरूपयति-*अवधिः पञ्चम्यर्थ इति । *विश्लेष इति । विभाग इत्यपरीक्षा
वसरे संयोग: शक्यो वक्तुम् । अधिकरणं नाम त्रिप्रकारकं भवति । व्यापकमौपश्लेषिक वैषयिकमिति । इक् शब्दस्याच्छब्देन कोऽन्योऽभिसम्बन्धो भवितुमर्हत्यन्यदत उपश्लेषात् "इको यणचि” उपश्लिष्टस्येति तत्रान्तरेण संहिताग्रहणं संहितायामेव भविष्य ति" इत्युक्तम् । एतद्भाष्यदर्शनेन यत्र यत्र कार्यविधौ सप्तमी दृश्यते । तत्रोपश्लिष्टपदाध्याहारेण सा साध्येति बोध्यम् ।
अथ पञ्चम्यर्थमाह-*अवधिरिति । “अपादाने पञ्चमी” इत्यस्यापादानकार के पञ्चमी भवतीत्यर्थादपादानं पञ्चम्यर्थः । *तच्च - अपादानञ्च । *तज्जनकेति * - वि श्लेषजनकेत्यर्थः । ध्रुवपदार्थमाह-*अवधिभूतमिति ।
अत्र हरेः सम्मतिमाह - *उक्तञ्चेति । चलं वा यदि वाचलमित्यनेन ध्रुव