SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४१६ दर्पणपरीक्षासहिते भूषणसारे___ ननुत्वन्मतेऽप्येष दोषः।तत्तद्वर्णोत्पादकत्वेनाभिमतवायुसंयोगानां प्रत्येक व्यञ्जकत्वं समुदितानां वेति विकल्पस्य सम्भवादिति चेद् ? उच्यते-प्रत्येकमेव संयोगा अभिव्यञ्जकाः, परन्तु केचिद् गत्वेन, केचिदौत्वेन, केचिद्विसर्गत्वेनानेकैः प्रकारैः । मत एव वर्णानां तदतिरेकास्वीकारोऽप्युपपद्यते। दर्पणः कैयटाऽनुयायिनस्तु-पूर्वपूर्ववर्णकाले चेदू द्वितीयादिवर्णोत्पत्तिः सम्भवेत् ! तदा स्यादपि कथञ्चिद्भवदुक्तरीत्या पदवाक्यप्रत्यक्षनिर्वाहः । सैव न, किन्तु याव. दूगकारे वाग् वर्तते न तावदौकारे ; येनैव यत्नेनैको वर्ण उच्चार्य्यते । तेनैव विच्छिन्ने तस्मिन् वर्णे उपसंहृत्य तं यत्नमन्यमुत्पादाय द्वितीयः प्रवर्त्तते” इति, “परः सन्निकर्ष" ( पा०सू० १।४।१०४ ) इति सूत्रस्थभाष्यप्रामाण्यात् पूर्ववर्णविनाशानन्तरं यत्नान्तरेण द्वितीयवर्णाऽभ्युपगमात् । किञ्च भवन्मते वर्णप्रत्यक्षस्यैवाऽनुपपत्तिः । तेषामुच्चरितप्रध्वंसित्वेन तदुत्पत्तेरभिव्यक्तेर्वा क्षणिकत्वेनातीन्द्रियक्षणावच्छिन्नत्वात्। तथाच "इको यणचि” ( पा०सू० ६।११७७ ) इत्यादिसूत्रोपयोगिनोऽयं पूर्वोऽयं पर इति प्रत्यक्षविषयार्थकेदंशब्दाभिलप्यमानपौर्वापर्यस्य व्यवहारस्यासम्भवः । एवं नष्टविद्यमानयोः सम्बन्धिनोरव्यवहितोत्तरत्वस्य सम्बन्धताया वक्तुमशक्यतयापि पूर्वोक्तरीत्या पदप्रत्यक्षानुपपत्तिः। अपिच गृहीतशक्तिकस्यैव बोधकत्वमितिनियमेनोच्चारणभेदागिन्नेषु शक्तिग्रहासम्भवः । आनुपूर्व्यास्तत्तत्कालघटिताव्यवहितोत्तरत्वघटितत्वेनाऽननुगतत्वाच्छक्ततावच्छेदकत्वासम्भवात् । अखण्डस्फोटाऽङ्गीकारे तु तत्तद्वर्णोपाध्यवच्छिन्ने तस्मिन् पौर्वापादिव्यवहारविषयत्वस्य सूपपादत्वानोक्ताऽनुपपत्तिः। तस्य चाऽनुपूर्व्यन्तर्गतसमस्तवर्णा एव यद्यभिव्यञ्जकास्तथापि चरमवर्णाभिव्यक्त एव स बोधहेतुरिति नोक्तविकल्पस्याऽप्यवसर इत्याहुः । ननु वायुसंयोगानां प्रत्येकमभिव्यञ्जकत्वाभ्युपगमेऽपिगौरित्यत्र घत्वेन टत्वेन च स्फोटोऽभिव्यज्यतेत्यत आह-*परन्त्विति । तथाच विलक्षणवायुसंयोगस्य गत्व. प्रकारकस्फोटाभिव्यञ्जकत्वाभ्युपगमान्नोक्तदोष इति भावः । *अत एवेति। विलक्षणवायुसंयोगस्य तत्तद्रूपेण स्फोटाभिव्यञ्जकत्वाऽभ्युपगमादेवेत्यर्थः । *तदतिरका. परीक्षा अत एव तत्तत्कालघटितायाः पूर्वोत्तरवर्णघटितानुपूर्वी तस्या असम्भवेन शक्ततावच्छेदकत्वासम्भव एवेति स्फोटस्तावदखण्डः स्वीकार्य्यः। तत्तद्वर्णोपाध्यवच्छिन्ने तस्मिन्नारोपित एव पौर्वापर्य्यादिसद्भावः । नित्ये ब्रह्मणि अन्तःकरणोपाधिभेदेन तत्तज्जीवव्यवहारवद् व्यवहारः, तस्य च स्फोटस्य चरमवर्णाभिव्यक्तस्यैवार्थबोधकत्वं कल्प्यते । कार्यकारणभावस्य फलबलकल्प्यत्वादिति कैयटाशयमाहुः। ननु वायुसंयोगस्य प्रत्येक व्यञ्जकत्वे गौरित्यत्र गकाराभिव्यक्तिकाले घत्वेन टत्वेन कुतो नाभिव्यञ्जकतेत्यत आह-*परन्तु केचिदिति । तथा च वैलक्षण्यविशिष्टानामेव फलात्स्फोटाभिव्यञ्जकत्वं कल्प्यते । *अत एव*-विलक्षणवायुसंयोगस्य तत्तद्रूपेण स्फोटाभिव्यञ्जकत्वादेव । *तदतिरेकास्वीकार इति । तत्तद्वायुसंयोगादेव कत्वादि
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy