________________
अखण्डस्फोटनिर्णयः। - एवञ्चाव्यवहितोत्तरत्वसम्बन्धेन घवत्त्वं टकारे गृह्यते । एतादृशपदज्ञानकारणताया अविवादात् । परं त्वव्यवहितोत्तरत्वं स्वज्ञानाधिकरणक्षणोत्पत्तिकज्ञान विषयत्वं वाच्यम् । अत एव घज्ञानानन्तर. टज्ञानविषयत्वरूपानुपूर्वीत्यादिनैयायिकवृद्धानां व्यवहारः । एवञ्च न कश्चिदोषः। एतेन पर्यायस्थलेष्वेक एव स्फोटो, नाना वा ? नाद्यः ।
दर्पणः स्वीकार इति । तत्तत्संयोगादेव कत्वादिप्रकारकककारप्रतीत्युपपत्तौ स्फोटातिरिक्ततत्कल्पने मानाभावादिति भावः।
ननु सरो रस इत्यादावतिप्रसङ्गस्तदवस्थ एव,सत्त्वादिरूपेणाभिव्यञ्जकवायुसंयोगानामुभयत्र तौल्यादत आह-*एवञ्चेति । *घवत्त्वमिति । तथा चौपाधिकभेदमादाय तस्मिन्नेव टकारात्मके घत्वप्रकारकप्रतीतिविषयाव्यवहितत्वग्रहविषये यथा घटपदव्यवहारविषयता तथा रात्मके स्फोटे सत्त्वप्रकारकप्रतीतिविषयाव्यवहितत्वग्रहे सर.पदव्यवहारविषयतेति न सरआत्मकस्फोटस्य रसरूपतेति भावः। __ननु तव मते गकारादिवर्णस्य नित्यस्फोटरूपतया नित्यत्वेन तवंसाधिकरणक्षणाऽनुत्पत्तिकत्वविशिष्टतदधिकरणक्षणोत्पत्तिकत्वरूपाऽव्यवहितोत्तरत्वासम्भवात् कथमुक्तप्रकारसम्भवोऽत आह-*परं त्विति । तथाच वर्णानां नित्यत्वेऽपि तदभिव्यक्तरनित्यत्वस्य सांख्यानामपि सम्मतत्वेन तदव्यवहितोत्तरत्वस्य वर्णान्तराभिव्यक्तावबाधेन तदादाय घटादिपदप्रत्ययोपपत्तिरिति भावः। *अत एवेति । अभिव्यक्तिनिरूपिताऽव्यवहितोत्तरत्वस्यानुपूर्वीव्यवहारनियामकत्वादेवेत्यर्थः।
नवीनैस्तथानभ्युपगमादाह-वृद्धति*। *एतेनेति । आनुपूर्व्यवच्छिन्नवर्णात्मकस्फोटस्य वाचकत्वव्यवस्थापनेनेत्यर्थः । अपास्तमित्यनेनाऽन्वयि । *स्फोट इति । वाचकत्वेनाऽभिमताखण्डपदार्थ इत्यर्थः। *नाद्य इति । नैक इत्यर्थः ।
. परीक्षा प्रकारकककारादिविशेष्यकप्रतीतिनिर्वाहात्स्फोटातिरिक्तककारादिकल्पनाभावोऽप्युपपद्यत इत्यर्थः।
नन्वेवं सरो रस इत्यत्रोक्तातिप्रसङ्गस्तादवस्थ्यम् । सत्वेन रत्वेन चाभिव्यञ्जकवायुसंयोगानान्तौल्यात् । अतस्तदोषम्परिहर्तुं व्यवस्थामाह-*एवम्चेति । उपाधिभेदाद् धकारटकारयोर्भेदः स्फोटभेदकल्पकस्तत्र घवत्त्वं टकारे यथा कल्प्यते; तथा सर इत्यत्रापि तथैव कल्पनया सत्त्वं रेफे ततः सविशिष्टरत्त्वं विसर्गे गृह्यते; रस इत्यत्र तु वैपरीत्येन ग्रह इति तदर्थविशेषप्रतिपत्युपपत्तिरिति भावः । . ......
ननुभवन्मते स्फोट एव चेद धकारटकाररूपः, तदाद्यध्वंसाधिकरणक्षणानुत्पत्तिकत्वे सति घकाराधिकरणक्षणध्वंसाधिकरणक्षणोत्पत्तिकत्वरूपं घकाराव्यवहितोत्तरत्वं टकारे न सम्भवतीति कथं घवत्वं णकार इत्यत आह-*परमिति*। *एवञ्च* । ज्ञानघटितस्याव्यवहितोत्तरत्वस्य निर्वचने च अभिव्यक्तिनिरूपिताव्यवहितोत्तरत्वमेवानुपूर्वीसम्पादकन्तमादायैव शक्ततावच्छेदकस्य तत्तत्स्थले कल्पना कार्यो। ...... *एतेन*-उक्तप्रकारसिद्धानुपूर्व्यवच्छिन्नस्फोटस्यवाचकत्वव्यवस्थापनेन । *स्फोट ५३ द० ५०