________________
४१८ दर्पणपरीक्षासहिते भूषणसारेघटपदे एव गृहीतशक्तिकस्य कलशार्बोधप्रसङ्गात् । नच तत्पर्यायाभिव्यक्त शक्तिग्रहस्तत्पर्याय श्रवणेऽर्थधीहेतुरिति वाच्यम् । एवं सति प्रतिपर्यायं शक्तिग्रहावश्यम्भावेन तत्तत्पर्यायगतशक्तिग्रहहेतुताया उचितत्वात् । तथा सति शक्तिमहत्वेनैव हेतुत्वे लाघवाच्च । अन्यथा तत्पर्य्यायाभिव्यक्तगतशक्तिग्रहत्वेन तत्त्वे गौरवात् । न द्वितीयः। अनन्तपदानां तेषां शक्ति चापेक्ष्य क्लुप्तवर्णेष्वेव शक्तिकल्पनस्य लघुत्वादिति परिमलोक्तमपास्तम् । पर्यायेष्वनेकशक्तिस्वीका
दर्पणः तत्पक्षे दूषणमाह-*घटपद इति। घट इत्यानुपूर्व्यवच्छिन्नस्फोटे गृहीतशक्तिकस्ये. त्यर्थः। कलशपदादित्यस्यागृहीततदवच्छिन्नस्फोटशक्तिकादित्यादिः । *बोधप्रस. ङ्गादिति । घटबोधक्लप्तकारणताककलश इत्यानुपूर्व्यवच्छिन्नस्फोटस्य तदानीं सत्त्वान्नित्यैकरूपत्वात् तस्य वर्णसमुदायरूपपदस्य वाचकत्वे तु नोक्तदोष इति भावः ॥ *अर्थधीहेतुरिति*॥ उक्तस्थलेचाऽस्यास्फोटस्य कलशरूपपव्यताभिव्यक्त्यवच्छिन्नशक्तिग्रहविषयत्वाभावान्न अर्थबोधप्रसङ्ग इति भावः। *एवमिति ॥ तत्पर्य्यायजन्यशाब्दबोधे तत्पर्यायाभिव्यक्त्यवच्छिन्नशक्तिग्रहस्य हेतुत्वाभ्युपगम इत्यर्थः ॥ *शक्तिग्राहावश्यम्भावेनेति ॥ 'नागृहीतविशेषण'न्यायेन तत्पर्य्यायशक्तिग्रहस्यावश्यमभ्युपेयत्वादिति भावः ॥ *उचितत्वादिति ॥ औचित्यमेवाह-*तथा सतीति॥ *शक्तिमहत्वेनेति ॥ तत्पर्य्यायगतशक्तिग्रहत्वेनेत्यर्थः ॥ *लाघवादिति ॥ उक्तरूपाऽपेक्षयैतस्य कारणतावच्छेदकत्वे लाघवादित्यर्थः ॥ *चो-हेतौ । पूर्वकल्पे गौरवं प्रकाशयति-*अन्यथेति ॥ उक्तिवैचित्र्यमेतत् ॥ *न द्वितीय इति ॥ पर्यायस्थले स्फोटनानात्वमित्यपि पक्षो नेत्यर्थः ॥ अनन्तेति ॥ प्रतिपर्यायभिन्नानां स्फोटानां कल्पनामित्यर्थः । *शक्तिमिति । तद्भेदभिन्नानन्तशक्तिकल्पनां चापेक्ष्येत्यर्थः ॥ *लघुत्वादिति ॥ तथाच वर्णातिरिक्तस्फोटकल्पनाऽपार्थेति तद्भावः ॥ *पर्यायेष्विति* ॥ एकधर्मावच्छिन्नबोधकनानापदेष्वित्यर्थः ।। *अनेकेति ॥ पर्यायभेदभिन्नेत्य
परीक्षा
इति । वाचकत्वाभितोऽखण्डः पदार्थ इत्यर्थः । श्बोधप्रसङ्गादिति । प्राग्गृहीतशक्तिकस्यैव स्फोटस्य तेनाभिव्यक्त्याऽर्थप्रतीतिप्रसङ्गादिति भावः । सामग्रीविशेषस्य कायविशेषनियामकत्वकल्पने नोक्तातिप्रसङ्गवारणं भविष्यतीत्याशयिकामुक्तिन्निरस्यति*न चेत्यादिना । *अवश्यं भावेनेति । तत्तत्पर्यायाभिव्यक्तगतशक्तिग्रहत्वेन कारणत्वावश्यभावे तत्तत्पर्यायगतशक्तिग्रहत्वेनैव कारणत्वमुचितमिति भावः। *लाघवा. चेति । चो हेतौ। *न द्वितीय इति । पर्यायस्थले स्फोटस्य नानात्वमिति पक्षो नेत्यर्थः । *पदार्थानान्तेषाम् । प्रतिपर्यायभिन्नानां स्फोटानाम्। *शक्तिञ्चेति । स्फोटभेदेन भिन्नानन्तशक्तिकल्पनामित्यर्थः । *लघुत्वादिति । एवञ्च वर्णातिरिक्तस्फोटकल्पना मुधैवेति भावः । *पर्यायेष्विति । एकधर्मावच्छिन्नवाचकनानापदेष्वित्यर्थः। शक्ततावच्छेदकभेदेन शक्तिभेदस्यान्याय्यत्वादिति भावः। *अनेकेति। पर्या