________________
अखण्डस्फोटनिर्णयः ।
४१९ रस्य सर्वसिद्धत्वात् तदवच्छेदकानुपूाः प्रागुपपादनादिति दिक् ।
दर्पणः र्थः ॥ *सर्वसिद्धत्वादिति । तथाच पायेषु नानाशक्तिकल्पना नापूव्येति न दोषः। __ अयमाशयः-वर्णाः स्फोटाऽभिव्यञ्जका इति स्वीकारे भवदुक्तदूषणस्यावसरोः न तु स्फोटस्य वर्णानतिरेकपभे, तत्र पृथक्शक्तिकल्पनाया अभावेन गौरवासम्भवात् । पर्यायशक्तिग्रहकार्य्यताऽवच्छेदककोटावव्यवहितोत्तरत्वनिवेशेन व्यभिचारवारणं तूभयोः सममिति ।
ननु त्वन्मते स्फोटानतिरेकेण वर्णानां नित्यत्वादुत्पत्तिघटिताव्यवहितोत्तरत्वस. म्बन्धेनोत्तरवर्णेषु पूर्वपूर्ववर्णवत्त्वरूपशक्ततावच्छेदकानुपूर्व्यसम्भवोऽत आह-*तदवच्छेदकेति* । शक्ततावच्छेदकेत्यर्थः। *प्रागिति* । स्वाऽभिव्यक्त्यधिकरणक्षणोत्पत्तिकाऽभिव्यक्तिविषयत्वमितिग्रन्थेनेति शेषः । ननु वर्णानां नित्यत्वाभ्युपगमे नित्यवर्णेरेव स्फोटकार्योत्पत्तौ स्फोटस्यैवाऽसिद्धिः। तथाहि-आनुपूर्व्या भवद्भिरे. वोपपादितत्वात्तद्विशिष्टानां तेषां पदत्वेन तत्प्रत्यक्षस्य सोलभ्येन शक्तिग्रहस्य सूपपपादत्वात्तदेवेदं पदं तदेवेदं वाक्यमिति प्रत्यभिज्ञोपपत्तेश्चेत्यत आह-*दिगिति ।
परीक्षा यभेदभिन्नेत्यर्थः । *सर्वसिद्धत्वादिति । तथा चरममापूर्वकल्पनाप्रयुक्तन्दूषणम् । __ अयमत्राभिसन्धिः-यदि वर्णाः स्फोटस्याभिव्यञ्जका इति पक्ष एवास्मन्मते स्यात्तदा पर्यायभेदेन स्फोटस्य भेदो वापर्य्यायभेदेऽप्येकत्वं वेति विकल्पेन भवदुक्त. दूषणावसरः स्यात्, तथा तु न मम मतम्, किन्तु स्फोटानतिरिक्ता वर्णा इत्येव प्रागुक्तम् । एवञ्च स्फोटस्यकत्वात्तत्र पृथक् शक्तिकल्पना नेति न भवदुक्तगौरवस. म्भावना। नचैवं घटपद एवं गृहीतशक्तिकस्येत्यादिनोक्ताद्यपक्षदूषणमेवेति वाच्यम्। स्फोटभेदेऽपि तदभिन्नत्वे कल्पितानां घटकलशादिशब्दानां तत्तद्वर्णभेदेन कल्पितभेदवान् घटपदं घटे शक्तमित्याधाकारकग्रहे विशेष्यत्वेन तादृशज्ञानानाम्भेदादव्यवहितोत्तरत्वसम्बन्धेन तत्तज्ज्ञानवैशिष्टयस्य कार्य्यतावच्छेदकशरीरे निवेशेनोक्तदोषपरिहारात्। तत्तत्कारणवैशिष्ट्यनिवेशप्रयुक्तगौरवन्तु स्फोटानङ्गीकर्त्तमतेऽपीति न तदुद्भाव
नाहमिति ।
ननु स्फोटस्य नित्यत्वेन तदभिन्नवर्णानामपि नित्यत्वादुत्पत्तिध्वंसघटिताव्यवहितोत्तरत्वघटितानुपूर्व्यापि वक्तुमशक्यमिति शक्ततावच्छेदकालाभोऽत आह-*तदवच्छेदकेति । प्रागुपपादनादिति । अभिव्यक्तिघटिताया आनुपूर्व्याः प्रागुपपादनादित्यर्थः । ननु यदि वर्णा नित्यास्तदा भवदुक्तरीत्याऽभिव्यक्तिघटिताया आनुपूर्व्याः प्रागुपपादनादित्यर्थः ।
ननु यदि वर्णा नित्यास्तदा भवदुक्तरीत्याऽभिव्यक्तिघटितानां तेषामानुपूर्वी कल्पनीया। तस्याश्च शक्ततावच्छेदकत्वङ्कल्प्यम् । तद्विशिष्टानामेव तेषां वर्णानाम्पदत्वं वाक्यत्वं वाऽस्तु, नित्यत्वादेव तेषाम्प्रत्यक्षमपि भविष्यति । तत एव च तदेवेदम्पदं तदेवेदं वाक्यमिति प्रत्यभिज्ञाऽप्युपपत्स्यते, क्लुप्तस्फोटेनेत्यत आह-दिगिति । तदर्थस्तु-यदि स्वतन्त्रा नित्या वर्णाः स्युः, तदा भवदुक्तान्यथासिद्धिसम्भावनाया अबसरः स्यात्। तथा तु नास्ति; किन्तु कत्वादिना ज्ञायमानस्फोट एव ककार इत्य