SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४२० दर्पणपरीक्षासहित भूषणसारेशब्दकौस्तुभे.तु वर्णमालायां पदमिति प्रतीतेर्वर्णातिरिक्त एव दर्पणः तदथस्तु यदि स्वतन्त्रा नित्या वर्णाः स्युस्तदा स्यादेव तैः स्फोटाऽन्यथासिद्धिः । किन्तु कत्वादिना प्रतीयमानः स्फोट एव ककारादिवर्ण इत्यभ्युपगमेनोक्तान्यथासि. यऽसम्भवादत एव नानावर्णकल्पनाप्रयुक्तगौरवशङ्कापि नेति।। ____ ननु कोऽसौ स्फोटो यदनतिरिक्ता वर्णा इति चेद् ? अबाहुः-ईश्वरसिमक्षात्मकमायाबिन्द्वपरपर्यायत्रिगुणात्मकाव्यक्तप्रभवः शब्दब्रह्मापरनामा चेतनाधिष्ठितोऽनभिव्यक्तवर्णविशेषो रवः परादिशब्दैर्व्यवह्नियमाणो नादःस्फोट इत्युच्यते । स च सर्वगतोऽपि पुरुषस्य ज्ञातार्थविवक्षाधीनप्रयत्नाधिष्ठितमूलाधारस्थपवनेनाऽभिव्यक्तः परेति व्यवहियते । नाभिपर्यन्तमागच्छता तेनाऽभिव्यक्तः पश्यन्तीति। पुनर्हृदयमागच्छता तेनाऽभिव्यक्तः पश्यन्तीति । पुनर्हृदयमागच्छता तेनैवाऽभिव्यक्तस्त. तदर्थोल्लेखिज्ञानविषयः परश्रोत्राग्राह्यत्वात् सूक्ष्मो मध्यमा वागिति। वक्त्रा तु कर्णपिधाने सूक्ष्मतरवाय्वभिघातेनोपांशुशब्दप्रयोगे च श्रूयते । स एव चाऽऽस्यपर्यन्त. मागच्छता तेन वायुना कण्ठदेशं गत्वा मूर्धानमाहत्य परावृत्त्य तत्तत्स्थानेष्वभिव्यक्तः परश्रोत्रेणाऽपि ग्रहीतुं शक्यो वैखरीति व्यवहियते । उक्ताऽथें प्रमाणं च___"चत्वारि वाक् परिमितानि पदानि। तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा श्रीणि निहिता नेङ्गन्यन्ति । तुरीयं वाचो मनुष्या वदन्ति” इति श्रुतिः । बिन्दोस्तस्माद्भिद्यमानाद्रवोऽव्यक्तात्मकोऽभवत्। स एव श्रुतिसम्पन्नः शब्दब्रह्मति गीयते ॥ इति पुराणवाक्यं च । भागवतेऽप्येकादशस्कन्धादौ स्फुटोऽयमर्थः। शिक्षायामपि आत्मा बुद्धया समेत्यान्मनो युङ्क्ते विवक्षया । मनः कायाऽग्निमाहन्ति स प्रेरयति मारुतम् ॥ सोदीर्णो मूय॑भिहतो वक्त्रमापद्य मारुतः । वर्णान् जनयतेइत्यनेन हृदयावच्छिन्नमध्यमायां यो नादांश आन्तरप्रणवरूपः, स एव वाचकः । "ओंकार एव सर्वा वाक् सैषा स्पर्शोष्मभिर्व्यज्यमाना नानारूपा भवति" इति श्रुतेः। सर्वप्राणिहृद्देशस्थत्वाच्च ब्रह्मपदव्यवहार्योऽपीत्यन्यत्र विस्तरः॥ *इति प्रतीतेरिति ॥ अन्यथा वर्णपरम्परारूपमालायास्तत्समूहरूपपदानतिरि परीक्षा भ्युपेयते। अत एव नानावर्णकल्पनाप्रयुक्तगौरवस्यापि न मम मतेऽवकाश इति । दीक्षितेनोक्तमनुवदति-*शब्दकौस्तुभे त्विति*। *वामालायाम्-वर्णपरम्परायाम् । *इति प्रतीतेरिति । आधाराधेयभावावगाहिप्रतीतेरित्यर्थः । अतिरिक्तस्फो. टानकीकारे वर्णपरम्परारूपमेव पदमित्यभेदे आधाराधेयभावावगाहिप्रतीत्यनुपपत्तिः स्यात् । अन्यथा प्रतीतेविभिन्नपदार्थासाधकत्वे 'कपाले घट' इति प्रतीत्या कपालातिरिक्तस्य घटस्य सिद्धिर्भवति । यदि प्रतातिः साधिका न भवेत् , तदा कपालघटयो दो न सिध्येत, कपालसंयोगरूपस्य कारणस्य कपालसमूहसाधकतयैवोक्तिरिति भावः । अन तुनाऽरुचिर्ध्वनिता । तथाहि-वर्णपरम्परातिरिक्तस्फोटानङ्गीकारेऽप्युक्तप्रतीत्यु
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy