________________
अखण्डस्फोटनिर्णयः।
४२१ स्फोटः । अन्यथा कपालातिरिक्तघटाद्यसिद्धिप्रसङ्गति प्रतिपादितम् ॥ ६॥
दर्पणः
कतयाऽऽधाराधेयभावावगाहिप्रतीत्यनुपपत्तिरिति भावः ॥ *अन्यथेति ॥ प्रतीतेः पदार्थासाधकत्व इत्यर्थः । *कपाले घट इति* ॥ प्रतीत्याभेदावगाहिन्या तसिद्धिः; प्रतीतेस्तदसाधकत्वे तु घटाद्यसिद्धिः स्पष्टैव । कपालतत्संयोगानादायैव तादृशप्रतीत्युपपत्तेरिति भावः ॥ कौस्तुभे विति तुशब्देनाऽरुचिः सूचिता। तद्वीजं तु वर्णातिरि
परीक्षा पपत्तिर्भवत्येव । आनुपूर्व्यवच्छिन्नानां वर्णानाम्मालारूपत्वमानुपूर्वीरूपपदस्य च तद्भि. नत्वमित्युक्तस्याधाराधेयभावस्योपपादयितुं शक्यत्वात् , प्रतीतेभेर्दासाधकत्वे कपालघटयो दो न सिद्धयेदितित्ववशिष्यते, तदपि न । कपालस्याल्पपरिमाणवदवयवजन्यत्वम् । घटस्य तु तदधिकपरिमाणवदवयवजन्यत्वमिति, कारणवैजात्याद्वैलक्षण्येन तयो)दस्य सिद्धेरिति ।
ननु कोऽसौ नित्यः स्फोटो यमाश्रित्योक्तव्यवस्थामुपपादयतीति चेत् ? प्रणवरूपम्ब्रह्मतत्वमेव स्फोट इति गृहाण । तथाहि-ईश्वरस्य सिसृक्षात्मिका या माया चिपाऽपरपर्याया व्यक्तरूपा तत्प्रभवः शब्दब्रह्मापरनामा चेतनेनाधिष्ठितोऽनभिव्यक्तवविशेषो रवपरादिशब्दे व्यवहियमाणे नाद एव स्फोट इत्यभिधीयते । स च यद्यपि सर्वगतः, तथापि पुरुषस्य ज्ञातार्थविवक्षया जायमानप्रयत्नविशेषेण मूलाधारस्य पवनेनाभिव्यक्तः परा इति व्यवतियते । नाभिपर्यन्तमागच्छता तेन पवनेनाभिव्यक्तः पश्यन्तीत्युच्यते। हृदयपर्यन्तमागच्छता तेनैवाभिव्यक्तस्तत्तदाकारज्ञानविषयः परपुरुषश्रोत्रेन्द्रियाग्राह्यत्वात्सूक्ष्म इत्यनेन शब्देनाभिधीयमानो मध्यमावागिति कथ्यते । स एव च वक्रा कर्णपिधाने सूक्ष्मतरवाय्वभिघातेनोपांशुशब्दप्रयोगे च श्रूयते । तत आस्यपर्यन्तमागच्छता तेन पवनेन कण्ठदेशङ्गत्वा मूर्द्धानमाहत्य परावृत्य तत्तत्स्थानेष्वभिव्यक्तः परपुरुषेणापि ग्राह्यो वैखरीवागित्यभिधीयते । तत्र भाष्योक्ता श्रुतिः प्रमाणम्
- चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः ।
गुहात्रोणि निहितानि नेङ्गायन्ति तत्तुरीयं वाचो मनुष्या वदन्ति" इति ॥ तथा पुराणेऽपि
बिन्दोस्तस्माभिन्द्यमानाद्रवो व्यक्तात्मकोऽभवत् ।
स एव श्रुतिसम्पन्नैः शब्दब्रह्मेति गीयते ॥ इति । शिक्षायामप्युक्तम्
आत्मा बुद्धया समेत्यान्मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ।
सोदीर्णो मूद्धभिहतो वक्त्रमापद्य मारुतः। वर्णान् जनयत इति।।
एवञ्च हृदयावच्छिन्नमध्यमायां यो नादांश आन्तरः प्रणवरूपः स एव वाचकः । "ओंकार एव सर्वा वागेषा स्पर्शीष्मभिर्व्यज्यपाना नानारूपा भवति" इति श्रुतेः । सर्वप्राणिहृदयदेशस्थत्वाच्च ब्रह्मपदव्यवहार्योऽपीति धेयम् ॥ ६८ ॥॥