________________
अखण्डस्फोटनिर्णयः।
४१५ कलज्ञानसम्भवस्तु सरोरसो राजजरा नदीदीनादिसाधारण इत्यतिप्रसङ्ग इति स्फोट एवाखण्डो नादाभिव्यङ्गयो वाचक इति कैयटः। तत्तुच्छम् । पदज्ञानसम्भवस्योपपादितत्वात् । वर्णानां प्रत्येकं व्यजकत्वं समुदितानां वेत्यादिविकल्पग्रासाश्च ।
दर्पणः नाशे सुषुप्तिप्राक्कालोत्पन्नज्ञानादिनाशे च व्यभिचारात्। किन्तु विजातीयगुणनाशे वैजात्यं चरमशब्दादिव्यावृत्तमिव प्राथमिकविशिष्टबुद्धिविषयवर्णव्यावृत्तमपि । नच तादृशवैजात्ये मानाभावः । नाश्यतावच्छेदककोटिप्रविष्टतयैव तत्सिद्धः। तथा. चान्तिमशब्दनाशेन द्वितीयक्षणस्यैव तादृशवर्णनाशेऽपि न तृतीयक्षणस्थतव्यक्तित्वेन हेतुत्वकल्पनान्न तृतीयक्षणस्थायिनस्तस्य प्रत्यक्षानुपपत्तिरुक्तहेतुहेतुमद्भावस्वीकारेऽपीत्याहुः।। ___ *अतिप्रसङ्ग इति । सरःशब्दघटकसकाराकाररेफविसर्गानुभवजन्यसंस्कारे रसबोधापत्तिरित्यर्थः । *नादाभिव्यङ्गय इति* । ध्वन्यन्तर्गतवर्णाभिव्यङ्गय इत्यर्थः । *अखण्डः-वर्णाघटितः। उपपादितत्वादित्यस्य सखण्डस्फोटनिरूपणावसर इति शेषः। तादृशप्रत्यक्षस्यान्तिमवर्णोशे लौकिकस्यातीतवर्णाशेऽलौकिकस्य सरो रस इत्याद्यनतिप्रसक्तस्योपपादित्वादित्यर्थः । अतिरिक्तस्य वाचकत्वे दूषणमाह-*वर्णानामिति । *विकल्पग्रासादिति । प्रत्येकव्यञ्जकत्वे आद्यवर्णादेव तदभिव्यक्तिसम्भवे इतरोच्चारणवैयापत्तेरतिप्रसङ्गाच्च । समुदायस्य तूक्तरीत्या दुरुपपादकत्वेन तव्यजकत्वस्याप्यसम्भवदुक्तिकत्वादित्यर्थः ।
परीक्षा संस्कारानुपपत्तिरित्याशयात् । *अतिप्रसङ्ग इति । सरःशब्दविघटकवर्णविषयकसंस्कारादू रस इति पदोच्चारणम् , तदापि सरःरसःप्रतीत्यापत्तिरिति रीत्याऽतिप्रसङ्ग इत्यर्थः । *नादाभिव्यङ्ग्य इति । नादो ध्वनिस्तमारोपविषयवर्णाभिव्यय इत्यर्थः । *उपपादितत्वादिति । प्रथमवर्णविशिष्टद्वितीयवर्णवत्त्वं तृतीयवर्ण इति रीत्या चरमवर्णविषयकं लौकिकमन्यवर्णविषयकमलौकिकम्पदज्ञानमित्यस्योपपा. दितत्वादित्यर्थः। ___ यदुक्तम्प्राङ् नादधर्मारोपविषयवर्णाभिव्यङ्ग्य इति, तद्विकल्प्य दूषयति-वर्णानामिति* । विकल्पग्रासादिति । एवञ्च प्रत्येक व्यञ्जकत्वे प्रथमवर्णमात्रश्रवणेऽप्यव्यक्त्यापत्तिः । समुदितानां व्यञ्जकत्वन्तु न सम्भवति, समुदायस्यैवासम्भवादिति भावः। ___ अपरे तु-पूर्वपूर्ववर्णसत्त्वक्षणे यदि द्वितीयादिवर्णोत्पत्तिः स्यात्तदा स्यादपि यथाकथञ्चित्पदवाक्यप्रत्यक्षम्, तत्तु न सम्भवति-पूर्ववर्णनाशानन्तरमेव द्वितीयवर्णोत्पत्तेः । तदुक्तम् "परः सन्निकर्षः संहिता" इति सूत्रभाष्ये-यावद्द्वकारे वाग्वर्त्तते न तावदोकारे, येनैव यत्नेनैको वर्ण उच्चायंते तेनैव विच्छिन्ने तस्मिन्वर्णे उपसंहृत्य तं यत्नमन्ययत्नमुपादाय द्वितीयः प्रवर्तते” इति ।
किञ्च-वर्णानामुच्चरितप्रध्वंसित्वादपि प्रत्यक्षासंभवः । किञ्च-पूर्वोक्तवर्णयोरव्यवधानमपि दुर्घटम् । सम्बन्धिनोराशुविनाशितयाऽव्यवधानरूपसम्बन्धासम्भवात् ।