________________
४१४
दर्पणपरीक्षासहिते भूषणसारे -
यस्य तु क्रमवतामाशुतरोत्पन्नानां तथैवाभिव्यक्तानां वा ज्ञानमसम्भाव्यमेव । पूर्वपूर्ववर्णानुभवसंस्कारसहकारेणैकदा समूहालम्बनरूपस
दर्पण:
दिस्फोटस्यैवास्माभिर्वाचकत्वाभ्युपगमादिति भावः । क्रमिकाणामपि स्थायिनां सहावस्थानादुक्तम्-*आशुतरेति ॥ तृतीयक्षणवृत्तिध्वंसप्रतियोगिनामित्यर्थः । आशुतरविनाशिनां सहोत्पन्नानां समुदायसम्भवादुक्तम् -*क्रमवतामिति ॥ *असम्भाव्यमेवे - ति*॥ प्रत्यक्षे तादात्म्येन विषयस्य हेतुतया समूहरूपविषयस्यैवाऽभावादिति भावः ॥
* पूर्वपूर्वेति* ॥ ननु वर्णानित्यतावादिमते तृतीयक्षणवृत्तिध्वंसप्रतियोगिनां तेषां प्रत्यक्षस्यैवासम्भवात् कथं तज्जन्यसंस्कारस्य सहकारितासम्भवः । तथाहि — कादि - प्रतीतिः ककारादौ विशेषणतया कादित्वमवगाहते । विशिष्टबुद्धौ विशेषणज्ञानस्य हेतुतया ककाराद्युत्पत्तिर्द्वितीयक्षणे निर्विकल्पकमभ्युपेत्य तृतीयक्षणे विशिष्टज्ञानं वाच्यम् । तत्र न सम्भवति ।
सम्बद्धं वर्तमानं च दृश्यते चक्षुरादिना ।
इति वृद्धोक्तेः । प्रत्यक्षे विषयस्य कार्य्यसहभावेन हेतुतया तृतीयक्षणे तद्वर्णरूपविषयस्याभावात् । न च ककाराद्युत्पत्तिक्षणोत्पन्नकत्वादिस्मृत्यैव द्वितीयक्षणे एव स विकल्पसम्भव इति वाच्यम् । एवमपि प्राथमिकविशिष्टबुद्धेर्दुरुपपादत्वादितिचेद् ?
अत्र वदन्ति । संसारस्यानादितया बालस्य स्तनपानप्रवृत्तिहेत्विष्टसाधनत्वस्मृतेरिव प्राथमिककत्वादिविशिष्टबुद्धिजन कस्मृतेः सम्भवान्न तदनुपपत्तिः । ककाराद्युत्पत्यनन्तरं ककारीयगकारवृत्तिविशिष्टबुद्धेरेव च तादृशकल्पने मानमिति ।
अन्ये तु प्रतियोगितासम्बन्धेन योग्यविभुविशेषगुणनाशं प्रति स्वसामानाधिकरय स्वाव्यवहितपूर्ववृत्तित्व उभयसम्बन्धेन यदि सामान्यतस्तादृशविशेषगुणस्य कारता स्यात्तदा ककारादिप्रत्यक्षाऽनुपपत्तिः प्रसज्येतापि, सैव न । अन्तिमशब्दपरीक्षा *आशुतरोत्पन्नानामिति । आशुतरोत्पन्नानाम् - तृतीयक्षणवृत्तिध्वंसप्रतियोगिनां तादृशानामप्येकक्षणोत्पन्नानाम्मुरजमृदङ्गवीणादिशब्दानाम्प्रत्यक्षमित्यनुभवसि - द्धत्वादुक्तम् —*क्रमवतामिति । *ज्ञानमसम्भाव्यमेवेति । विषयतासम्बन्धेन प्रत्यक्षम्प्रति तादात्म्यसम्बन्धेन विषयस्य कारणतया विषयस्यैवासत्त्वे प्रत्यक्षासम्भवादिति भावः । परोक्तन्दूषयति-पूर्व पूर्वेति । ननु प्रत्यक्षे विषयस्य कार्य्यसद्भावेन कारणत्वम् । किञ्च विशिष्टबुद्धिम्प्रति विशेषणज्ञानस्य कारणत्वम् । तथा च वर्णोत्पत्तिक्षणे वर्णानाशकत्वादिप्रकारकप्रत्यक्षासम्भवः । द्वितीयक्षणे च कत्वादिनिर्विकल्पकस्य सम्भवः, तृतीयक्षणे वर्णस्यैव नाश इति कथं कत्वादिप्रकारकप्रत्यक्षजन्यसंस्कारसम्भव इति चेद् ? न । तृतीयक्षणे वर्णनाशकता च स्वोत्तरोत्पन्नविशेषगुणस्य प्रतियोगितासम्बन्धेन योग्यविभुर्विशेषगुणतेत्येवं रीत्या कार्य्यकारणभावेन वाच्या, सा न सम्भवति । चरमशब्दनाशासंभवात् । किन्तु नाश्यतावच्छेदकं वैजात्यञ्च रमशब्दवृत्ति कल्पयित्वैव कार्यकारणभावो वाच्यः । एवं च तस्य वैजात्यस्य चरमशब्दवृत्तित्वमपि कल्प्यते, तावतैवेतस्य निर्विकल्पकोत्तरोत्पन्नसविकल्पकविषयत्वसम्भवस्तस्यापशब्दस्य चतुर्थक्षणे नाश इति तादृशप्रत्यक्षान्न