SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ अखण्डस्फोटनिर्णयः । ४१३ तथाच वाचकत्वान्यथानुपपत्त्या तदेवेदं पदं, तदेवेदं वाक्यं सोऽयं कार इति प्रतीत्या च स्फोटोऽखण्डः सिद्ध्यति । एतेन गौरित्यादौ गकारौकारविसर्गादिव्यतिरेकेण स्फोटाननुभवाच्छ्रयमाणवर्णानामेव वाचकत्वमस्त्वित्यपास्तम् । तेषां स्फोटातिरिक्तत्वाभावात् । यत्तु - वर्णानां प्रत्येकं वाचकत्वे प्रत्येकादर्थबोधापत्तिः । समुदा दर्पणः योगात्मकत्वेऽतीन्द्रियतापत्तिः । न च सेष्टा, अनुभवविरोधात् । नचोक्तकत्वस्यातीन्द्रियधर्मत्वेन कथं साक्षात्कारविषयत्वमिति वाच्यम् । सुरभिचन्दनमिति प्रतीतौ चक्षुयोग्यस्यापि सौरभादेश्चाक्षुषविषयत्ववत्तस्यापि श्रोत्रग्राह्यत्वसम्भवात् । विषयबाधेन परं स्फोटisशे कत्वमितिप्रतीतेर्भ्रान्तित्वमिति । 1 अन्ये तु - कादिप्रतीतिर्यदि स्फोटांशे कत्वादिकं समवायेनावगाहेत, तदा तस्याs भ्रान्तत्वसम्भावना, किन्तु स्वाश्रयाऽभिव्यङ्गयत्वसम्बन्धेनैव तदंशे वैजात्यम् । न च स्वाश्रयाऽभिव्यङ्ग्यत्वस्य सम्बन्धत्वे प्रमाणाभावः । कादिप्रतीतेरेव मानत्वात् । विशिष्टप्रतीतिनियामकविशेषो हि सम्बन्धः । अत एव 'लोहितः स्फटिक' इति बुद्धेः स्वाश्रयसंयोगस्य सम्बन्धतामामनन्ति । न च समवायविषयैव सा भ्रान्तिः । यथा-कथञ्चित् तत्प्रतीतेः प्रमात्वोपपत्तौ भ्रमत्वकल्पनाया अन्याय्यत्वात् अधिकमग्रे वक्ष्यत इत्याहुः । उपसंहरति-* तथा चेति* ॥ *वाचकत्वाऽनुपपत्त्येति ॥ पदवाक्ययोर्वर्ण समूहरूपत्वे उक्तरीत्या वर्णानां युगपदवस्थानासम्भवेन वाचकत्वग्रहाऽनुपपत्येत्यर्थः । वर्णानामनित्यत्वे प्रत्यभिज्ञाऽनुपपत्तिः साऽप्यस्मन्नये नास्तीत्याह - *तदेवेदमित्यादि* ॥ तद्व्यक्त्यभेदावगाहिपदा विशेष्यकप्रत्यभिज्ञानुपपत्या चेत्यर्थः ॥ उक्तरीत्या कथञ्चिच्छक्तिग्रहोपपादनेऽप्यनित्यवर्णघटितपदवाक्ययोरनित्यतया प्रत्यभिज्ञाऽनुपपत्तिर्दुप रिहरैवेति भावः । *एतेनेति* । प्रत्यभिज्ञानुपपत्ति सिद्धाखण्ड स्फोटस्य वाचकत्वव्यवस्थापनेनेत्यर्थः । *अननुभवादिति* । तथा च तत्रैव प्रमाणाभावेन वाचकत्वं दूरपराहतमिति भावः ॥ *तेषाम्*- गकारादिवर्णानाम् ॥ * स्फोटातिरिक्तेति ॥ गत्वप्रकारकप्रतीतिविषयगा परीक्षा *तथा च* । वर्णानामनङ्गीकारे वायुसंयोगानां वाचकत्वे च । *अखण्ड इति । अस्मिन् पक्षे वर्णानामनावश्यकत्वेनाखण्ड इत्यर्थः । स तेन प्रत्यभिज्ञानुपपत्त्या नित्यत्वेन सिद्धस्यारितिक्तस्य स्फोटस्य वाचकत्वव्यवस्थापनेन अननुभवादिति । एतेन स्फोट एव प्रमाणाभावेन तस्य वाचकत्वं दूरत एव निरस्तमिति ध्वनितम् । * तेषाम् । ककारादिवर्णानाम् । कत्वादिप्रकार प्रतीतिविषयकादिस्फोटस्यैवास्माभिर्वाचकत्वस्वीकारादिति भावः । कैयटसम्मतं स्फोटसाधनप्रकारन्दूषयितुं तन्मतमुपन्यस्यति-यत्त्विति । वर्णानाम्प्रत्येकं वाचकत्वं समुदाय भावमापन्नानां षेति विकल्प्याद्यं दूषयति-*वर्णानामिति । द्वितीये आह - *समुदायस्येति । क्रमवत्वेऽपि स्थिरत्वे ज्ञानसंभवः स्यादत आह
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy