SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ४१२ दर्पणपरीक्षासहिते भूषणसारेर्णकल्पने मानाभावात् । तत्तद्वोत्पादकत्वेनाभिमतवायुसंयोगनिष्ठं तत्तद्वर्णजनकताया व्यञ्जकताया वाऽवच्छेदकं वैजात्यमादायैव ककारो गकार इत्यादिप्रतीतिवैलक्षण्यसम्भवात् । स्पष्टं हि भामत्याम्-"तारत्वादि वायुनिष्ठं वर्णेष्वारोप्यते” इत्युक्तं देवताधिकरणे । नचैवं वायुसंयोग एव वाचकोऽपि किं न स्यादिति वाच्यम् । प्रत्यक्षोपलभ्यमानककारादेरेव वाचकत्वस्यानुभवसिद्धत्वात् । दर्पणः यत्वे सुखादीनामपि नित्यतापत्तिरत आह-*तत्तद्वर्णोत्पादकत्वेनेति ॥ वैजात्ये प्रमाण दर्शयति-*वर्णजनकताया इत्यादि । तथा च तादृशवैजात्यं समवायेन स्फोटांऽशे आदायारोप्योक्तप्रतीतिवैलक्षण्योपपत्तौ न तदनुपपत्तिरतिरिक्तककारादिवर्णसाधिका । नाप्युत्पन्नः क इत्यादिप्रतीतिस्तथा। 'सोऽयं क' इत्यभेदतत्प्रत्यभिज्ञारूपबाधकसत्त्वेन तादृशप्रतीतेभ्रंमत्वात् । नाऽपि सुखादीनां नित्यतापत्तिः । तन्नाशकस्य स्वोत्तरवर्तियोग्यात्मकविशेषगुणस्य जागरूकत्वादिति भावः ॥ *भामत्याम् । तन्नामकवाचस्पतिग्रन्थे ।। *आरोप्यत इतीति ॥ एतदनुरोधेनैवादायेति पदमारोपपरतया व्याख्यातम् ॥ मतान्तरन्तु वक्ष्यते ॥ __ वायुसंयोगोऽपीत्यपिरेवाऽर्थे । कण्ठताल्वाद्यभिघातजवायुसंयोग एवेत्यर्थः । समवायस्यानारोपितस्य वाचकतावच्छेदकत्वे लाघवात् । तथाहि संयोगस्यैव काद्यात्मकत्वमस्त्वित्यर्थः॥ समाधत्ते-*प्रत्यक्षेति ॥ अयमाशयः-कादिवर्णानामुक्तसं परीक्षा ककारो गकार इति विलक्षणप्रतीतिसत्वात्कथमसत्वमत आह-*तद्वर्णवत्वमिति । *अवच्छेदकमिति । एतेन वैजात्ये प्रमाणन्दर्शितम् । एवम्प्रकारेण सिद्धं यद्वैजात्यं तस्य समवायसम्बन्धेन स्फोटे आरोपात्ककारादिविषयकविलक्षणप्रतीतिनिर्वाहः । न चोत्पन्नः क इत्यादिप्रतीतिवशादनित्यत्वम् । सोऽयं ककार इत्यभेदावगाहिप्रत्यभिज्ञया विरोधेन तस्याः प्रतीतेर्धमत्वात् । अभिव्यञ्जकगतोत्पत्तिविनाशाद्यारोपेण तस्या उप. पत्तेश्च । एवञ्च व्यञ्जकधर्माःस्फोटे आरोप्यन्ते। व्यञ्जकनिष्ठं वैजात्यमेव परम्परासम्बन्धेन कत्वादिकमिति सिद्धम् । *भामत्यामिति भामतीनामके वाचस्पस्तिनिर्मिते ग्रन्थे। ___ श्वायुसंयोग एवेति । कण्ठताल्वाद्यभिघातजनकवायुसंयोग इत्यर्थः। अनारोपितधर्मस्य वाचकतावच्छेदकत्वकल्पनापेक्षया आरोपितस्य वाचकतावच्छेदकत्वगौरव. मितिभावः । वाचकविषयकं श्रावणप्रत्यक्षमनुभवसिद्धम् । यदि वायुसंयोग एव वाचकः स्यात्तदातस्यातीन्द्रियतया प्रत्यक्षन्नस्यात्। स्फोटस्तु पदं वाक्यं वा शणोमीत्यनुभवात्प्रत्यक्षमेव । भवन्मते कथं कत्वादिप्रत्यक्षन्तस्याभिव्यञ्जकधर्मत्वस्य भवतीत्युक्तत्वादिति वाच्यम् । सुरभिचन्दनमिति प्रत्यक्षे चक्षुरयोग्यस्यापि सौरभस्य भानवच्छ्रवणायोग्यस्याव्यभिव्यञ्जकधर्मस्य श्रावणप्रत्यक्षे आरोपात्मके भानसम्भवात्तस्याः प्रतीतेः। समवायसम्बन्धावच्छिन्नकत्वादिप्रकारकत्वे भ्रमत्वम् । यदि स्वाश्रयाभिव्यङ्ग्यत्व. रूपपरम्परासम्बन्धस्य 'लोहितः स्फटिकः' इति प्रतीतेर्जपाकुसुमसन्निधाने जायमानाया अनुभवसिद्धत्वेन प्रकारतावच्छेदकत्वमस्तीत्याशयेन दूषयति-*प्रत्यक्षमित्यादिना*।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy