SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ अखण्डस्फोटनिर्णयः। इदनीमखण्डपक्षमाह पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च ॥ ६८ ॥ वाक्यात् पदानामत्यन्तं प्रविवेको न कश्चन ॥ पदे पचतीत्यादौ न वर्णाः। नातो वर्णसमूहः पदमिति शेषः । दृष्टान्तव्याजेनाह-*वर्णेष्विति ॥ एकारौकारलकारऋकारादिवणेववयवाः प्रतीयमाना भपि यथा नेत्यर्थः। क्वचिदित्येव पाठः । एवं वाक्येऽप्याह-*वाक्यादिति ॥ पदानामपि वाक्याद्विवेको= भेदो नास्तीत्यर्थः। अयम्भाव:-वाक्यं पदं चाखण्डमेव, न तु वर्णसमूहः । अनन्तव दर्पणः अखण्डस्फोटनिर्णयः। . अखण्डस्फोटनिरूपणेऽवसरस्य सङ्गतित्वं सूचयन्नाह-*इदानीमिति* । सखण्डस्फोटनिरूपणानन्तरमित्यर्थः। *अखण्डेति* । पदवाक्ययोरखण्डत्वं चाविद्यमानावयवकत्वम् । वर्णानामावयवाघटितत्वस्यापि सिषाधयिषितत्वादाह-*दृष्टान्तेति । दृष्टान्तवाक्यस्येवादिघटितत्वनिवेशेन तदभावात् कथं वर्णेष्वित्यादेस्तत्त्वमित्याशङ्कय , यथाशब्दान्तर्भावेण मूलं व्याचष्टे-*यथेति । *इवेतीति । अवयवा इवेत्यर्थः । तथा च यथाश्रुतस्यैव दृष्टान्तत्वं नानुपपन्नमिति । 'विचिर् पृथग्भावे' इति प्रत्युपसृष्टयनन्तभावसाधनप्रविवेकशब्दार्थः पृथग्भावो भेदे पर्य्यवस्यतीत्याशयेनाह-*भेद इति । ___ ननु पदादिप्रतीतौ तदवयवानां वर्णानामुपलभ्यमानत्वात् कथं तदसत्त्वमत आह*अयम्भाव इति ॥ *अखण्डमेवेति ॥ व्याख्यातार्थम् । एवकारव्यवच्छेचं स्पष्टयति-*न त्विति ॥ *अनन्तेति ॥ अनेकेत्यर्थः ॥ ननु 'ककारो, गकार' इति प्रतीतिरेव वर्णकल्पने मानम् । यदि च वर्णाभिव्यञ्जकत्वेनोत्पादकत्वेन वाभिमतवायसंयोगविशेषाभिव्यक्तस्फोटे एव कत्वादिना तादृशप्रतीतिविषय इति विभाव्यते, तदापि 'उत्पन्नः, ककारः नष्टः ककार:' इत्यादिप्रतीत्यनुपपत्तिः । स्फोटाऽतिरिक्तककारादीनां त्वयाऽनभ्युपगमात् । तस्य च नित्यत्वात् । व्यञ्जकनिष्ठाया उत्पत्तेस्तद्विष परीक्षा अवसरस्य सङ्गतित्वं सूचयन्नाह-*इदानीमिति । अखण्डत्वञ्च-अवयवाघटितत्वम् । वर्णानामप्यवयवशून्यत्वं साधयितुमिष्टमित्याशयेन व्याजपदम् । ननु घटपटादिपदप्रत्यक्षे घटपटादीनामनुभूयमानत्वात्कथं वर्णानामसत्वं प्रतिपादयसीत्यतस्तदुपपादयति-*अयम्भाव इत्यादिना*। *अनन्तेति-अनेकेत्यर्थः । ननु करोति गच्छतीत्यादौ
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy