SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४१० दर्पणपरीक्षासहिते भूषणसारे___ उत्तरवर्णप्रत्यक्षसमये तस्मिन्नव्यवहितोत्तरत्वसम्बन्धेनोपस्थितपूर्ववर्णवत्त्वं, तथा तदुत्तरप्रत्यक्षकाले उपस्थितविशिष्टतद्वर्णवत्त्वं तस्मिन् सुग्रहमिति तादृशानुपूर्वीघटितपदत्वस्येव वाक्यत्वस्यापि सुग्रहत्वात् ॥ ६७ ॥ * इति पवाक्यस्फोटनिर्णयः * दर्पणः शिनां क्रमिकाणां मेलकाऽसम्भवादन्तिमवर्णोत्पत्तिकाले तदभिव्यक्तिकाले वा पूर्वपूर्ववर्णानां तावदभिव्यक्तानां वाऽवस्थानासम्भवेन तत्समूहरूपपदस्य वाक्यस्य वा तादात्म्येन प्रत्यक्षकारणस्याभावात् । प्रत्यक्षस्यैवाऽसम्भवेन तत्रोक्तशक्तिग्रहस्य गगनकुसुमायमानत्वादित्यखण्डलार्थः। ___ अभिव्यक्तिपक्षमादाय समाधत्ते-*उत्तरवर्णप्रत्यक्षेति । *अव्यवहितोत्तरेति । एतन्नये वर्णानां नित्यत्वेन सर्वेषामेव वर्णानामव्यवधानेन स्वाधिकरणक्षणोत्तरकालवृत्तित्वादव्यवस्थापत्त्या स्वस्वाभिव्यक्तिगतमेवाव्यवहितोत्तरत्वं वाच्यम् । तदारोपादेव वर्णेष्वव्यवहितोत्तरत्वव्यवहारः । अत एव तत्रोपस्थितेविशेषणतया निवेशः । तच्चाव्यवहितत्वे सत्युत्तरत्वम् । अव्यवहितत्वं च-स्वध्वंसानधिकरणक्षणसम्बन्धित्वम् । तेन घटित, घट' इत्यादौ नातिप्रसङ्गः। उत्तरत्वं तु स्वाऽधिकरणक्षणध्वंसाधिकरणसमयोत्पत्तिकत्वम् । तेन, 'पिब, मधु, शीघ्रम्' इत्यादौ न शीधुभागस्य पदत्वम् । अन्यनिरूपिताव्यवधानादेरन्यसम्बन्धत्वाभावेन स्वत्वस्य परिचायकतया प्रवे. शान्नाननुगमशङ्काऽपि । उत्तरोत्तरवर्णोपस्थितेः पूर्वपूर्ववर्णोपस्थितिज़सानधिकरणसमयसम्बन्धित्वात्तदधिकरणक्षणध्वंसाधिकरणत्वाच्च निरुक्तसम्बन्धेन तद्वत्त्वमविकलम् । इत्थञ्च पूर्वपूर्ववर्णोऽशेऽलौकिकस्य चरमवर्णोऽशे लौकिकप्रत्यक्षस्य सम्भवात्तत्राऽर्थे बोधकत्वरूपशक्तेः सुग्रहत्वादुक्तपदवाक्यस्फोटसिद्धिनिराबाधेति भावः ॥६७॥ इति भूषणसारदर्पणे पदवाक्यस्फोटनिरूपणम् ॥ १४ ॥ परीक्षा तेषामनित्येति पक्षालम्बेन समाधत्ते-*उत्तरवणेत्यादिना । एतन्मते वर्णानान्नित्यत्वात्सर्वेषामेव वर्णानां स्वाधिकरणक्षणोत्तरक्षणवृत्तितानुपूर्व्यसम्भव इत्यभिव्यक्तिगतपौर्वापर्यमादायाभिव्यङ्गयेष्वारोपितः क्रमः । अत एवाभिव्यक्ता वर्णा बोधका इति व्यवहारः । उपस्थितीनामव्यवहितोत्तरत्वञ्चाव्यवहिते सत्युत्तरत्वम् । अव्यवहितत्वं च-स्वध्वंसानधिकरणक्षणवृत्तित्वम् । उत्तरत्वं च-स्वाधिकरणक्षणवंसाधिकरणसमयोत्पत्तिमत्वम् । एवञ्चोत्तरवणे पूर्ववर्णवैशिष्टयमुक्त्वा व्यवहितोत्तरत्वसम्बन्धेन स्वाभिव्यक्तिविशिष्टाभिव्यक्तिविषयत्वसम्बन्धेन । एवम्प्रथमवर्णविशिष्टद्वितीयवर्णवैशिष्टयं तृतीयवर्ण इति क्रमेण चरमवर्णप्रत्यक्षम् । तदनन्तरं चरम. वर्णोशे लाकिकमन्यवर्णोशे त्वलौकिकमिति पदवाक्यप्रत्यक्षस्य संभव इति ॥ ६ ॥ इति सखण्डपदवाक्यस्फोटविवरणम् ॥१४॥
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy