________________
पदवाक्यस्फोटनिय इयमेव मीमांसकानां वेदान्तैकदेशिनां च गतिरित्याह
सर्वत्रैव हि वाक्यार्थो लक्ष्य एवेति ये विदुः॥ भाडास्तेऽपीत्थमेवाहुर्लक्षणाया ग्रहे गतिम् ॥६७॥ *भाट्टा इति। तदनुयायिनां वाचस्पतिकल्पतरुप्रभृतीनामुपलक्षणम्।
ननूक्तपक्षद्वयमनुपपन्नम् , उत्पत्तेरभिव्यक्तेर्वैकदाऽसम्भवेन उत्पनानामभिव्यक्तानां वर्णसमूहरूपदज्ञानासम्भवात् । तथा च सुतरां तत्समूहरूपवाक्यज्ञानासम्भव इति चेद् ? न ।
दर्पणः *उपलक्षणमिति* । त्वन्मते, 'गभीरायां नद्यां घोष इत्यादौ प्रत्येकपदशक्त्या स्वशक्यसम्बन्धरूपलक्षणया वोक्तदिशाऽभीप्सितार्थान्वयबोधाऽसम्भवात्, स्वबोध्यसम्बन्धस्य लक्षणत्वाभ्युपगमेन वाक्यार्थमात्रे वाक्यलक्षणाङ्गीकारादिति भावः । *पक्षद्वयमिति। पदवाक्यभेदेन व्यवस्थितं स्फोटद्वयमित्यर्थः। अनुपपत्तिमेवाह*उत्पन्नानामिति । वर्णानित्यतावादिमते वर्णानां योग्यविभुविशेषगुणत्वेन स्वोत्तरोत्पन्नगुणनाश्यत्वादेकदाऽवस्थानासम्भवः । तन्नित्यतावादिमते त्वाह-*अभिव्यक्तानामिति । वर्णा नित्याः, किन्तु तदभिव्यक्तिरेवानित्या। वर्णोत्पादकत्वेनान्याभिमतानामेव कण्ठाद्यभिघातादीनां तदभिव्यञ्जकत्वाभ्युपगमात् । तथाचाभिव्यक्तरेपि योग्यविभुविशेषगुणतया स्वोत्तरोत्पन्नगुणनाश्यत्वाविशेषात् । क्षणिकत्वात्तद्विशिष्टवर्णानामपि युगपदवस्थानासम्भव एवेत्यर्थः।
नन्वस्तु वर्णानां युगपदनवस्थानं, किमस्माकमनिष्टमत आह-*वर्णसमूहेति । वाक्यस्फोटकल्पेऽपि तदाह-*तथा चेति । *ज्ञानासम्भव इतीति । आशुविना.
परीक्षा ब्दबोध इति। उक्तस्थले 'श्वेतोऽश्वोधावति इति बुद्धिस्त्वनुमितिरूपैवेति बोध्यम् ॥६६॥ ___इयमेव । स्फोटस्वीकाररूपैव । अयम्भावः-तन्मते स्वबोध्यसम्बन्धो लक्षणा। 'देविकायानद्याङ्घोष इत्यादिवाक्यं यत्र प्रयुज्यते तत्र देविकाभिन्ननदीतीरवृत्तिर्घोष इति बोधो भवति । तस्य प्रत्येकपदशक्त्या शक्यसम्बन्धरूपलक्षणया वोपपत्तिर्न स. म्भवति । शब्दस्याशुविनाशितया पदज्ञानस्यवासंभवादिति स्फोटस्य स्वीकार आवश्यक इति । *ये*-भाट्टाः । अविदुरित्यत्रान्वयः । *लक्षणाया इति । वाक्यार्थे वाक्यस्य समुदायात्मकस्य शक्त्यभावात्तद्विषयकबोधोपपत्तये या लक्षणाऽङ्गीक्रियते, तस्या इत्यर्थः। *पक्षद्वयम्-पदवाक्यभेदेन स्फोटद्वयम् । *उत्पत्तेरिति । वर्णानामनित्यत्ववादिमतेनेदम् । तन्मते योग्यविभुर्विशेषगुणानां योगपद्याभावात्स्वोत्तरोत्पन्नगुणनाश्यत्वाच्चैकदावस्थानासम्भवः । वर्णनित्यतावादिमताभिप्रायेणाह-*अभिव्यक्तरिति । तन्मते वर्णा नित्याः, तेषामभिव्यक्तिस्त्वनित्या । सा च वर्णोत्पादकत्वेन पराभिमतायाः कण्ठाद्यवच्छिन्नवायुसंयोगादिघटितासामग्रीतया ज्ञायते । एवञ्चाभिव्यक्तेरपि योग्यविभुर्विशेषगुणात्मकतयोक्तरीत्याऽसम्भव इति । *अभिव्यक्तवर्णसमूहरूपपदज्ञानासम्भवादिति । वर्णा नित्या एवाभिव्यक्तिस्तु
५२ द० प०