________________
૦૮
. दर्पणपरीक्षासहिते भूषणसारेवापोद्वापाभ्यां परं प्रत्येकं तद्ग्रह इति बोध्यम् ॥ ६६ ॥
. दर्पणः व्यवहारेण पूर्व वाक्य एव शक्तिग्रहेण तस्यैव शाब्दबोधहेतुत्वाऽवधारणात्ताशवृत्तेश्च स्वाश्रयविषयकत्वस्वविषयकोदबुद्धसंस्कारसामानाधिकरण्योभयसम्बन्धेनवैशिष्टयस्येदानीन्ततः वाक्यज्ञानेऽप्यक्षतत्वान्न वृत्तिज्ञानस्य शाब्दबोधे हेतुतायां व्यभिचारः । मध्ये वाक्यार्थोपस्थितेरनपेक्षणाच्च नोक्तदोषावसर इति भावः।
ननु तर्हि पदस्फोटस्य निरालम्बनतापत्तिरत आह-*आवापोद्वापाभ्यामिति । आनयनाऽपसारणाभ्यामेकपदोपादानापरापदानुपादानाभ्यामित्यर्थः । तद्ग्रहः । प्रत्येकपदे प्रत्येकपदार्थशक्तिग्रहः । तथा च प्रत्येकपदशक्तिसाचिव्येनाकाङ्क्षादिवशात् पदाद्वाक्यार्थशाब्दबोधस्तदा पदस्फोटो, यदा तु तन्निरपेक्षैव सा बोधं जनयति, तदा वाक्यस्फोट इति मतद्वयं पर्य्यवस्यतीति भावः । ___ केचित्तु-उपस्थिताः पदार्थास्तदुपस्थितिर्वा शाब्दबोधहेतुर्नतु पदज्ञानमपि । तद्विनापि शाब्दबोधोदयेन व्यभिचारात् । तदुक्तम् ।
पश्यतः श्वेतमारूपं हेषाशब्दं च शण्वतः।
खुरविक्षेपशब्दं च श्वेतोऽश्वो धावतीति धीः ॥ इति ॥ तन्न। शब्दं विना जायमानस्य घटादिचाक्षुषस्यापि शाब्दत्वापत्तेः। तत्र पश्यामि, न शाब्दयामीत्यनुव्यवसायान्न शाब्दत्वं यदि, तदा प्रकृतेऽपि समम् । उक्तप्रतीतेरनुमानेनैव निर्वाहात् । तत्र शाब्दप्रत्ययस्त्वसिद्ध एवेत्यादि स्वयमूह्यम् ॥ ६६ ॥
परीक्षा शक्तिग्रहः। अयम्भावः-शक्तिविशिष्टनिश्चयस्य शाब्दबोधहेतुरिति पूर्व ज्ञाता या शक्ति स्तस्याःस्वाश्रयशब्दविषयकत्व, स्वाश्रयशब्दविषयकोबुद्धसंस्कारसामानाधिकरण्यो. भयसम्बन्धेन । इदानीन्तद्वाच्यताज्ञानेऽपि सत्त्वानवृत्तिज्ञानस्य शाब्दबोधहेतुतायां व्यभिचार इति ।
नन्वेवम्पदस्फोटपक्षो निरालम्बन एव स्यादत आह-*आवापोद्वापाभ्यामिति । सङ्ग्रहत्यागाभ्यामित्यर्थः । *तद्ग्रहः -प्रत्येकपदे प्रत्येकपदार्थशक्तिग्रहः। एवञ्च प्रत्येकपदशक्तिज्ञानजन्यप्रत्येकपदार्थोपस्थित्यनन्तरं तत्सहकृताकाङ्क्षा; ज्ञानादिना शाब्दबोधस्तदा पदस्फोट इति व्यवहारो, यदा तु तन्निरपेक्षवाक्यज्ञानमात्रेण वाक्या. र्थबोधस्तदा वाक्यस्फोट इति व्यवहारः। ___ यत्वर्थाध्याहारवादिन आहुः-शब्दज्ञानन्न शाब्दबोधहेतुरर्थोपस्थितिमात्रेण यन्त्र शाब्दबोधस्तत्र व्यभिचारात् । अत एव
पश्यतः श्वेतमारूपं हेषां शब्दञ्च शृण्वतः।
खुरविक्षेपशब्दं च श्वेतोऽश्वो धावतीति धीः ।। - इति वृद्धाः । एवञ्च पदस्फोटादिविचार आपातरमणीय एवेति, तत्तुच्छम् । शब्द विना जायमानज्ञानस्य शाब्दबोधपदव्यवहार्यत्वे चाक्षुषज्ञानस्यापि शाब्दत्वापत्तेः । तत्र पश्यामीत्येवानुव्यवसायोः नतु शाब्दयामिति । तस्य न शाब्दत्वमिति चेत्तदा प्रकृतेऽपि यत्र मनसा पदार्थोपस्थितिमात्रम्, तत्र जानामीत्येवानुव्यवसायान शा.